जनमेजय़ उवाच:
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः |
१ क
जनमेजय़ उवाच:
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ||
१ ख
जनमेजय़ उवाच:
निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रिय़ः |
२ क
जनमेजय़ उवाच:
प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ||
२ ख
जनमेजय़ उवाच:
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः |
३ क
जनमेजय़ उवाच:
कथं निवृत्तिधर्माश्च कृता व्यावृत्तवुद्धय़ः ||
३ ख
जनमेजय़ उवाच:
एतं नः संशय़ं विप्र छिन्धि गुह्यं सनातनम् |
४ क
जनमेजय़ उवाच:
त्वय़ा नाराय़णकथा श्रुता वै धर्मसंहिता ||
४ ख
जनमेजय़ उवाच:
इमे सव्रह्मका लोकाः ससुरासुरमानवाः |
५ क
जनमेजय़ उवाच:
क्रिय़ास्वभ्युदय़ोक्तासु सक्ता दृश्यन्ति सर्वशः |
५ ख
जनमेजय़ उवाच:
मोक्षश्चोक्तस्त्वय़ा व्रह्मन्निर्वाणं परमं सुखम् ||
५ ग
जनमेजय़ उवाच:
ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः |
६ क
जनमेजय़ उवाच:
ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः ||
६ ख
जनमेजय़ उवाच:
अहो हि दुरनुष्ठेय़ो मोक्षधर्मः सनातनः |
७ क
जनमेजय़ उवाच:
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ||
७ ख
जनमेजय़ उवाच:
किं नु व्रह्मा च रुद्रश्च शक्रश्च वलभित्प्रभुः |
८ क
जनमेजय़ उवाच:
सूर्यस्ताराधिपो वाय़ुरग्निर्वरुण एव च |
८ ख
जनमेजय़ उवाच:
आकाशं जगती चैव ये च शेषा दिवौकसः ||
८ ग
जनमेजय़ उवाच:
प्रलय़ं न विजानन्ति आत्मनः परिनिर्मितम् |
९ क
जनमेजय़ उवाच:
ततस्ते नास्थिता मार्गं ध्रुवमक्षय़मव्ययम् ||
९ ख
जनमेजय़ उवाच:
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः |
१० क
जनमेजय़ उवाच:
दोषः कालपरीमाणे महानेष क्रिय़ावताम् ||
१० ख
जनमेजय़ उवाच:
एतन्मे संशय़ं विप्र हृदि शल्यमिवार्पितम् |
११ क
जनमेजय़ उवाच:
छिन्धीतिहासकथनात्परं कौतूहलं हि मे ||
११ ख
जनमेजय़ उवाच:
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज |
१२ क
जनमेजय़ उवाच:
किमर्थं चाध्वरे व्रह्मन्निज्यन्ते त्रिदिवौकसः ||
१२ ख
जनमेजय़ उवाच:
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम |
१३ क
जनमेजय़ उवाच:
ते यजन्तो महाय़ज्ञैः कस्य भागं ददन्ति वै ||
१३ ख
वैशम्पाय़न उवाच:
अहो गूढतमः प्रश्नस्त्वय़ा पृष्टो जनेश्वर |
१४ क
वैशम्पाय़न उवाच:
नातप्ततपसा ह्येष नावेदविदुषा तथा |
१४ ख
वैशम्पाय़न उवाच:
नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा ||
१४ ग
वैशम्पाय़न उवाच:
हन्त ते कथय़िष्यामि यन्मे पृष्टः पुरा गुरुः |
१५ क
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नो व्यासो वेदव्यासो महानृषिः ||
१५ ख
वैशम्पाय़न उवाच:
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः |
१६ क
वैशम्पाय़न उवाच:
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ||
१६ ख
वैशम्पाय़न उवाच:
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् |
१७ क
वैशम्पाय़न उवाच:
शौचाचारसमाय़ुक्ताञ्जितक्रोधाञ्जितेन्द्रिय़ान् ||
१७ ख
वैशम्पाय़न उवाच:
वेदानध्यापय़ामास महाभारतपञ्चमान् |
१८ क
वैशम्पाय़न उवाच:
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ||
१८ ख
वैशम्पाय़न उवाच:
तेषामभ्यस्यतां वेदान्कदाचित्संशय़ोऽभवत् |
१९ क
वैशम्पाय़न उवाच:
एष वै यस्त्वय़ा पृष्टस्तेन तेषां प्रकीर्तितः |
१९ ख
वैशम्पाय़न उवाच:
ततः श्रुतो मय़ा चापि तवाख्येय़ोऽद्य भारत ||
१९ ग
वैशम्पाय़न उवाच:
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः |
२० क
वैशम्पाय़न उवाच:
पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह ||
२० ख
वैशम्पाय़न उवाच:
मय़ा हि सुमहत्तप्तं तपः परमदारुणम् |
२१ क
वैशम्पाय़न उवाच:
भूतं भव्यं भविष्यच्च जानीय़ामिति सत्तमाः ||
२१ ख
वैशम्पाय़न उवाच:
तस्य मे तप्ततपसो निगृहीतेन्द्रिय़स्य च |
२२ क
वैशम्पाय़न उवाच:
नाराय़णप्रसादेन क्षीरोदस्यानुकूलतः ||
२२ ख
वैशम्पाय़न उवाच:
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् |
२३ क
वैशम्पाय़न उवाच:
तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशय़मुत्तमम् |
२३ ख
वैशम्पाय़न उवाच:
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ||
२३ ग
वैशम्पाय़न उवाच:
