chevron_left शान्ति पर्व अध्याय ३३
युधिष्ठिर उवाच:
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा |
१ क
युधिष्ठिर उवाच:
श्वशुरा गुरवश्चैव मातुलाः सपितामहाः ||
१ ख
युधिष्ठिर उवाच:
क्षत्रिय़ाश्च महात्मानः सम्वन्धिसुहृदस्तथा |
२ क
युधिष्ठिर उवाच:
वय़स्या ज्ञातय़श्चैव भ्रातरश्च पितामह ||
२ ख
युधिष्ठिर उवाच:
वहवश्च मनुष्येन्द्रा नानादेशसमागताः |
३ क
युधिष्ठिर उवाच:
घातिता राज्यलुव्धेन मय़ैकेन पितामह ||
३ ख
युधिष्ठिर उवाच:
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः |
४ क
युधिष्ठिर उवाच:
असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन ||
४ ख
युधिष्ठिर उवाच:
दह्याम्यनिशमद्याहं चिन्तय़ानः पुनः पुनः |
५ क
युधिष्ठिर उवाच:
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ||
५ ख
युधिष्ठिर उवाच:
दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान् |
६ क
युधिष्ठिर उवाच:
कोटिशश्च नरानन्यान्परितप्ये पितामह ||
६ ख
युधिष्ठिर उवाच:
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति |
७ क
युधिष्ठिर उवाच:
विहीनानां स्वतनय़ैः पतिभिर्भ्रातृभिस्तथा ||
७ ख
युधिष्ठिर उवाच:
अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहितान् |
८ क
युधिष्ठिर उवाच:
आक्रोशन्त्यः कृशा दीना निपतन्त्यश्च भूतले ||
८ ख
युधिष्ठिर उवाच:
अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः |
९ क
युधिष्ठिर उवाच:
त्यक्त्वा प्राणान्प्रिय़ान्सर्वा गमिष्यन्ति यमक्षय़म् ||
९ ख
युधिष्ठिर उवाच:
वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशय़ः |
१० क
युधिष्ठिर उवाच:
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वय़म् ||
१० ख
युधिष्ठिर उवाच:
ते वय़ं सुहृदो हत्वा कृत्वा पापमनन्तकम् |
११ क
युधिष्ठिर उवाच:
नरके निपतिष्यामो ह्यधःशिरस एव च ||
११ ख
युधिष्ठिर उवाच:
शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम |
१२ क
युधिष्ठिर उवाच:
आश्रमांश्च विशेषांस्त्वं ममाचक्ष्व पितामह ||
१२ ख