वैशम्पाय़न उवाच:
सर्वे भागान्कल्पय़ध्वं यज्ञेषु मम नित्यशः |
४७ क
वैशम्पाय़न उवाच:
तथा श्रेय़ो विधास्यामि यथाधीकारमीश्वराः ||
४७ ख
वैशम्पाय़न उवाच:
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः |
४८ क
वैशम्पाय़न उवाच:
ततस्ते विवुधाः सर्वे व्रह्मा ते च महर्षय़ः ||
४८ ख
वैशम्पाय़न उवाच:
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् |
४९ क
वैशम्पाय़न उवाच:
तस्मिन्सत्रे तदा व्रह्मा स्वय़ं भागमकल्पय़त् |
४९ ख
वैशम्पाय़न उवाच:
देवा देवर्षय़श्चैव सर्वे भागानकल्पय़न् ||
४९ ग
वैशम्पाय़न उवाच:
ते कार्तय़ुगधर्माणो भागाः परमसत्कृताः |
५० क
वैशम्पाय़न उवाच:
प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् |
५० ख
वैशम्पाय़न उवाच:
वृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् ||
५० ग
वैशम्पाय़न उवाच:
ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान् |
५१ क
वैशम्पाय़न उवाच:
अशरीरो वभाषेदं वाक्यं खस्थो महेश्वरः ||
५१ ख
वैशम्पाय़न उवाच:
येन यः कल्पितो भागः स तथा समुपागतः |
५२ क
वैशम्पाय़न उवाच:
प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ||
५२ ख
वैशम्पाय़न उवाच:
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् |
५३ क
वैशम्पाय़न उवाच:
यूय़ं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः |
५३ ख
वैशम्पाय़न उवाच:
युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः ||
५३ ग
वैशम्पाय़न उवाच:
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः |
५४ क
वैशम्पाय़न उवाच:
कल्पय़िष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ||
५४ ख
वैशम्पाय़न उवाच:
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ |
५५ क
वैशम्पाय़न उवाच:
स तथा यज्ञभागार्हो वेदसूत्रे मय़ा कृतः ||
५५ ख
वैशम्पाय़न उवाच:
यूय़ं लोकान्धारय़ध्वं यज्ञभागफलोदिताः |
५६ क
वैशम्पाय़न उवाच:
सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः ||
५६ ख
वैशम्पाय़न उवाच:
याः क्रिय़ाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः |
५७ क
वैशम्पाय़न उवाच:
ताभिराप्याय़ितवला लोकान्वै धारय़िष्यथ ||
५७ ख
वैशम्पाय़न उवाच:
यूय़ं हि भाविता लोके सर्वय़ज्ञेषु मानवैः |
५८ क
वैशम्पाय़न उवाच:
मां ततो भावय़िष्यध्वमेषा वो भावना मम ||
५८ ख
वैशम्पाय़न उवाच:
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह |
५९ क
वैशम्पाय़न उवाच:
एभिः सम्यक्प्रय़ुक्तैर्हि प्रीय़न्ते देवताः क्षितौ ||
५९ ख
वैशम्पाय़न उवाच:
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् |
६० क
वैशम्पाय़न उवाच:
मय़ा कृतं सुरश्रेष्ठा यावत्कल्पक्षय़ादिति |
६० ख
वैशम्पाय़न उवाच:
चिन्तय़ध्वं लोकहितं यथाधीकारमीश्वराः ||
६० ग
वैशम्पाय़न उवाच:
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः |
६१ क
वैशम्पाय़न उवाच:
वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै ||
६१ ख
वैशम्पाय़न उवाच:
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः |
६२ क
वैशम्पाय़न उवाच:
प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः ||
६२ ख
वैशम्पाय़न उवाच:
अय़ं क्रिय़ावतां पन्था व्यक्तीभूतः सनातनः |
६३ क
वैशम्पाय़न उवाच:
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ||
६३ ख
वैशम्पाय़न उवाच:
सनः सनत्सुजातश्च सनकः ससनन्दनः |
६४ क
वैशम्पाय़न उवाच:
सनत्कुमारः कपिलः सप्तमश्च सनातनः ||
६४ ख
वैशम्पाय़न उवाच:
सप्तैते मानसाः प्रोक्ता ऋषय़ो व्रह्मणः सुताः |
६५ क
वैशम्पाय़न उवाच:
स्वय़मागतविज्ञाना निवृत्तं धर्ममास्थिताः ||
६५ ख
वैशम्पाय़न उवाच:
एते योगविदो मुख्याः साङ्ख्यधर्मविदस्तथा |
६६ क
वैशम्पाय़न उवाच:
आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः ||
६६ ख
वैशम्पाय़न उवाच:
यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान् |
६७ क
वैशम्पाय़न उवाच:
तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः |
६७ ख
वैशम्पाय़न उवाच:
सोऽहं क्रिय़ावतां पन्थाः पुनरावृत्तिदुर्लभः ||
६७ ग
वैशम्पाय़न उवाच:
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि |
६८ क
वैशम्पाय़न उवाच:
