chevron_left शान्ति पर्व अध्याय ३३०
श्रीभगवानु उवाच:
सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसञ्ज्ञितैः |
१ क
श्रीभगवानु उवाच:
वोधय़ंस्तापय़ंश्चैव जगदुत्तिष्ठतः पृथक् ||
१ ख
श्रीभगवानु उवाच:
वोधनात्तापनाच्चैव जगतो हर्षणं भवेत् |
२ क
श्रीभगवानु उवाच:
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन |
२ ख
श्रीभगवानु उवाच:
हृषीकेशोऽहमीशानो वरदो लोकभावनः ||
२ ग
श्रीभगवानु उवाच:
इडोपहूतय़ोगेन हरे भागं क्रतुष्वहम् |
३ क
श्रीभगवानु उवाच:
वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः ||
३ ख
श्रीभगवानु उवाच:
धाम सारो हि लोकानामृतं चैव विचारितम् |
४ क
श्रीभगवानु उवाच:
ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ||
४ ख
श्रीभगवानु उवाच:
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् |
५ क
श्रीभगवानु उवाच:
गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ||
५ ख
श्रीभगवानु उवाच:
शिपिविष्टेति चाख्याय़ां हीनरोमा च यो भवेत् |
६ क
श्रीभगवानु उवाच:
तेनाविष्टं हि यत्किञ्चिच्छिपिविष्टं हि तत्स्मृतम् ||
६ ख
श्रीभगवानु उवाच:
यास्को मामृषिरव्यग्रो नैकय़ज्ञेषु गीतवान् |
७ क
श्रीभगवानु उवाच:
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ||
७ ख
श्रीभगवानु उवाच:
स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः |
८ क
श्रीभगवानु उवाच:
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ||
८ ख
श्रीभगवानु उवाच:
न हि जातो न जाय़ेऽहं न जनिष्ये कदाचन |
९ क
श्रीभगवानु उवाच:
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ||
९ ख
श्रीभगवानु उवाच:
नोक्तपूर्वं मय़ा क्षुद्रमश्लीलं वा कदाचन |
१० क
श्रीभगवानु उवाच:
ऋता व्रह्मसुता सा मे सत्या देवी सरस्वती ||
१० ख
श्रीभगवानु उवाच:
सच्चासच्चैव कौन्तेय़ मय़ावेशितमात्मनि |
११ क
श्रीभगवानु उवाच:
पौष्करे व्रह्मसदने सत्यं मामृषय़ो विदुः ||
११ ख
श्रीभगवानु उवाच:
सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् |
१२ क
श्रीभगवानु उवाच:
जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनञ्जय़ ||
१२ ख
श्रीभगवानु उवाच:
निराशीःकर्मसंय़ुक्तं सात्वतं मां प्रकल्पय़ |
१३ क
श्रीभगवानु उवाच:
सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः ||
१३ ख
श्रीभगवानु उवाच:
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णाय़सो महान् |
१४ क
श्रीभगवानु उवाच:
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ||
१४ ख
श्रीभगवानु उवाच:
मय़ा संश्लेषिता भूमिरद्भिर्व्योम च वाय़ुना |
१५ क
श्रीभगवानु उवाच:
वाय़ुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ||
१५ ख
श्रीभगवानु उवाच:
निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते |
१६ क
श्रीभगवानु उवाच:
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ||
१६ ख
श्रीभगवानु उवाच:
पृथिवीनभसी चोभे विश्रुते विश्वलौकिके |
१७ क
श्रीभगवानु उवाच:
तय़ोः सन्धारणार्थं हि मामधोक्षजमञ्जसा ||
१७ ख
श्रीभगवानु उवाच:
निरुक्तं वेदविदुषो ये च शव्दार्थचिन्तकाः |
१८ क
श्रीभगवानु उवाच:
ते मां गाय़न्ति प्राग्वंशे अधोक्षज इति स्थितिः ||
१८ ख
श्रीभगवानु उवाच:
शव्द एकमतैरेष व्याहृतः परमर्षिभिः |
१९ क
श्रीभगवानु उवाच:
नान्यो ह्यधोक्षजो लोके ऋते नाराय़णं प्रभुम् ||
१९ ख
श्रीभगवानु उवाच:
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् |
२० क
श्रीभगवानु उवाच:
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ||
२० ख
श्रीभगवानु उवाच:
त्रय़ो हि धातवः ख्याताः कर्मजा इति च स्मृताः |
२१ क
श्रीभगवानु उवाच:
पित्तं श्लेष्मा च वाय़ुश्च एष सङ्घात उच्यते ||
२१ ख
श्रीभगवानु उवाच:
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीय़ते |
२२ क
श्रीभगवानु उवाच:
आय़ुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ||
२२ ख
श्रीभगवानु उवाच:
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत |
२३ क
श्रीभगवानु उवाच:
नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् ||
२३ ख
श्रीभगवानु उवाच:
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते |
२४ क
श्रीभगवानु उवाच:
तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ||
२४ ख
