chevron_left भीष्म पर्व अध्याय ३३
अर्जुन उवाच:
मदनुग्रहाय़ परमं गुह्यमध्यात्मसञ्ज्ञितम् |
१ क
अर्जुन उवाच:
यत्त्वय़ोक्तं वचस्तेन मोहोऽय़ं विगतो मम ||
१ ख
अर्जुन उवाच:
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मय़ा |
२ क
अर्जुन उवाच:
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ||
२ ख
अर्जुन उवाच:
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |
३ क
अर्जुन उवाच:
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||
३ ख
अर्जुन उवाच:
मन्यसे यदि तच्छक्यं मय़ा द्रष्टुमिति प्रभो |
४ क
अर्जुन उवाच:
योगेश्वर ततो मे त्वं दर्शय़ात्मानमव्ययम् ||
४ ख
श्रीभगवानु उवाच:
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः |
५ क
श्रीभगवानु उवाच:
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||
५ ख
श्रीभगवानु उवाच:
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा |
६ क
श्रीभगवानु उवाच:
वहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||
६ ख
श्रीभगवानु उवाच:
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |
७ क
श्रीभगवानु उवाच:
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ||
७ ख
श्रीभगवानु उवाच:
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |
८ क
श्रीभगवानु उवाच:
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||
८ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो राजन्महाय़ोगेश्वरो हरिः |
९ क
सञ्जय़ उवाच:
दर्शय़ामास पार्थाय़ परमं रूपमैश्वरम् ||
९ ख
सञ्जय़ उवाच:
अनेकवक्त्रनय़नमनेकाद्भुतदर्शनम् |
१० क
सञ्जय़ उवाच:
अनेकदिव्याभरणं दिव्यानेकोद्यताय़ुधम् ||
१० ख
सञ्जय़ उवाच:
दिव्यमाल्याम्वरधरं दिव्यगन्धानुलेपनम् |
११ क
सञ्जय़ उवाच:
सर्वाश्चर्यमय़ं देवमनन्तं विश्वतोमुखम् ||
११ ख
सञ्जय़ उवाच:
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
१२ क
सञ्जय़ उवाच:
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||
१२ ख
सञ्जय़ उवाच:
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |
१३ क
सञ्जय़ उवाच:
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||
१३ ख
सञ्जय़ उवाच:
ततः स विस्मय़ाविष्टो हृष्टरोमा धनञ्जय़ः |
१४ क
सञ्जय़ उवाच:
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ||
१४ ख
अर्जुन उवाच:
पश्यामि देवांस्तव देव देहे; सर्वांस्तथा भूतविशेषसङ्घान् |
१५ क
अर्जुन उवाच:
व्रह्माणमीशं कमलासनस्थ; मृषींश्च सर्वानुरगांश्च दिव्यान् ||
१५ ख
अर्जुन उवाच:
अनेकवाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतोऽनन्तरूपम् |
१६ क
अर्जुन उवाच:
नान्तं न मध्यं न पुनस्तवादिं; पश्यामि विश्वेश्वर विश्वरूप ||
१६ ख
अर्जुन उवाच:
किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम् |
१७ क
अर्जुन उवाच:
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता; द्दीप्तानलार्कद्युतिमप्रमेय़म् ||
१७ ख
अर्जुन उवाच:
त्वमक्षरं परमं वेदितव्यं; त्वमस्य विश्वस्य परं निधानम् |
१८ क
अर्जुन उवाच:
त्वमव्ययः शाश्वतधर्मगोप्ता; सनातनस्त्वं पुरुषो मतो मे ||
