chevron_left द्रोण पर्व अध्याय ३३
सञ्जय़ उवाच:
समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः |
१ क
सञ्जय़ उवाच:
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ||
१ ख
सञ्जय़ उवाच:
सत्त्वकर्मान्वय़ैर्वुद्ध्या प्रकृत्या यशसा श्रिय़ा |
२ क
सञ्जय़ उवाच:
नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् ||
२ ख
सञ्जय़ उवाच:
सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः |
३ क
सञ्जय़ उवाच:
सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ||
३ ख
सञ्जय़ उवाच:
युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् |
४ क
सञ्जय़ उवाच:
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रय़ः ||
४ ख
सञ्जय़ उवाच:
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः |
५ क
सञ्जय़ उवाच:
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ||
५ ख
सञ्जय़ उवाच:
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनय़ो दमः |
६ क
सञ्जय़ उवाच:
नकुलेऽप्रातिरूप्यं च शौर्यं च निय़तानि षट् ||
६ ख
सञ्जय़ उवाच:
श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः |
७ क
सञ्जय़ उवाच:
सदृशो देवय़ोर्वीरः सहदेवः किलाश्विनोः ||
७ ख
सञ्जय़ उवाच:
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः |
८ क
सञ्जय़ उवाच:
अभिमन्यौ किलैकस्था दृश्यन्ते गुणसञ्चय़ाः ||
८ ख
सञ्जय़ उवाच:
युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च |
९ क
सञ्जय़ उवाच:
कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः ||
९ ख
सञ्जय़ उवाच:
धनञ्जय़स्य रूपेण विक्रमेण श्रुतेन च |
१० क
सञ्जय़ उवाच:
विनय़ात्सहदेवस्य सदृशो नकुलस्य च ||
१० ख
धृतराष्ट्र उवाच:
अभिमन्युमहं सूत सौभद्रमपराजितम् |
११ क
धृतराष्ट्र उवाच:
श्रोतुमिच्छामि कार्त्स्न्येन कथमाय़ोधने हतः ||
११ ख
सञ्जय़ उवाच:
चक्रव्यूहो महाराज आचार्येणाभिकल्पितः |
१२ क
सञ्जय़ उवाच:
तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः ||
१२ ख
सञ्जय़ उवाच:
सङ्घातो राजपुत्राणां सर्वेषामभवत्तदा |
१३ क
सञ्जय़ उवाच:
कृताभिसमय़ाः सर्वे सुवर्णविकृतध्वजाः ||
१३ ख
सञ्जय़ उवाच:
रक्ताम्वरधराः सर्वे सर्वे रक्तविभूषणाः |
१४ क
सञ्जय़ उवाच:
सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ||
१४ ख
सञ्जय़ उवाच:
तेषां दशसहस्राणि वभूवुर्दृढधन्विनाम् |
१५ क
सञ्जय़ उवाच:
पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रिय़दर्शनम् ||
१५ ख
सञ्जय़ उवाच:
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः |
१६ क
सञ्जय़ उवाच:
अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ||
१६ ख
सञ्जय़ उवाच:
कर्णदुःशासनकृपैर्वृतो राजा महारथैः |
१७ क
सञ्जय़ उवाच:
देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः |
१७ ख
सञ्जय़ उवाच:
चामरव्यजनाक्षेपैरुदय़न्निव भास्करः ||
१७ ग
सञ्जय़ उवाच:
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनाय़के |
१८ क
सञ्जय़ उवाच:
सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः ||
१८ ख
सञ्जय़ उवाच:
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः |
१९ क
सञ्जय़ उवाच:
सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः ||
१९ ख
सञ्जय़ उवाच:
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा |
२० क
सञ्जय़ उवाच:
पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ||
२० ख