नरनाराय़णावू ऊचतुः:
धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वय़ं प्रभुः |
१ क
नरनाराय़णावू ऊचतुः:
न हि तं दृष्टवान्कश्चित्पद्मय़ोनिरपि स्वय़म् ||
१ ख
नरनाराय़णावू ऊचतुः:
अव्यक्तय़ोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः |
२ क
नरनाराय़णावू ऊचतुः:
नारदैतद्धि ते सत्यं वचनं समुदाहृतम् ||
२ ख
नरनाराय़णावू ऊचतुः:
नास्य भक्तैः प्रिय़तरो लोके कश्चन विद्यते |
३ क
नरनाराय़णावू ऊचतुः:
ततः स्वय़ं दर्शितवान्स्वमात्मानं द्विजोत्तम ||
३ ख
नरनाराय़णावू ऊचतुः:
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः |
४ क
नरनाराय़णावू ऊचतुः:
न तत्सम्प्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम ||
४ ख
नरनाराय़णावू ऊचतुः:
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः |
५ क
नरनाराय़णावू ऊचतुः:
स्थानस्य सा भवेत्तस्य स्वय़ं तेन विराजता ||
५ ख
नरनाराय़णावू ऊचतुः:
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः |
६ क
नरनाराय़णावू ऊचतुः:
क्षमा क्षमावतां श्रेष्ठ यय़ा भूमिस्तु युज्यते ||
६ ख
नरनाराय़णावू ऊचतुः:
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः |
७ क
नरनाराय़णावू ऊचतुः:
आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ||
७ ख
नरनाराय़णावू ऊचतुः:
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् |
८ क
नरनाराय़णावू ऊचतुः:
येन स्म युज्यते सूर्यस्ततो लोकान्विराजते ||
८ ख
नरनाराय़णावू ऊचतुः:
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् |
९ क
नरनाराय़णावू ऊचतुः:
येन स्म युज्यते वाय़ुस्ततो लोकान्विवात्यसौ ||
९ ख
नरनाराय़णावू ऊचतुः:
तस्माच्चोत्तिष्ठते शव्दः सर्वलोकेश्वरात्प्रभोः |
१० क
नरनाराय़णावू ऊचतुः:
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ||
१० ख
नरनाराय़णावू ऊचतुः:
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः |
११ क
नरनाराय़णावू ऊचतुः:
चन्द्रमा येन संय़ुक्तः प्रकाशगुणधारणः ||
११ ख
नरनाराय़णावू ऊचतुः:
षड्भूतोत्पादकं नाम तत्स्थानं वेदसञ्ज्ञितम् |
१२ क
नरनाराय़णावू ऊचतुः:
विद्यासहाय़ो यत्रास्ते भगवान्हव्यकव्यभुक् ||
१२ ख
नरनाराय़णावू ऊचतुः:
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः |
१३ क
नरनाराय़णावू ऊचतुः:
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम |
१३ ख
नरनाराय़णावू ऊचतुः:
सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते ||
१३ ग
नरनाराय़णावू ऊचतुः:
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् |
१४ क
नरनाराय़णावू ऊचतुः:
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ||
१४ ख
नरनाराय़णावू ऊचतुः:
तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः |
१५ क
नरनाराय़णावू ऊचतुः:
मनोभूतास्ततो भूय़ः प्रद्युम्नं प्रविशन्त्युत ||
१५ ख
नरनाराय़णावू ऊचतुः:
प्रद्युम्नाच्चापि निर्मुक्ता जीवं सङ्कर्षणं तथा |
१६ क
नरनाराय़णावू ऊचतुः:
विशन्ति विप्रप्रवराः साङ्ख्या भागवतैः सह ||
१६ ख
नरनाराय़णावू ऊचतुः:
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा |
१७ क
नरनाराय़णावू ऊचतुः:
प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् |
१७ ख
नरनाराय़णावू ऊचतुः:
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ||
१७ ग
नरनाराय़णावू ऊचतुः:
समाहितमनस्काश्च निय़ताः संय़तेन्द्रिय़ाः |
१८ क
नरनाराय़णावू ऊचतुः:
एकान्तभावोपगता वासुदेवं विशन्ति ते ||
१८ ख
नरनाराय़णावू ऊचतुः:
आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम |
१९ क
नरनाराय़णावू ऊचतुः:
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ||
१९ ख
नरनाराय़णावू ऊचतुः:
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रिय़ाः |
२० क
नरनाराय़णावू ऊचतुः:
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज ||
२० ख
नरनाराय़णावू ऊचतुः:
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम |
२१ क
नरनाराय़णावू ऊचतुः:
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम् ||
२१ ख
नरनाराय़णावू ऊचतुः:
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन |
२२ क
नरनाराय़णावू ऊचतुः:
समागतो भगवता सञ्जल्पं कृतवान्यथा ||
२२ ख
नरनाराय़णावू ऊचतुः:
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे |
२३ क
नरनाराय़णावू ऊचतुः:
यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् ||
२३ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा तय़ोर्वाक्यं तपस्युग्रेऽभ्यवर्तत |
२४ क
वैशम्पाय़न उवाच:
नारदः प्राञ्जलिर्भूत्वा नाराय़णपराय़णः ||
२४ ख
वैशम्पाय़न उवाच:
जजाप विधिवन्मन्त्रान्नाराय़णगतान्वहून् |
२५ क
वैशम्पाय़न उवाच:
दिव्यं वर्षसहस्रं हि नरनाराय़णाश्रमे ||
२५ ख
वैशम्पाय़न उवाच:
अवसत्स महातेजा नारदो भगवानृषिः |
२६ क
वैशम्पाय़न उवाच:
तमेवाभ्यर्चय़न्देवं नरनाराय़णौ च तौ ||
२६ ख