सञ्जय़ उवाच:
विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् |
१ क
सञ्जय़ उवाच:
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ||
१ ख
सञ्जय़ उवाच:
नानाय़ुधसहस्राणि प्रेषितान्यरिभिर्वृषः |
२ क
सञ्जय़ उवाच:
छित्त्वा वाणशतैरुग्रैस्तानविध्यदसम्भ्रमः ||
२ ख
सञ्जय़ उवाच:
निचकर्त शिरांस्येषां वाहूनूरूंश्च सर्वशः |
३ क
सञ्जय़ उवाच:
ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ||
३ ख
सञ्जय़ उवाच:
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः |
४ क
सञ्जय़ उवाच:
अभ्यर्दय़ञ्जिघांसन्तः पत्तय़ः कर्णमाहवे ||
४ ख
सञ्जय़ उवाच:
ते विवाहुशिरस्त्राणाः प्रहताः कर्णसाय़कैः |
५ क
सञ्जय़ उवाच:
पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ||
५ ख
सञ्जय़ उवाच:
एवं योधशतान्याजौ सहस्राण्ययुतानि च |
६ क
सञ्जय़ उवाच:
हतानीय़ुर्महीं देहैर्यशसापूरय़न्दिशः ||
६ ख
सञ्जय़ उवाच:
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् |
७ क
सञ्जय़ उवाच:
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव ||
७ ख
सञ्जय़ उवाच:
स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् |
८ क
सञ्जय़ उवाच:
मन्त्रौषधिक्रिय़ातीतो व्याधिरत्युल्वणो यथा ||
८ ख
सञ्जय़ उवाच:
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकय़ैः |
९ क
सञ्जय़ उवाच:
नाशकत्तानतिक्रान्तुं मृत्युर्व्रह्मविदो यथा ||
९ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् |
१० क
सञ्जय़ उवाच:
अव्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः ||
१० ख
सञ्जय़ उवाच:
कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु |
११ क
सञ्जय़ उवाच:
सदा स्पर्धसि सङ्ग्रामे फल्गुनेन यशस्विना |
११ ख
सञ्जय़ उवाच:
तथास्मान्वाधसे नित्यं धार्तराष्ट्रमते स्थितः ||
११ ग
सञ्जय़ उवाच:
यद्वलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु |
१२ क
सञ्जय़ उवाच:
तत्सर्वं दर्शय़स्वाद्य पौरुषं महदास्थितः |
१२ ख
सञ्जय़ उवाच:
युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे ||
१२ ग
सञ्जय़ उवाच:
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा |
१३ क
सञ्जय़ उवाच:
सुवर्णपुङ्खैर्दशभिर्विव्याधाय़स्मय़ैः शितैः ||
१३ ख
सञ्जय़ उवाच:
तं सूतपुत्रो नवभिः प्रत्यविध्यदरिन्दमः |
१४ क
सञ्जय़ उवाच:
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ||
१४ ख
सञ्जय़ उवाच:
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः |
१५ क
सञ्जय़ उवाच:
जघान समरे शूरः शरैः संनतपर्वभिः ||
१५ ख
सञ्जय़ उवाच:
तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः |
१६ क
सञ्जय़ उवाच:
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ||
१६ ख
सञ्जय़ उवाच:
युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः |
१७ क
सञ्जय़ उवाच:
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडय़त् ||
१७ ख
सञ्जय़ उवाच:
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् |
१८ क
सञ्जय़ उवाच:
तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ||
१८ ख
सञ्जय़ उवाच:
ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् |
१९ क
सञ्जय़ उवाच:
भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा ||
१९ ख
सञ्जय़ उवाच:
ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम् |
२० क
सञ्जय़ उवाच:
सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दय़ञ्शरैः ||
२० ख
सञ्जय़ उवाच:
सात्यकिश्चेकितानश्च युय़ुत्सुः पाण्ड्य एव च |
२१ क
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च द्रौपदेय़ाः प्रभद्रकाः ||
२१ ख
सञ्जय़ उवाच:
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः |
२२ क
सञ्जय़ उवाच:
कारूषा मत्स्यशेषाश्च केकय़ाः काशिकोसलाः |
२२ ख
सञ्जय़ उवाच:
एते च त्वरिता वीरा वसुषेणमवारय़न् ||
२२ ग
सञ्जय़ उवाच:
जनमेजय़श्च पाञ्चाल्यः कर्णं विव्याध साय़कैः |
२३ क
सञ्जय़ उवाच:
वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः |
२३ ख
सञ्जय़ उवाच:
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ||
२३ ग
सञ्जय़ उवाच:
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः |
२४ क
सञ्जय़ उवाच:
सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसय़ा ||
२४ ख
सञ्जय़ उवाच:
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः |
२५ क
सञ्जय़ उवाच:
उदैरय़द्व्राह्ममस्त्रं शरैः सम्पूरय़न्दिशः ||
२५ ख
सञ्जय़ उवाच:
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः |
२६ क
सञ्जय़ उवाच:
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ||
२६ ख
सञ्जय़ उवाच:
स संवार्य महास्त्राणि महेष्वासो महात्मनाम् |
२७ क
सञ्जय़ उवाच:
प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् ||
२७ ख
सञ्जय़ उवाच:
ततः सन्धाय़ नवतिं निमेषान्नतपर्वणाम् |
२८ क
सञ्जय़ उवाच:
विभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ||
२८ ख
सञ्जय़ उवाच:
तद्वर्म हेमविकृतं रराज निपतत्तदा |
२९ क
सञ्जय़ उवाच:
सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ||
२९ ख
सञ्जय़ उवाच:
तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत |
३० क
सञ्जय़ उवाच:
रत्नैरलङ्कृतं दिव्यैर्व्यभ्रं निशि यथा नभः ||
३० ख
सञ्जय़ उवाच:
स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः |
३१ क
सञ्जय़ उवाच:
क्रुद्धः सर्वाय़सीं शक्तिं चिक्षेपाधिरथिं प्रति ||
३१ ख
सञ्जय़ उवाच:
तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः |
३२ क
सञ्जय़ उवाच:
सा छिन्ना भूमिमपतन्महेष्वासस्य साय़कैः ||
३२ ख
सञ्जय़ उवाच:
ततो वाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः |
३३ क
सञ्जय़ उवाच:
चतुर्भिस्तोमरैः कर्णं ताडय़ित्वा मुदानदत् ||
३३ ख
सञ्जय़ उवाच:
उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् |
३४ क
सञ्जय़ उवाच:
ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् |
३४ ख
सञ्जय़ उवाच:
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ||
३४ ग
सञ्जय़ उवाच:
एवं पार्थो व्यपाय़ात्स निहतप्रार्ष्टिसारथिः |
३५ क
सञ्जय़ उवाच:
अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः ||
३५ ख
सञ्जय़ उवाच:
तमभिद्रुत्य राधेय़ः स्कन्धं संस्पृश्य पाणिना |
३६ क
सञ्जय़ उवाच:
अव्रवीत्प्रहसन्राजन्कुत्सय़न्निव पाण्डवम् ||
३६ ख
सञ्जय़ उवाच:
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः |
३७ क
सञ्जय़ उवाच:
प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे ||
३७ ख
सञ्जय़ उवाच:
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः |
३८ क
सञ्जय़ उवाच:
व्राह्मे वले भवान्युक्तः स्वाध्याय़े यज्ञकर्मणि ||
३८ ख
सञ्जय़ उवाच:
मा स्म युध्यस्व कौन्तेय़ मा च वीरान्समासदः |
३९ क
सञ्जय़ उवाच:
मा चैनानप्रिय़ं व्रूहि मा च व्रज महारणम् ||
३९ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततः पार्थं विसृज्य च महावलः |
४० क
सञ्जय़ उवाच:
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् |
४० ख
सञ्जय़ उवाच:
ततः प्राय़ाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः ||
४० ग
सञ्जय़ उवाच:
अथ प्रय़ान्तं राजानमन्वय़ुस्ते तदाच्युतम् |
४१ क
सञ्जय़ उवाच:
चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः |
४१ ख
सञ्जय़ उवाच:
द्रौपदेय़ास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ||
४१ ग
सञ्जय़ उवाच:
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् |
४२ क
सञ्जय़ उवाच:
कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वय़ात् ||
४२ ख
सञ्जय़ उवाच:
शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः |
४३ क
सञ्जय़ उवाच:
वभूव धार्तराष्ट्राणां सिंहनादरवस्तदा ||
४३ ख
सञ्जय़ उवाच:
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः |
४४ क
सञ्जय़ उवाच:
श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ||
४४ ख
सञ्जय़ उवाच:
काल्यमानं वलं दृष्ट्वा धर्मराजो युधिष्ठिरः |
४५ क
सञ्जय़ उवाच:
तान्योधानव्रवीत्क्रुद्धो हतैनं वै सहस्रशः ||
४५ ख
सञ्जय़ उवाच:
ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः |
४६ क
सञ्जय़ उवाच:
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ||
४६ ख
सञ्जय़ उवाच:
अभवत्तुमुलः शव्दो योधानां तत्र भारत |
४७ क