१८ ख
अर्जुन उवाच:
अनादिमध्यान्तमनन्तवीर्य; मनन्तवाहुं शशिसूर्यनेत्रम् |
१९ क
अर्जुन उवाच:
पश्यामि त्वां दीप्तहुताशवक्त्रं; स्वतेजसा विश्वमिदं तपन्तम् ||
१९ ख
अर्जुन उवाच:
द्यावापृथिव्योरिदमन्तरं हि; व्याप्तं त्वय़ैकेन दिशश्च सर्वाः |
२० क
अर्जुन उवाच:
दृष्ट्वाद्भुतं रूपमिदं तवोग्रं; लोकत्रय़ं प्रव्यथितं महात्मन् ||
२० ख
अर्जुन उवाच:
अमी हि त्वा सुरसङ्घा विशन्ति; केचिद्भीताः प्राञ्जलय़ो गृणन्ति |
२१ क
अर्जुन उवाच:
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||
२१ ख
अर्जुन उवाच:
रुद्रादित्या वसवो ये च साध्या; विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |
२२ क
अर्जुन उवाच:
गन्धर्वय़क्षासुरसिद्धसङ्घा; वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ||
२२ ख
अर्जुन उवाच:
रूपं महत्ते वहुवक्त्रनेत्रं; महावाहो वहुवाहूरुपादम् |
२३ क
अर्जुन उवाच:
वहूदरं वहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ||
२३ ख
अर्जुन उवाच:
नभःस्पृशं दीप्तमनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम् |
२४ क
अर्जुन उवाच:
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो ||
२४ ख
अर्जुन उवाच:
दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि |
२५ क
अर्जुन उवाच:
दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास ||
२५ ख
अर्जुन उवाच:
अमी च त्वां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसङ्घैः |
२६ क
अर्जुन उवाच:
भीष्मो द्रोणः सूतपुत्रस्तथासौ; सहास्मदीय़ैरपि योधमुख्यैः ||
२६ ख
अर्जुन उवाच:
वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भय़ानकानि |
२७ क
अर्जुन उवाच:
केचिद्विलग्ना दशनान्तरेषु; सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||
२७ ख
अर्जुन उवाच:
यथा नदीनां वहवोऽम्वुवेगाः; समुद्रमेवाभिमुखा द्रवन्ति |
२८ क
अर्जुन उवाच:
तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्यभिविज्वलन्ति ||
२८ ख
अर्जुन उवाच:
यथा प्रदीप्तं ज्वलनं पतङ्गा; विशन्ति नाशाय़ समृद्धवेगाः |
२९ क
अर्जुन उवाच:
तथैव नाशाय़ विशन्ति लोका; स्तवापि वक्त्राणि समृद्धवेगाः ||
२९ ख
अर्जुन उवाच:
लेलिह्यसे ग्रसमानः समन्ता; ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः |
३० क
अर्जुन उवाच:
तेजोभिरापूर्य जगत्समग्रं; भासस्तवोग्राः प्रतपन्ति विष्णो ||
३० ख
अर्जुन उवाच:
आख्याहि मे को भवानुग्ररूपो; नमोऽस्तु ते देववर प्रसीद |
३१ क
अर्जुन उवाच:
विज्ञातुमिच्छामि भवन्तमाद्यं; न हि प्रजानामि तव प्रवृत्तिम् ||
३१ ख
श्रीभगवानु उवाच:
कालोऽस्मि लोकक्षय़कृत्प्रवृद्धो; लोकान्समाहर्तुमिह प्रवृत्तः |
३२ क
श्रीभगवानु उवाच:
ऋतेऽपि त्वा न भविष्यन्ति सर्वे; येऽवस्थिताः प्रत्यनीकेषु योधाः ||
३२ ख
श्रीभगवानु उवाच:
तस्मात्त्वमुत्तिष्ठ यशो लभस्व; जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् |
३३ क
श्रीभगवानु उवाच:
मय़ैवैते निहताः पूर्वमेव; निमित्तमात्रं भव सव्यसाचिन् ||
३३ ख
श्रीभगवानु उवाच:
द्रोणं च भीष्मं च जय़द्रथं च; कर्णं तथान्यानपि योधवीरान् |
३४ क
श्रीभगवानु उवाच:
मय़ा हतांस्त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान् ||
३४ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर्वेपमानः किरीटी |
३५ क
सञ्जय़ उवाच:
नमस्कृत्वा भूय़ एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य ||
३५ ख
अर्जुन उवाच:
स्थाने हृषीकेश तव प्रकीर्त्या; जगत्प्रहृष्यत्यनुरज्यते च |
३६ क
अर्जुन उवाच:
रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसङ्घाः ||
३६ ख
अर्जुन उवाच:
कस्माच्च ते न नमेरन्महात्म; न्गरीय़से व्रह्मणोऽप्यादिकर्त्रे |
३७ क
अर्जुन उवाच:
अनन्त देवेश जगन्निवास; त्वमक्षरं सदसत्तत्परं यत् ||
३७ ख
अर्जुन उवाच:
त्वमादिदेवः पुरुषः पुराण; स्त्वमस्य विश्वस्य परं निधानम् |
३८ क
अर्जुन उवाच:
वेत्तासि वेद्यं च परं च धाम; त्वय़ा ततं विश्वमनन्तरूप ||
३८ ख
अर्जुन उवाच:
वाय़ुर्यमोऽग्निर्वरुणः शशाङ्कः; प्रजापतिस्त्वं प्रपितामहश्च |
३९ क
अर्जुन उवाच:
नमो नमस्तेऽस्तु सहस्रकृत्वः; पुनश्च भूय़ोऽपि नमो नमस्ते ||
३९ ख
अर्जुन उवाच:
नमः पुरस्तादथ पृष्ठतस्ते; नमोऽस्तु ते सर्वत एव सर्व |
४० क
अर्जुन उवाच:
अनन्तवीर्यामितविक्रमस्त्वं; सर्वं समाप्नोषि ततोऽसि सर्वः ||
४० ख
अर्जुन उवाच:
सखेति मत्वा प्रसभं यदुक्तं; हे कृष्ण हे यादव हे सखेति |
४१ क
अर्जुन उवाच:
अजानता महिमानं तवेदं; मय़ा प्रमादात्प्रणय़ेन वापि ||
४१ ख
अर्जुन उवाच:
यच्चावहासार्थमसत्कृतोऽसि; विहारशय़्यासनभोजनेषु |
४२ क
अर्जुन उवाच:
एकोऽथ वाप्यच्युत तत्समक्षं; तत्क्षामय़े त्वामहमप्रमेय़म् ||
४२ ख
अर्जुन उवाच:
पितासि लोकस्य चराचरस्य; त्वमस्य पूज्यश्च गुरुर्गरीय़ान् |
४३ क
अर्जुन उवाच:
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो; लोकत्रय़ेऽप्यप्रतिमप्रभाव ||
४३ ख
अर्जुन उवाच:
तस्मात्प्रणम्य प्रणिधाय़ काय़ं; प्रसादय़े त्वामहमीशमीड्यम् |
४४ क
अर्जुन उवाच:
पितेव पुत्रस्य सखेव सख्युः; प्रिय़ः प्रिय़ाय़ार्हसि देव सोढुम् ||
४४ ख
अर्जुन उवाच:
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा; भय़ेन च प्रव्यथितं मनो मे |
४५ क
अर्जुन उवाच:
तदेव मे दर्शय़ देव रूपं; प्रसीद देवेश जगन्निवास ||
४५ ख
अर्जुन उवाच:
किरीटिनं गदिनं चक्रहस्त; मिच्छामि त्वां द्रष्टुमहं तथैव |
४६ क
अर्जुन उवाच:
तेनैव रूपेण चतुर्भुजेन; सहस्रवाहो भव विश्वमूर्ते ||
४६ ख
श्रीभगवानु उवाच:
मय़ा प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितमात्मय़ोगात् |
४७ क
श्रीभगवानु उवाच:
तेजोमय़ं विश्वमनन्तमाद्यं; यन्मे त्वदन्येन न दृष्टपूर्वम् ||
४७ ख
श्रीभगवानु उवाच:
न वेदय़ज्ञाध्ययनैर्न दानै; र्न च क्रिय़ाभिर्न तपोभिरुग्रैः |
४८ क
श्रीभगवानु उवाच:
एवंरूपः शक्य अहं नृलोके; द्रष्टुं त्वदन्येन कुरुप्रवीर ||
४८ ख
श्रीभगवानु उवाच:
मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरमीदृङ्ममेदम् |
४९ क
श्रीभगवानु उवाच:
व्यपेतभीः प्रीतमनाः पुनस्त्वं; तदेव मे रूपमिदं प्रपश्य ||
४९ ख
सञ्जय़ उवाच:
इत्यर्जुनं वासुदेवस्तथोक्त्वा; स्वकं रूपं दर्शय़ामास भूय़ः |
५० क
सञ्जय़ उवाच:
आश्वासय़ामास च भीतमेनं; भूत्वा पुनः सौम्यवपुर्महात्मा ||
५० ख