सूत उवाच:
मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः |
१ क
सूत उवाच:
वासुकिश्चिन्तय़ामास शापोऽय़ं न भवेत्कथम् ||
१ ख
सूत उवाच:
ततः स मन्त्रय़ामास भ्रातृभिः सह सर्वशः |
२ क
सूत उवाच:
ऐरावतप्रभृतिभिर्ये स्म धर्मपराय़णाः ||
२ ख
वासुकिरु उवाच:
अय़ं शापो यथोद्दिष्टो विदितं वस्तथानघाः |
३ क
वासुकिरु उवाच:
तस्य शापस्य मोक्षार्थं मन्त्रय़ित्वा यतामहे ||
३ ख
वासुकिरु उवाच:
सर्वेषामेव शापानां प्रतिघातो हि विद्यते |
४ क
वासुकिरु उवाच:
न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ||
४ ख
वासुकिरु उवाच:
अव्ययस्याप्रमेय़स्य सत्यस्य च तथाग्रतः |
५ क
वासुकिरु उवाच:
शप्ता इत्येव मे श्रुत्वा जाय़ते हृदि वेपथुः ||
५ ख
वासुकिरु उवाच:
नूनं सर्वविनाशोऽय़मस्माकं समुदाहृतः |
६ क
वासुकिरु उवाच:
न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधय़त् ||
६ ख
वासुकिरु उवाच:
तस्मात्संमन्त्रय़ामोऽत्र भुजगानामनामय़म् |
७ क
वासुकिरु उवाच:
यथा भवेत सर्वेषां मा नः कालोऽत्यगादय़म् ||
७ ख
वासुकिरु उवाच:
अपि मन्त्रय़माणा हि हेतुं पश्याम मोक्षणे |
८ क
वासुकिरु उवाच:
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ||
८ ख
वासुकिरु उवाच:
यथा स यज्ञो न भवेद्यथा वापि पराभवेत् |
९ क
वासुकिरु उवाच:
जनमेजय़स्य सर्पाणां विनाशकरणाय़ हि ||
९ ख
सूत उवाच:
तथेत्युक्त्वा तु ते सर्वे काद्रवेय़ाः समागताः |
१० क
सूत उवाच:
समय़ं चक्रिरे तत्र मन्त्रवुद्धिविशारदाः ||
१० ख
सूत उवाच:
एके तत्राव्रुवन्नागा वय़ं भूत्वा द्विजर्षभाः |
११ क
सूत उवाच:
जनमेजय़ं तं भिक्षामो यज्ञस्ते न भवेदिति ||
११ ख
सूत उवाच:
अपरे त्वव्रुवन्नागास्तत्र पण्डितमानिनः |
१२ क
सूत उवाच:
मन्त्रिणोऽस्य वय़ं सर्वे भविष्यामः सुसंमताः ||
१२ ख
सूत उवाच:
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चय़म् |
१३ क
सूत उवाच:
तत्र वुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ||
१३ ख
सूत उवाच:
स नो वहुमतान्राजा वुद्ध्वा वुद्धिमतां वरः |
१४ क
सूत उवाच:
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वय़म् ||
१४ ख
सूत उवाच:
दर्शय़न्तो वहून्दोषान्प्रेत्य चेह च दारुणान् |
१५ क
सूत उवाच:
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ||
१५ ख
सूत उवाच:
अथवा य उपाध्याय़ः क्रतौ तस्मिन्भविष्यति |
१६ क
सूत उवाच:
सर्पसत्रविधानज्ञो राजकार्यहिते रतः ||
१६ ख
सूत उवाच:
तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति |
१७ क
सूत उवाच:
तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ||
१७ ख
सूत उवाच:
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः |
१८ क
सूत उवाच:
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ||
१८ ख
सूत उवाच:
तत्रापरेऽमन्त्रय़न्त धर्मात्मानो भुजङ्गमाः |
१९ क
सूत उवाच:
अवुद्धिरेषा युष्माकं व्रह्महत्या न शोभना ||
१९ ख
सूत उवाच:
सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा |
२० क
सूत उवाच:
अधर्मोत्तरता नाम कृत्स्नं व्यापादय़ेज्जगत् ||
२० ख
सूत उवाच:
अपरे त्वव्रुवन्नागाः समिद्धं जातवेदसम् |
२१ क
सूत उवाच:
वर्षैर्निर्वापय़िष्यामो मेघा भूत्वा सविद्युतः ||
२१ ख
सूत उवाच:
स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः |
२२ क
सूत उवाच:
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ||
२२ ख
सूत उवाच:
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः |
२३ क
सूत उवाच:
जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ||
२३ ख
सूत उवाच:
अथवा संस्कृतं भोज्यं दूषय़न्तु भुजङ्गमाः |
२४ क
सूत उवाच:
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ||
२४ ख
सूत उवाच:
अपरे त्वव्रुवंस्तत्र ऋत्विजोऽस्य भवामहे |
२५ क
सूत उवाच:
यज्ञविघ्नं करिष्यामो दीय़तां दक्षिणा इति |
२५ ख
सूत उवाच:
वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ||
२५ ग
सूत उवाच:
अपरे त्वव्रुवंस्तत्र जले प्रक्रीडितं नृपम् |
२६ क
सूत उवाच:
गृहमानीय़ वध्नीमः क्रतुरेवं भवेन्न सः ||
२६ ख
सूत उवाच:
अपरे त्वव्रुवंस्तत्र नागाः सुकृतकारिणः |
२७ क
सूत उवाच:
दशामैनं प्रगृह्याशु कृतमेवं भविष्यति |
२७ ख
सूत उवाच:
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ||
२७ ग
सूत उवाच:
एषा वै नैष्ठिकी वुद्धिः सर्वेषामेव संमता |
२८ क
सूत उवाच:
यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीय़ताम् ||
२८ ख
सूत उवाच:
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् |
२९ क
सूत उवाच:
वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ||
२९ ख
सूत उवाच:
नैषा वो नैष्ठिकी वुद्धिर्मता कर्तुं भुजङ्गमाः |
३० क
सूत उवाच:
सर्वेषामेव मे वुद्धिः पन्नगानां न रोचते ||
३० ख
सूत उवाच:
किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् |
३१ क
सूत उवाच:
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रय़ौ ||
३१ ख