श्रीभगवानु उवाच:
अथ रुद्रविघातार्थमिषीकां जगृहे नरः |
४८ क
श्रीभगवानु उवाच:
मन्त्रैश्च संय़ुय़ोजाशु सोऽभवत्परशुर्महान् ||
४८ ख
श्रीभगवानु उवाच:
क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा |
४९ क
श्रीभगवानु उवाच:
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ||
४९ ख
अर्जुन उवाच:
अस्मिन्युद्धे तु वार्ष्णेय़ त्रैलोक्यमथने तदा |
५० क
अर्जुन उवाच:
जय़ं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ||
५० ख
श्रीभगवानु उवाच:
तय़ोः संलग्नय़ोर्युद्धे रुद्रनाराय़णात्मनोः |
५१ क
श्रीभगवानु उवाच:
उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा ||
५१ ख
श्रीभगवानु उवाच:
नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः |
५२ क
श्रीभगवानु उवाच:
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ||
५२ ख
श्रीभगवानु उवाच:
देवान्रजस्तमश्चैव समाविविशतुस्तदा |
५३ क
श्रीभगवानु उवाच:
वसुधा सञ्चकम्पेऽथ नभश्च विपफाल ह ||
५३ ख
श्रीभगवानु उवाच:
निष्प्रभाणि च तेजांसि व्रह्मा चैवासनाच्च्युतः |
५४ क
श्रीभगवानु उवाच:
अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ||
५४ ख
श्रीभगवानु उवाच:
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन |
५५ क
श्रीभगवानु उवाच:
व्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः |
५५ ख
श्रीभगवानु उवाच:
आजगामाशु तं देशं यत्र युद्धमवर्तत ||
५५ ग
श्रीभगवानु उवाच:
साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः |
५६ क
श्रीभगवानु उवाच:
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् |
५६ ख
श्रीभगवानु उवाच:
न्यस्याय़ुधानि विश्वेश जगतो हितकाम्यया ||
५६ ग
श्रीभगवानु उवाच:
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् |
५७ क
श्रीभगवानु उवाच:
कूटस्थं कर्तृनिर्द्वन्द्वमकर्तेति च यं विदुः ||
५७ ख
श्रीभगवानु उवाच:
व्यक्तिभावगतस्यास्य एका मूर्तिरिय़ं शिवा |
५८ क
श्रीभगवानु उवाच:
नरो नाराय़णश्चैव जातौ धर्मकुलोद्वहौ ||
५८ ख
श्रीभगवानु उवाच:
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ |
५९ क
श्रीभगवानु उवाच:
अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे |
५९ ख
श्रीभगवानु उवाच:
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ||
५९ ग
श्रीभगवानु उवाच:
मय़ा च सार्धं वरदं विवुधैश्च महर्षिभिः |
६० क
श्रीभगवानु उवाच:
प्रसादय़ाशु लोकानां शान्तिर्भवतु माचिरम् ||
६० ख
श्रीभगवानु उवाच:
व्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् |
६१ क
श्रीभगवानु उवाच:
प्रसादय़ामास ततो देवं नाराय़णं प्रभुम् |
६१ ख
श्रीभगवानु उवाच:
शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ||
६१ ग
श्रीभगवानु उवाच:
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रिय़ः |
६२ क
श्रीभगवानु उवाच:
प्रीतिमानभवत्तत्र रुद्रेण सह सङ्गतः ||
६२ ख
श्रीभगवानु उवाच:
ऋषिभिर्व्रह्मणा चैव विवुधैश्च सुपूजितः |
६३ क
श्रीभगवानु उवाच:
उवाच देवमीशानमीशः स जगतो हरिः ||
६३ ख
श्रीभगवानु उवाच:
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु |
६४ क
श्रीभगवानु उवाच:
नावय़ोरन्तरं किञ्चिन्मा ते भूद्वुद्धिरन्यथा ||
६४ ख
श्रीभगवानु उवाच:
अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽय़ं भवत्वय़म् |
६५ क
श्रीभगवानु उवाच:
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ||
६५ ख
श्रीभगवानु उवाच:
एवं लक्षणमुत्पाद्य परस्परकृतं तदा |
६६ क
श्रीभगवानु उवाच:
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी |
६६ ख
श्रीभगवानु उवाच:
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ||
६६ ग
श्रीभगवानु उवाच:
एष ते कथितः पार्थ नाराय़णजय़ो मृधे |
६७ क
श्रीभगवानु उवाच:
नामानि चैव गुह्यानि निरुक्तानि च भारत |
६७ ख
श्रीभगवानु उवाच:
ऋषिभिः कथितानीह यानि सङ्कीर्तितानि ते ||
६७ ग
श्रीभगवानु उवाच:
एवं वहुविधै रूपैश्चरामीह वसुन्धराम् |
६८ क
श्रीभगवानु उवाच:
व्रह्मलोकं च कौन्तेय़ गोलोकं च सनातनम् |
६८ ख
श्रीभगवानु उवाच:
मय़ा त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जय़म् ||
६८ ग
श्रीभगवानु उवाच:
यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते |
६९ क
श्रीभगवानु उवाच:
तं विद्धि रुद्रं कौन्तेय़ देवदेवं कपर्दिनम् ||
६९ ख
श्रीभगवानु उवाच:
कालः स एव कथितः क्रोधजेति मय़ा तव |
७० क
श्रीभगवानु उवाच:
निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् ||
७० ख
श्रीभगवानु उवाच:
अप्रमेय़प्रभावं तं देवदेवमुमापतिम् |
७१ क
श्रीभगवानु उवाच:
नमस्व देवं प्रय़तो विश्वेशं हरमव्ययम् ||
७१ ख