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः ||
६८ ख
वैशम्पाय़न उवाच:
एष लोकगुरुर्व्रह्मा जगदादिकरः प्रभुः |
६९ क
वैशम्पाय़न उवाच:
एष माता पिता चैव युष्माकं च पितामहः |
६९ ख
वैशम्पाय़न उवाच:
मय़ानुशिष्टो भविता सर्वभूतवरप्रदः ||
६९ ग
वैशम्पाय़न उवाच:
अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः |
७० क
वैशम्पाय़न उवाच:
व्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः ||
७० ख
वैशम्पाय़न उवाच:
गच्छध्वं स्वानधीकारांश्चिन्तय़ध्वं यथाविधि |
७१ क
वैशम्पाय़न उवाच:
प्रवर्तन्तां क्रिय़ाः सर्वाः सर्वलोकेषु माचिरम् ||
७१ ख
वैशम्पाय़न उवाच:
प्रदृश्यन्तां च कर्माणि प्राणिनां गतय़स्तथा |
७२ क
वैशम्पाय़न उवाच:
परिनिर्मितकालानि आय़ूंषि च सुरोत्तमाः ||
७२ ख
वैशम्पाय़न उवाच:
इदं कृतय़ुगं नाम कालः श्रेष्ठः प्रवर्तते |
७३ क
वैशम्पाय़न उवाच:
अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा |
७३ ख
वैशम्पाय़न उवाच:
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः ||
७३ ग
वैशम्पाय़न उवाच:
ततस्त्रेताय़ुगं नाम त्रय़ी यत्र भविष्यति |
७४ क
वैशम्पाय़न उवाच:
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे |
७४ ख
वैशम्पाय़न उवाच:
तत्र पादचतुर्थो वै धर्मस्य न भविष्यति ||
७४ ग
वैशम्पाय़न उवाच:
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति |
७५ क
वैशम्पाय़न उवाच:
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति ||
७५ ख
वैशम्पाय़न उवाच:
ततस्तिष्येऽथ सम्प्राप्ते युगे कलिपुरस्कृते |
७६ क
वैशम्पाय़न उवाच:
एकपादस्थितो धर्मो यत्र तत्र भविष्यति ||
७६ ख
देवा ऊचुः:
एकपादस्थिते धर्मे यत्रक्वचनगामिनि |
७७ क
देवा ऊचुः:
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ||
७७ ख
श्रीभगवानु उवाच:
यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा |
७८ क
श्रीभगवानु उवाच:
अहिंसाधर्मसंय़ुक्ताः प्रचरेय़ुः सुरोत्तमाः |
७८ ख
श्रीभगवानु उवाच:
स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् ||
७८ ग
व्यास उवाच:
तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा |
७९ क
व्यास उवाच:
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् ||
७९ ख
व्यास उवाच:
गतेषु त्रिदिवौकःसु व्रह्मैकः पर्यवस्थितः |
८० क
व्यास उवाच:
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ||
८० ख
व्यास उवाच:
तं देवो दर्शय़ामास कृत्वा हय़शिरो महत् |
८१ क
व्यास उवाच:
साङ्गानावर्तय़न्वेदान्कमण्डलुगणित्रधृक् ||
८१ ख
व्यास उवाच:
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् |
८२ क
व्यास उवाच:
लोककर्ता प्रभुर्व्रह्मा लोकानां हितकाम्यया ||
८२ ख
व्यास उवाच:
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः |
८३ क
व्यास उवाच:
स परिष्वज्य देवेन वचनं श्रावितस्तदा ||
८३ ख
व्यास उवाच:
लोककार्यगतीः सर्वास्त्वं चिन्तय़ यथाविधि |
८४ क
व्यास उवाच:
धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः |
८४ ख
व्यास उवाच:
त्वय़्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ||
८४ ग
व्यास उवाच:
यदा च सुरकार्यं ते अविषह्यं भविष्यति |
८५ क
व्यास उवाच:
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः ||
८५ ख
व्यास उवाच:
एवमुक्त्वा हय़शिरास्तत्रैवान्तरधीय़त |
८६ क
व्यास उवाच:
तेनानुशिष्टो व्रह्मापि स्वं लोकमचिराद्गतः ||
८६ ख
व्यास उवाच:
एवमेष महाभागः पद्मनाभः सनातनः |
८७ क
व्यास उवाच:
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ||
८७ ख
व्यास उवाच:
निवृत्तिं चास्थितो धर्मं गतिमक्षय़धर्मिणाम् |
८८ क
व्यास उवाच:
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् ||
८८ ख
व्यास उवाच:
स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेय़ः स कर्ता स कार्यम् |
८९ क
व्यास उवाच:
युगान्ते स सुप्तः सुसङ्क्षिप्य लोका; न्युगादौ प्रवुद्धो जगद्ध्युत्ससर्ज ||
८९ ख
व्यास उवाच:
तस्मै नमध्वं देवाय़ निर्गुणाय़ गुणात्मने |
९० क
व्यास उवाच:
अजाय़ विश्वरूपाय़ धाम्ने सर्वदिवौकसाम् ||
९० ख
व्यास उवाच:
महाभूताधिपतय़े रुद्राणां पतय़े तथा |
९१ क
व्यास उवाच:
आदित्यपतय़े चैव वसूनां पतय़े तथा ||
९१ ख