व्यास उवाच:
अश्विभ्यां पतय़े चैव मरुतां पतय़े तथा |
९२ क
व्यास उवाच:
वेदय़ज्ञाधिपतय़े वेदाङ्गपतय़ेऽपि च ||
९२ ख
व्यास उवाच:
समुद्रवासिने नित्यं हरय़े मुञ्जकेशिने |
९३ क
व्यास उवाच:
शान्तय़े सर्वभूतानां मोक्षधर्मानुभाषिणे ||
९३ ख
व्यास उवाच:
तपसां तेजसां चैव पतय़े यशसोऽपि च |
९४ क
व्यास उवाच:
वाचश्च पतय़े नित्यं सरितां पतय़े तथा ||
९४ ख
व्यास उवाच:
कपर्दिने वराहाय़ एकशृङ्गाय़ धीमते |
९५ क
व्यास उवाच:
विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा ||
९५ ख
व्यास उवाच:
गुह्याय़ ज्ञानदृश्याय़ अक्षराय़ क्षराय़ च |
९६ क
व्यास उवाच:
एष देवः सञ्चरति सर्वत्रगतिरव्ययः ||
९६ ख
व्यास उवाच:
एवमेतत्पुरा दृष्टं मय़ा वै ज्ञानचक्षुषा |
९७ क
व्यास उवाच:
कथितं तच्च वः सर्वं मय़ा पृष्टेन तत्त्वतः ||
९७ ख
व्यास उवाच:
क्रिय़तां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः |
९८ क
व्यास उवाच:
गीय़तां वेदशव्दैश्च पूज्यतां च यथाविधि ||
९८ ख
वैशम्पाय़न उवाच:
इत्युक्तास्तु वय़ं तेन वेदव्यासेन धीमता |
९९ क
वैशम्पाय़न उवाच:
सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित् ||
९९ ख
वैशम्पाय़न उवाच:
स चास्माकमुपाध्याय़ः सहास्माभिर्विशां पते |
१०० क
वैशम्पाय़न उवाच:
चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे ||
१०० ख
वैशम्पाय़न उवाच:
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि |
१०१ क
वैशम्पाय़न उवाच:
एवं मेऽकथय़द्राजन्पुरा द्वैपाय़नो गुरुः ||
१०१ ख
वैशम्पाय़न उवाच:
यश्चेदं शृणुय़ान्नित्यं यश्चेदं परिकीर्तय़ेत् |
१०२ क
वैशम्पाय़न उवाच:
नमो भगवते कृत्वा समाहितमना नरः ||
१०२ ख
वैशम्पाय़न उवाच:
भवत्यरोगो द्युतिमान्वलरूपसमन्वितः |
१०३ क
वैशम्पाय़न उवाच:
आतुरो मुच्यते रोगाद्वद्धो मुच्येत वन्धनात् ||
१०३ ख
वैशम्पाय़न उवाच:
कामकामी लभेत्कामं दीर्घमाय़ुरवाप्नुय़ात् |
१०४ क
वैशम्पाय़न उवाच:
व्राह्मणः सर्ववेदी स्यात्क्षत्रिय़ो विजय़ी भवेत् |
१०४ ख
वैशम्पाय़न उवाच:
वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुय़ात् ||
१०४ ग
वैशम्पाय़न उवाच:
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् |
१०५ क
वैशम्पाय़न उवाच:
लग्नगर्भा विमुच्येत गर्भिणी जनय़ेत्सुतम् |
१०५ ख
वैशम्पाय़न उवाच:
वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् ||
१०५ ग
वैशम्पाय़न उवाच:
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि |
१०६ क
वैशम्पाय़न उवाच:
यो यं कामं कामय़ते स तमाप्नोति च ध्रुवम् ||
१०६ ख
वैशम्पाय़न उवाच:
इदं महर्षेर्वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम् |
१०७ क
वैशम्पाय़न उवाच:
समागमं चर्षिदिवौकसामिमं; निशम्य भक्ताः सुसुखं लभन्ते ||
१०७ ख