श्रीभगवानु उवाच:
न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च |
२५ क
श्रीभगवानु उवाच:
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी ||
२५ ख
श्रीभगवानु उवाच:
शुचीनि श्रवणीय़ानि शृणोमीह धनञ्जय़ |
२६ क
श्रीभगवानु उवाच:
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ||
२६ ख
श्रीभगवानु उवाच:
एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः |
२७ क
श्रीभगवानु उवाच:
इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ||
२७ ख
श्रीभगवानु उवाच:
तथैवासं त्रिककुदो वाराहं रूपमास्थितः |
२८ क
श्रीभगवानु उवाच:
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ||
२८ ख
श्रीभगवानु उवाच:
विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः |
२९ क
श्रीभगवानु उवाच:
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ||
२९ ख
श्रीभगवानु उवाच:
विद्यासहाय़वन्तं मामादित्यस्थं सनातनम् |
३० क
श्रीभगवानु उवाच:
कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चय़ाः ||
३० ख
श्रीभगवानु उवाच:
हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः |
३१ क
श्रीभगवानु उवाच:
योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः ||
३१ ख
श्रीभगवानु उवाच:
एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते |
३२ क
श्रीभगवानु उवाच:
सहस्रशाखं यत्साम ये वै वेदविदो जनाः |
३२ ख
श्रीभगवानु उवाच:
गाय़न्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः ||
३२ ग
श्रीभगवानु उवाच:
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत |
३३ क
श्रीभगवानु उवाच:
यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ||
३३ ख
श्रीभगवानु उवाच:
पञ्चकल्पमथर्वाणं कृत्याभिः परिवृंहितम् |
३४ क
श्रीभगवानु उवाच:
कल्पय़न्ति हि मां विप्रा अथर्वाणविदस्तथा ||
३४ ख
श्रीभगवानु उवाच:
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतय़ः |
३५ क
श्रीभगवानु उवाच:
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ||
३५ ख
श्रीभगवानु उवाच:
यत्तद्धय़शिरः पार्थ समुदेति वरप्रदम् |
३६ क
श्रीभगवानु उवाच:
सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् ||
३६ ख
श्रीभगवानु उवाच:
रामादेशितमार्गेण मत्प्रसादान्महात्मना |
३७ क
श्रीभगवानु उवाच:
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् |
३७ ख
श्रीभगवानु उवाच:
वाभ्रव्यगोत्रः स वभौ प्रथमः क्रमपारगः ||
३७ ग
श्रीभगवानु उवाच:
नाराय़णाद्वरं लव्ध्वा प्राप्य योगमनुत्तमम् |
३८ क
श्रीभगवानु उवाच:
क्रमं प्रणीय़ शिक्षां च प्रणय़ित्वा स गालवः ||
३८ ख
श्रीभगवानु उवाच:
कण्डरीकोऽथ राजा च व्रह्मदत्तः प्रतापवान् |
३९ क
श्रीभगवानु उवाच:
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः |
३९ ख
श्रीभगवानु उवाच:
सप्तजातिषु मुख्यत्वाद्योगानां सम्पदं गतः ||
३९ ग
श्रीभगवानु उवाच:
पुराहमात्मजः पार्थ प्रथितः कारणान्तरे |
४० क
श्रीभगवानु उवाच:
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ||
४० ख
श्रीभगवानु उवाच:
नरनाराय़णौ पूर्वं तपस्तेपतुरव्ययम् |
४१ क
श्रीभगवानु उवाच:
धर्मय़ानं समारूढौ पर्वते गन्धमादने ||
४१ ख
श्रीभगवानु उवाच:
तत्कालसमय़ं चैव दक्षय़ज्ञो वभूव ह |
४२ क
श्रीभगवानु उवाच:
न चैवाकल्पय़द्भागं दक्षो रुद्रस्य भारत ||
४२ ख
श्रीभगवानु उवाच:
ततो दधीचिवचनाद्दक्षय़ज्ञमपाहरत् |
४३ क
श्रीभगवानु उवाच:
ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः ||
४३ ख
श्रीभगवानु उवाच:
तच्छूलं भस्मसात्कृत्वा दक्षय़ज्ञं सविस्तरम् |
४४ क
श्रीभगवानु उवाच:
आवय़ोः सहसागच्छद्वदर्याश्रममन्तिकात् |
४४ ख
श्रीभगवानु उवाच:
वेगेन महता पार्थ पतन्नाराय़णोरसि ||
४४ ग
श्रीभगवानु उवाच:
ततः स्वतेजसाविष्टाः केशा नाराय़णस्य ह |
४५ क
श्रीभगवानु उवाच:
वभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ||
४५ ख
श्रीभगवानु उवाच:
तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना |
४६ क
श्रीभगवानु उवाच:
जगाम शङ्करकरं नाराय़णसमाहतम् ||
४६ ख
श्रीभगवानु उवाच:
अथ रुद्र उपाधावत्तावृषी तपसान्वितौ |
४७ क
श्रीभगवानु उवाच:
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना |
४७ ख
श्रीभगवानु उवाच:
नाराय़णः स विश्वात्मा तेनास्य शितिकण्ठता ||
४७ ग