chevron_left उद्योग पर्व अध्याय ३३
विदुर उवाच:
यः सर्वभूतप्रशमे निविष्टः; सत्यो मृदुर्दानकृच्छुद्धभावः |
१०१ क
विदुर उवाच:
अतीव सञ्ज्ञाय़ते ज्ञातिमध्ये; महामणिर्जात्य इव प्रसन्नः ||
१०१ ख
विदुर उवाच:
य आत्मनापत्रपते भृशं नरः; स सर्वलोकस्य गुरुर्भवत्युत |
१०२ क
विदुर उवाच:
अनन्ततेजाः सुमनाः समाहितः; स्वतेजसा सूर्य इवावभासते ||
१०२ ख
विदुर उवाच:
वने जाताः शापदग्धस्य राज्ञः; पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः |
१०३ क
विदुर उवाच:
त्वय़ैव वाला वर्धिताः शिक्षिताश्च; तवादेशं पालय़न्त्याम्विकेय़ ||
१०३ ख
विदुर उवाच:
प्रदाय़ैषामुचितं तात राज्यं; सुखी पुत्रैः सहितो मोदमानः |
१०४ क
विदुर उवाच:
न देवानां नापि च मानुषाणां; भविष्यसि त्वं तर्कणीय़ो नरेन्द्र ||
१०४ ख