chevron_left भीष्म पर्व अध्याय ३३
अर्जुन उवाच:
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |
५१ क
अर्जुन उवाच:
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||
५१ ख
श्रीभगवानु उवाच:
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
५२ क
श्रीभगवानु उवाच:
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ||
५२ ख
श्रीभगवानु उवाच:
नाहं वेदैर्न तपसा न दानेन न चेज्यया |
५३ क
श्रीभगवानु उवाच:
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ||
५३ ख
श्रीभगवानु उवाच:
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |
५४ क
श्रीभगवानु उवाच:
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||
५४ ख
श्रीभगवानु उवाच:
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः |
५५ क
श्रीभगवानु उवाच:
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ||
५५ ख