वैशम्पाय़न उवाच:
ततोऽभिषेचनीय़ेऽह्नि व्राह्मणा राजभिः सह |
१ क
वैशम्पाय़न उवाच:
अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षय़ः ||
१ ख
वैशम्पाय़न उवाच:
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः |
२ क
वैशम्पाय़न उवाच:
समासीनाः शुशुभिरे सह राजर्षिभिस्तदा ||
२ ख
वैशम्पाय़न उवाच:
समेता व्रह्मभवने देवा देवर्षय़ो यथा |
३ क
वैशम्पाय़न उवाच:
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ||
३ ख
वैशम्पाय़न उवाच:
इदमेवं न चाप्येवमेवमेतन्न चान्यथा |
४ क
वैशम्पाय़न उवाच:
इत्यूचुर्वहवस्तत्र वितण्डानाः परस्परम् ||
४ ख
वैशम्पाय़न उवाच:
कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते |
५ क
वैशम्पाय़न उवाच:
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः ||
५ ख
वैशम्पाय़न उवाच:
तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् |
६ क
वैशम्पाय़न उवाच:
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ||
६ ख
वैशम्पाय़न उवाच:
केचिद्धर्मार्थसंय़ुक्ताः कथास्तत्र महाव्रताः |
७ क
वैशम्पाय़न उवाच:
रेमिरे कथय़न्तश्च सर्ववेदविदां वराः ||
७ ख
वैशम्पाय़न उवाच:
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः |
८ क
वैशम्पाय़न उवाच:
आवभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला ||
८ ख
वैशम्पाय़न उवाच:
न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः |
९ क
वैशम्पाय़न उवाच:
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ||
९ ख
वैशम्पाय़न उवाच:
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् |
१० क
वैशम्पाय़न उवाच:
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ||
१० ख
वैशम्पाय़न उवाच:
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप |
११ क
वैशम्पाय़न उवाच:
नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् ||
११ ख
वैशम्पाय़न उवाच:
सस्मार च पुरावृत्तां कथां तां भरतर्षभ |
१२ क
वैशम्पाय़न उवाच:
अंशावतरणे यासौ व्रह्मणो भवनेऽभवत् ||
१२ ख
वैशम्पाय़न उवाच:
देवानां सङ्गमं तं तु विज्ञाय़ कुरुनन्दन |
१३ क
वैशम्पाय़न उवाच:
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ||
१३ ख
वैशम्पाय़न उवाच:
साक्षात्स विवुधारिघ्नः क्षत्रे नाराय़णो विभुः |
१४ क
वैशम्पाय़न उवाच:
प्रतिज्ञां पालय़न्धीमाञ्जातः परपुरञ्जय़ः ||
१४ ख
वैशम्पाय़न उवाच:
सन्दिदेश पुरा योऽसौ विवुधान्भूतकृत्स्वय़म् |
१५ क
वैशम्पाय़न उवाच:
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ||
१५ ख
वैशम्पाय़न उवाच:
इति नाराय़णः शम्भुर्भगवाञ्जगतः प्रभुः |
१६ क
वैशम्पाय़न उवाच:
आदिश्य विवुधान्सर्वानजाय़त यदुक्षय़े ||
१६ ख
वैशम्पाय़न उवाच:
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः |
१७ क
वैशम्पाय़न उवाच:
परय़ा शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ||
१७ ख
वैशम्पाय़न उवाच:
यस्य वाहुवलं सेन्द्राः सुराः सर्व उपासते |
१८ क
वैशम्पाय़न उवाच:
सोऽय़ं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ||
१८ ख
वैशम्पाय़न उवाच:
अहो वत महद्भूतं स्वय़म्भूर्यदिदं स्वय़म् |
१९ क
वैशम्पाय़न उवाच:
आदास्यति पुनः क्षत्रमेवं वलसमन्वितम् ||
१९ ख
वैशम्पाय़न उवाच:
इत्येतां नारदश्चिन्तां चिन्तय़ामास धर्मवित् |
२० क
वैशम्पाय़न उवाच:
हरिं नाराय़णं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् ||
२० ख
वैशम्पाय़न उवाच:
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः |
२१ क
वैशम्पाय़न उवाच:
महाध्वरे महावुद्धिस्तस्थौ स वहुमानतः ||
२१ ख
वैशम्पाय़न उवाच:
ततो भीष्मोऽव्रवीद्राजन्धर्मराजं युधिष्ठिरम् |
२२ क
वैशम्पाय़न उवाच:
क्रिय़तामर्हणं राज्ञां यथार्हमिति भारत ||
२२ ख
वैशम्पाय़न उवाच:
आचार्यमृत्विजं चैव संय़ुक्तं च युधिष्ठिर |
२३ क
वैशम्पाय़न उवाच:
स्नातकं च प्रिय़ं चाहुः षडर्घ्यार्हान्नृपं तथा ||
२३ ख
वैशम्पाय़न उवाच:
एतानर्हानभिगतानाहुः संवत्सरोषितान् |
२४ क
वैशम्पाय़न उवाच:
त इमे कालपूगस्य महतोऽस्मानुपागताः ||
२४ ख
वैशम्पाय़न उवाच:
एषामेकैकशो राजन्नर्घ्यमानीय़तामिति |
२५ क
वैशम्पाय़न उवाच:
अथ चैषां वरिष्ठाय़ समर्थाय़ोपनीय़ताम् ||
२५ ख
युधिष्ठिर उवाच:
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन |
२६ क
युधिष्ठिर उवाच:
उपनीय़मानं युक्तं च तन्मे व्रूहि पितामह ||
२६ ख
वैशम्पाय़न उवाच:
ततो भीष्मः शान्तनवो वुद्ध्या निश्चित्य भारत |
२७ क
वैशम्पाय़न उवाच:
वार्ष्णेय़ं मन्यते कृष्णमर्हणीय़तमं भुवि ||
२७ ख
वैशम्पाय़न उवाच:
एष ह्येषां समेतानां तेजोवलपराक्रमैः |
२८ क
वैशम्पाय़न उवाच:
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ||
२८ ख
वैशम्पाय़न उवाच:
असूर्यमिव सूर्येण निवातमिव वाय़ुना |
२९ क
वैशम्पाय़न उवाच:
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ||
२९ ख
वैशम्पाय़न उवाच:
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् |
३० क
वैशम्पाय़न उवाच:
उपजह्रेऽथ विधिवद्वार्ष्णेय़ाय़ार्घ्यमुत्तमम् ||
३० ख
वैशम्पाय़न उवाच:
प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा |
३१ क
वैशम्पाय़न उवाच:
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ||
३१ ख
वैशम्पाय़न उवाच:
स उपालभ्य भीष्मं च धर्मराजं च संसदि |
३२ क
वैशम्पाय़न उवाच:
अपाक्षिपद्वासुदेवं चेदिराजो महावलः ||
३२ ख