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः |
२४ क
वैशम्पाय़न उवाच:
महापुरुषसञ्ज्ञां स लभते स्वेन कर्मणा ||
२४ ख
वैशम्पाय़न उवाच:
तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्वुधाः |
२५ क
वैशम्पाय़न उवाच:
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ||
२५ ख
वैशम्पाय़न उवाच:
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते |
२६ क
वैशम्पाय़न उवाच:
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् |
२६ ख
वैशम्पाय़न उवाच:
सोऽहङ्कार इति प्रोक्तः सर्वतेजोमय़ो हि सः ||
२६ ग
वैशम्पाय़न उवाच:
पृथिवी वाय़ुराकाशमापो ज्योतिश्च पञ्चमम् |
२७ क
वैशम्पाय़न उवाच:
अहङ्कारप्रसूतानि महाभूतानि भारत ||
२७ ख
वैशम्पाय़न उवाच:
महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः |
२८ क
वैशम्पाय़न उवाच:
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु ||
२८ ख
वैशम्पाय़न उवाच:
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः |
२९ क
वैशम्पाय़न उवाच:
वसिष्ठश्च महात्मा वै मनुः स्वाय़म्भुवस्तथा |
२९ ख
वैशम्पाय़न उवाच:
ज्ञेय़ाः प्रकृतय़ोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ||
२९ ग
वैशम्पाय़न उवाच:
वेदान्वेदाङ्गसंय़ुक्तान्यज्ञान्यज्ञाङ्गसंय़ुतान् |
३० क
वैशम्पाय़न उवाच:
निर्ममे लोकसिद्ध्यर्थं व्रह्मा लोकपितामहः |
३० ख
वैशम्पाय़न उवाच:
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् ||
३० ग
वैशम्पाय़न उवाच:
रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वय़म् |
३१ क
वैशम्पाय़न उवाच:
एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ||
३१ ख
वैशम्पाय़न उवाच:
ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षय़ः |
३२ क
वैशम्पाय़न उवाच:
उत्पन्ना लोकसिद्ध्यर्थं व्रह्माणं समुपस्थिताः ||
३२ ख
वैशम्पाय़न उवाच:
वय़ं हि सृष्टा भगवंस्त्वय़ा वै प्रभविष्णुना |
३३ क
वैशम्पाय़न उवाच:
येन यस्मिन्नधीकारे वर्तितव्यं पितामह ||
३३ ख
वैशम्पाय़न उवाच:
योऽसौ त्वय़ा विनिर्दिष्टो अधिकारोऽर्थचिन्तकः |
३४ क
वैशम्पाय़न उवाच:
परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा ||
३४ ख
वैशम्पाय़न उवाच:
प्रदिशस्व वलं तस्य योऽधिकारार्थचिन्तकः |
३५ क
वैशम्पाय़न उवाच:
एवमुक्तो महादेवो देवांस्तानिदमव्रवीत् ||
३५ ख
वैशम्पाय़न उवाच:
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः |
३६ क
वैशम्पाय़न उवाच:
ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता ||
३६ ख
वैशम्पाय़न उवाच:
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः |
३७ क
वैशम्पाय़न उवाच:
कथं वलक्षय़ो न स्याद्युष्माकं ह्यात्मनश्च मे ||
३७ ख
वैशम्पाय़न उवाच:
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् |
३८ क
वैशम्पाय़न उवाच:
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् ||
३८ ख
वैशम्पाय़न उवाच:
ततस्ते व्रह्मणा सार्धमृषय़ो विवुधास्तथा |
३९ क
वैशम्पाय़न उवाच:
क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः ||
३९ ख
वैशम्पाय़न उवाच:
ते तपः समुपातिष्ठन्व्रह्मोक्तं वेदकल्पितम् |
४० क
वैशम्पाय़न उवाच:
स महानिय़मो नाम तपश्चर्या सुदारुणा ||
४० ख
वैशम्पाय़न उवाच:
ऊर्ध्वं दृष्टिर्वाहवश्च एकाग्रं च मनोऽभवत् |
४१ क
वैशम्पाय़न उवाच:
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ||
४१ ख
वैशम्पाय़न उवाच:
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम् |
४२ क
वैशम्पाय़न उवाच:
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ||
४२ ख
वैशम्पाय़न उवाच:
भो भोः सव्रह्मका देवा ऋषय़श्च तपोधनाः |
४३ क
वैशम्पाय़न उवाच:
स्वागतेनार्च्य वः सर्वाञ्श्रावय़े वाक्यमुत्तमम् ||
४३ ख
वैशम्पाय़न उवाच:
विज्ञातं वो मय़ा कार्यं तच्च लोकहितं महत् |
४४ क
वैशम्पाय़न उवाच:
प्रवृत्तिय़ुक्तं कर्तव्यं युष्मत्प्राणोपवृंहणम् ||
४४ ख
वैशम्पाय़न उवाच:
सुतप्तं वस्तपो देवा ममाराधनकाम्यया |
४५ क
वैशम्पाय़न उवाच:
भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम् ||
४५ ख
वैशम्पाय़न उवाच:
एष व्रह्मा लोकगुरुः सर्वलोकपितामहः |
४६ क
वैशम्पाय़न उवाच:
यूय़ं च विवुधश्रेष्ठा मां यजध्वं समाहिताः ||
४६ ख