chevron_left उद्योग पर्व अध्याय ३३
विदुर उवाच:
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ |
५१ क
विदुर उवाच:
स्त्रिय़ः कामितकामिन्यो लोकः पूजितपूजकः ||
५१ ख
विदुर उवाच:
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ |
५२ क
विदुर उवाच:
यश्चाधनः कामय़ते यश्च कुप्यत्यनीश्वरः ||
५२ ख
विदुर उवाच:
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः |
५३ क
विदुर उवाच:
प्रभुश्च क्षमय़ा युक्तो दरिद्रश्च प्रदानवान् ||
५३ ख
विदुर उवाच:
न्याय़ागतस्य द्रव्यस्य वोद्धव्यौ द्वावतिक्रमौ |
५४ क
विदुर उवाच:
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ||
५४ ख
विदुर उवाच:
त्रय़ो न्याय़ा मनुष्याणां श्रूय़न्ते भरतर्षभ |
५५ क
विदुर उवाच:
कनीय़ान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ||
५५ ख
विदुर उवाच:
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः |
५६ क
विदुर उवाच:
निय़ोजय़ेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ||
५६ ख
विदुर उवाच:
त्रय़ एवाधना राजन्भार्या दासस्तथा सुतः |
५७ क
विदुर उवाच:
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ||
५७ ख
विदुर उवाच:
चत्वारि राज्ञा तु महावलेन; वर्ज्यान्याहुः पण्डितस्तानि विद्यात् |
५८ क
विदुर उवाच:
अल्पप्रज्ञैः सह मन्त्रं न कुर्या; न्न दीर्घसूत्रैरलसैश्चारणैश्च ||
५८ ख
विदुर उवाच:
चत्वारि ते तात गृहे वसन्तु; श्रिय़ाभिजुष्टस्य गृहस्थधर्मे |
५९ क
विदुर उवाच:
वृद्धो ज्ञातिरवसन्नः कुलीनः; सखा दरिद्रो भगिनी चानपत्या ||
५९ ख
विदुर उवाच:
चत्वार्याह महाराज सद्यस्कानि वृहस्पतिः |
६० क
विदुर उवाच:
पृच्छते त्रिदशेन्द्राय़ तानीमानि निवोध मे ||
६० ख
विदुर उवाच:
देवतानां च सङ्कल्पमनुभावं च धीमताम् |
६१ क
विदुर उवाच:
विनय़ं कृतविद्यानां विनाशं पापकर्मणाम् ||
६१ ख
विदुर उवाच:
पञ्चाग्नय़ो मनुष्येण परिचर्याः प्रय़त्नतः |
६२ क
विदुर उवाच:
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ||
६२ ख
विदुर उवाच:
पञ्चैव पूजय़ँल्लोके यशः प्राप्नोति केवलम् |
६३ क
विदुर उवाच:
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ||
६३ ख
विदुर उवाच:
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि |
६४ क
विदुर उवाच:
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ||
६४ ख
विदुर उवाच:
पञ्चेन्द्रिय़स्य मर्त्यस्य छिद्रं चेदेकमिन्द्रिय़म् |
६५ क
विदुर उवाच:
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ||
६५ ख
विदुर उवाच:
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता |
६६ क
विदुर उवाच:
निद्रा तन्द्री भय़ं क्रोध आलस्यं दीर्घसूत्रता ||
६६ ख
विदुर उवाच:
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे |
६७ क
विदुर उवाच:
अप्रवक्तारमाचार्यमनधीय़ानमृत्विजम् ||
६७ ख
विदुर उवाच:
अरक्षितारं राजानं भार्यां चाप्रिय़वादिनीम् |
६८ क
विदुर उवाच:
ग्रामकामं च गोपालं वनकामं च नापितम् ||
६८ ख
विदुर उवाच:
षडेव तु गुणाः पुंसा न हातव्याः कदाचन |
६९ क
विदुर उवाच:
सत्यं दानमनालस्यमनसूय़ा क्षमा धृतिः ||
६९ ख
विदुर उवाच:
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति |
७० क
विदुर उवाच:
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रिय़ः ||
७० ख
विदुर उवाच:
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते |
७१ क
विदुर उवाच:
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ||
७१ ख
विदुर उवाच:
प्रमदाः कामय़ानेषु यजमानेषु याजकाः |
७२ क
विदुर उवाच:
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ||
७२ ख
विदुर उवाच:
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदय़ाः |
७३ क
विदुर उवाच:
प्राय़शो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः ||
७३ ख
विदुर उवाच:
स्त्रिय़ोऽक्षा मृगय़ा पानं वाक्पारुष्यं च पञ्चमम् |
७४ क
विदुर उवाच:
महच्च दण्डपारुष्यमर्थदूषणमेव च ||
७४ ख
विदुर उवाच:
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः |
७५ क
विदुर उवाच:
व्राह्मणान्प्रथमं द्वेष्टि व्राह्मणैश्च विरुध्यते ||
७५ ख
विदुर उवाच:
व्राह्मणस्वानि चादत्ते व्राह्मणांश्च जिघांसति |
७६ क
विदुर उवाच:
रमते निन्दय़ा चैषां प्रशंसां नाभिनन्दति ||
७६ ख
विदुर उवाच:
नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूय़ति |
७७ क
विदुर उवाच:
एतान्दोषान्नरः प्राज्ञो वुद्ध्या वुद्ध्वा विवर्जय़ेत् ||
७७ ख
विदुर उवाच:
अष्टाविमानि हर्षस्य नवनीतानि भारत |
७८ क
विदुर उवाच:
वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ||
७८ ख
विदुर उवाच:
समागमश्च सखिभिर्महांश्चैव धनागमः |
७९ क
विदुर उवाच:
पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ||
७९ ख
विदुर उवाच:
समय़े च प्रिय़ालापः स्वय़ूथेषु च संनतिः |
८० क
विदुर उवाच:
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ||
८० ख
विदुर उवाच:
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् |
८१ क
विदुर उवाच:
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ||
८१ ख
विदुर उवाच:
दश धर्मं न जानन्ति धृतराष्ट्र निवोध तान् |
८२ क
विदुर उवाच:
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो वुभुक्षितः ||
८२ ख
विदुर उवाच:
त्वरमाणश्च भीरुश्च लुव्धः कामी च ते दश |
८३ क
विदुर उवाच:
तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ||
८३ ख
विदुर उवाच:
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
८४ क
विदुर उवाच:
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ||
८४ ख
विदुर उवाच:
यः काममन्यू प्रजहाति राजा; पात्रे प्रतिष्ठापय़ते धनं च |
८५ क
विदुर उवाच:
विशेषविच्छ्रुतवान्क्षिप्रकारी; तं सर्वलोकः कुरुते प्रमाणम् ||
८५ ख
विदुर उवाच:
जानाति विश्वासय़ितुं मनुष्या; न्विज्ञातदोषेषु दधाति दण्डम् |
८६ क
विदुर उवाच:
जानाति मात्रां च तथा क्षमां च; तं तादृशं श्रीर्जुषते समग्रा ||
८६ ख
विदुर उवाच:
सुदुर्वलं नावजानाति कं चि; द्युक्तो रिपुं सेवते वुद्धिपूर्वम् |
८७ क
विदुर उवाच:
न विग्रहं रोचय़ते वलस्थैः; काले च यो विक्रमते स धीरः ||
८७ ख
विदुर उवाच:
प्राप्यापदं न व्यथते कदा चि; दुद्योगमन्विच्छति चाप्रमत्तः |
८८ क
विदुर उवाच:
दुःखं च काले सहते जितात्मा; धुरन्धरस्तस्य जिताः सपत्नाः ||
८८ ख
विदुर उवाच:
अनर्थकं विप्रवासं गृहेभ्यः; पापैः सन्धिं परदाराभिमर्शम् |
८९ क
विदुर उवाच:
दम्भं स्तैन्यं पैशुनं मद्यपानं; न सेवते यः स सुखी सदैव ||
८९ ख
विदुर उवाच:
न संरम्भेणारभतेऽर्थवर्ग; माकारितः शंसति तथ्यमेव |
९० क
विदुर उवाच:
न मात्रार्थे रोचय़ते विवादं; नापूजितः कुप्यति चाप्यमूढः ||
९० ख
विदुर उवाच:
न योऽभ्यसूय़त्यनुकम्पते च; न दुर्वलः प्रातिभाव्यं करोति |
९१ क
विदुर उवाच:
नात्याह किञ्चित्क्षमते विवादं; सर्वत्र तादृग्लभते प्रशंसाम् ||
९१ ख
विदुर उवाच:
यो नोद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थतेऽन्यान् |
९२ क
विदुर उवाच:
न मूर्च्छितः कटुकान्याह किं चि; त्प्रिय़ं सदा तं कुरुते जनोऽपि ||
९२ ख
विदुर उवाच:
न वैरमुद्दीपय़ति प्रशान्तं; न दर्पमारोहति नास्तमेति |
९३ क
विदुर उवाच:
न दुर्गतोऽस्मीति करोति मन्युं; तमार्यशीलं परमाहुरग्र्यम् ||
९३ ख
विदुर उवाच:
न स्वे सुखे वै कुरुते प्रहर्षं; नान्यस्य दुःखे भवति प्रतीतः |
९४ क
विदुर उवाच:
दत्त्वा न पश्चात्कुरुतेऽनुतापं; न कत्थते सत्पुरुषार्यशीलः ||
९४ ख
विदुर उवाच:
देशाचारान्समय़ाञ्जातिधर्मा; न्वुभूषते यस्तु परावरज्ञः |
९५ क
विदुर उवाच:
स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करोति ||
९५ ख
विदुर उवाच:
दम्भं मोहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम् |
९६ क
विदुर उवाच:
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं; यः प्रज्ञावान्वर्जय़ेत्स प्रधानः ||
९६ ख
विदुर उवाच:
दमं शौचं दैवतं मङ्गलानि; प्राय़श्चित्तं विविधाँल्लोकवादान् |
९७ क
विदुर उवाच:
एतानि यः कुरुते नैत्यकानि; तस्योत्थानं देवता राधय़न्ति ||
९७ ख
विदुर उवाच:
समैर्विवाहं कुरुते न हीनैः; समैः सख्यं व्यवहारं कथाश्च |
९८ क
विदुर उवाच:
गुणैर्विशिष्टांश्च पुरोदधाति; विपश्चितस्तस्य नय़ाः सुनीताः ||
९८ ख
विदुर उवाच:
मितं भुङ्क्ते संविभज्याश्रितेभ्यो; मितं स्वपित्यमितं कर्म कृत्वा |
९९ क
विदुर उवाच:
ददात्यमित्रेष्वपि याचितः सं; स्तमात्मवन्तं प्रजहत्यनर्थाः ||
९९ ख
विदुर उवाच:
चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किञ्चित् |
१०० क
विदुर उवाच:
मन्त्रे गुप्ते सम्यगनुष्ठिते च; स्वल्पो नास्य व्यथते कश्चिदर्थः ||
१०० ख