chevron_left कर्ण पर्व अध्याय ३३
सञ्जय़ उवाच:
हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः ||
४७ ख
सञ्जय़ उवाच:
उत्तिष्ठत प्रहरत प्रैताभिपततेति च |
४८ क
सञ्जय़ उवाच:
इति व्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे ||
४८ ख
सञ्जय़ उवाच:
अभ्रच्छाय़ेव तत्रासीच्छरवृष्टिभिरम्वरे |
४९ क
सञ्जय़ उवाच:
समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् ||
४९ ख
सञ्जय़ उवाच:
विपताकाध्वजच्छत्रा व्यश्वसूताय़ुधा रणे |
५० क
सञ्जय़ उवाच:
व्यङ्गाङ्गावय़वाः पेतुः क्षितौ क्षीणा हतेश्वराः ||
५० ख
सञ्जय़ उवाच:
प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः |
५१ क
सञ्जय़ उवाच:
सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रय़ः ||
५१ ख
सञ्जय़ उवाच:
छिन्नभिन्नविपर्यस्तैर्वर्मालङ्कारविग्रहैः |
५२ क
सञ्जय़ उवाच:
सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः ||
५२ ख
सञ्जय़ उवाच:
विप्रविद्धाय़ुधाङ्गाश्च द्विरदाश्वरथैर्हताः |
५३ क
सञ्जय़ उवाच:
प्रतिवीरैश्च संमर्दे पत्तिसङ्घाः सहस्रशः ||
५३ ख
सञ्जय़ उवाच:
विशालाय़तताम्राक्षैः पद्मेन्दुसदृशाननैः |
५४ क
सञ्जय़ उवाच:
शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही ||
५४ ख
सञ्जय़ उवाच:
तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः |
५५ क
सञ्जय़ उवाच:
विमानैरप्सरःसङ्घैर्गीतवादित्रनिस्वनैः ||
५५ ख
सञ्जय़ उवाच:
हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः |
५६ क
सञ्जय़ उवाच:
आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ||
५६ ख
सञ्जय़ उवाच:
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सय़ा |
५७ क
सञ्जय़ उवाच:
प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् ||
५७ ख
सञ्जय़ उवाच:
रथिनो रथिभिः सार्धं चित्रं युय़ुधुराहवे |
५८ क
सञ्जय़ उवाच:
पत्तय़ः पत्तिभिर्नागा नागैः सह हय़ैर्हय़ाः ||
५८ ख
सञ्जय़ उवाच:
एवं प्रवृत्ते सङ्ग्रामे गजवाजिजनक्षय़े |
५९ क
सञ्जय़ उवाच:
सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान् ||
५९ ख
सञ्जय़ उवाच:
कचाकचि वभौ युद्धं दन्तादन्ति नखानखि |
६० क
सञ्जय़ उवाच:
मुष्टिय़ुद्धं निय़ुद्धं च देहपाप्मविनाशनम् ||
६० ख
सञ्जय़ उवाच:
तथा वर्तति सङ्ग्रामे गजवाजिजनक्षय़े |
६१ क
सञ्जय़ उवाच:
नराश्वगजदेहेभ्यः प्रसृता लोहितापगा |
६१ ख
सञ्जय़ उवाच:
नराश्वगजदेहान्सा व्युवाह पतितान्वहून् ||
६१ ग
सञ्जय़ उवाच:
नराश्वगजसम्वाधे नराश्वगजसादिनाम् |
६२ क
सञ्जय़ उवाच:
लोहितोदा महाघोरा नदी लोहितकर्दमा |
६२ ख
सञ्जय़ उवाच:
नराश्वगजदेहान्सा वहन्ती भीरुभीषणी ||
६२ ग
सञ्जय़ उवाच:
तस्याः परमपारं च व्रजन्ति विजय़ैषिणः |
६३ क
सञ्जय़ उवाच:
गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे ||
६३ ख
सञ्जय़ उवाच:
ते तु लोहितदिग्धाङ्गा रक्तवर्माय़ुधाम्वराः |
६४ क
सञ्जय़ उवाच:
सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ ||
६४ ख
सञ्जय़ उवाच:
रथानश्वान्नरान्नागानाय़ुधाभरणानि च |
६५ क
सञ्जय़ उवाच:
वसनान्यथ वर्माणि हन्यमानान्हतानपि |
६५ ख
सञ्जय़ उवाच:
भूमिं खं द्यां दिशश्चैव प्राय़ः पश्याम लोहितम् ||
६५ ग
सञ्जय़ उवाच:
लोहितस्य तु गन्धेन स्पर्शेन च रसेन च |
६६ क
सञ्जय़ उवाच:
रूपेण चातिरिक्तेन शव्देन च विसर्पता |
६६ ख
सञ्जय़ उवाच:
विषादः सुमहानासीत्प्राय़ः सैन्यस्य भारत ||
६६ ग
सञ्जय़ उवाच:
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव |
६७ क
सञ्जय़ उवाच:
भूय़ः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः ||
६७ ख
सञ्जय़ उवाच:
तेषामापततां वेगमविषह्य महात्मनाम् |
६८ क
सञ्जय़ उवाच:
पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम् ||
६८ ख
सञ्जय़ उवाच:
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् |
६९ क
सञ्जय़ उवाच:
विध्वस्तचर्मकवचं प्रविद्धाय़ुधकार्मुकम् ||
६९ ख
सञ्जय़ उवाच:
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः |
७० क
सञ्जय़ उवाच:
सिंहार्दितं महारण्ये यथा गजकुलं तथा ||
७० ख