वैशम्पाय़न उवाच:
कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः |
१ क
वैशम्पाय़न उवाच:
दैवं कृत्वा यथान्याय़ं पित्र्यं चक्रे ततः परम् ||
१ ख
वैशम्पाय़न उवाच:
ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः |
२ क
वैशम्पाय़न उवाच:
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ||
२ ख
वैशम्पाय़न उवाच:
त्वय़ा मतिमतां श्रेष्ठ तन्मे शंस यथागमम् |
३ क
वैशम्पाय़न उवाच:
किमेतत्क्रिय़ते कर्म फलं चास्य किमिष्यते ||
३ ख
नारद उवाच:
त्वय़ैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि |
४ क
नारद उवाच:
दैवतं च परो यज्ञः परमात्मा सनातनः ||
४ ख
नारद उवाच:
ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् |
५ क
नारद उवाच:
तस्माच्च प्रसृतः पूर्वं व्रह्मा लोकपितामहः ||
५ ख
नारद उवाच:
मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् |
६ क
नारद उवाच:
अहं सङ्कल्पजस्तस्य पुत्रः प्रथमकल्पितः ||
६ ख
नारद उवाच:
यजाम्यहं पितॄन्साधो नाराय़णविधौ कृते |
७ क
नारद उवाच:
एवं स एव भगवान्पिता माता पितामहः |
७ ख
नारद उवाच:
इज्यते पितृय़ज्ञेषु मय़ा नित्यं जगत्पतिः ||
७ ग
नारद उवाच:
श्रुतिश्चाप्यपरा देव पुत्रान्हि पितरोऽय़जन् |
८ क
नारद उवाच:
वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः |
८ ख
नारद उवाच:
ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे ||
८ ग
नारद उवाच:
नूनं पुरैतद्विदितं युवय़ोर्भावितात्मनोः |
९ क
नारद उवाच:
पुत्राश्च पितरश्चैव परस्परमपूजय़न् ||
९ ख
नारद उवाच:
त्रीन्पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति |
१० क
नारद उवाच:
कथं तु पिण्डसञ्ज्ञां ते पितरो लेभिरे पुरा ||
१० ख
नरनाराय़णावू ऊचतुः:
इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् |
११ क
नरनाराय़णावू ऊचतुः:
गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः ||
११ ख
नरनाराय़णावू ऊचतुः:
स्थापय़ित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः |
१२ क
नरनाराय़णावू ऊचतुः:
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः ||
१२ ख
नरनाराय़णावू ऊचतुः:
प्राप्ते चाह्निककाले स मध्यन्दिनगते रवौ |
१३ क
नरनाराय़णावू ऊचतुः:
दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय़ सहसा प्रभुः |
१३ ख
नरनाराय़णावू ऊचतुः:
स्थापय़ामास वै पृथ्व्यां कुशानास्तीर्य नारद ||
१३ ग
नरनाराय़णावू ऊचतुः:
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि |
१४ क
नरनाराय़णावू ऊचतुः:
सङ्कल्पय़ित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः ||
१४ ख
नरनाराय़णावू ऊचतुः:
आत्मगात्रोष्मसम्भूतैः स्नेहगर्भैस्तिलैरपि |
१५ क
नरनाराय़णावू ऊचतुः:
प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान्स्वय़म् ||
१५ ख
नरनाराय़णावू ऊचतुः:
मर्यादास्थापनार्थं च ततो वचनमुक्तवान् |
१६ क
नरनाराय़णावू ऊचतुः:
अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वय़म् ||
१६ ख
नरनाराय़णावू ऊचतुः:
तस्य चिन्तय़तः सद्यः पितृकार्यविधिं परम् |
१७ क
नरनाराय़णावू ऊचतुः:
दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् |
१७ ख
नरनाराय़णावू ऊचतुः:
आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते ||
१७ ग
नरनाराय़णावू ऊचतुः:
त्रय़ो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे |
१८ क
नरनाराय़णावू ऊचतुः:
भवन्तु पितरो लोके मय़ा सृष्टाः सनातनाः ||
१८ ख
नरनाराय़णावू ऊचतुः:
पिता पितामहश्चैव तथैव प्रपितामहः |
१९ क
नरनाराय़णावू ऊचतुः:
अहमेवात्र विज्ञेय़स्त्रिषु पिण्डेषु संस्थितः ||
१९ ख
नरनाराय़णावू ऊचतुः:
नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मय़ा स्वय़म् |
२० क
नरनाराय़णावू ऊचतुः:
को वा मम पिता लोके अहमेव पितामहः ||
२० ख
नरनाराय़णावू ऊचतुः:
पितामहपिता चैव अहमेवात्र कारणम् |
२१ क
नरनाराय़णावू ऊचतुः:
इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः ||
२१ ख
नरनाराय़णावू ऊचतुः:
वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान् |
२२ क
नरनाराय़णावू ऊचतुः:
आत्मानं पूजय़ित्वैव तत्रैवादर्शनं गतः ||
२२ ख
नरनाराय़णावू ऊचतुः:
एतदर्थं शुभमते पितरः पिण्डसञ्ज्ञिताः |
२३ क
नरनाराय़णावू ऊचतुः:
लभन्ते सततं पूजां वृषाकपिवचो यथा ||
२३ ख
नरनाराय़णावू ऊचतुः:
ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा |
२४ क
नरनाराय़णावू ऊचतुः:
गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा |
२४ ख
नरनाराय़णावू ऊचतुः:
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते ||
२४ ग
नरनाराय़णावू ऊचतुः:
अन्तर्गतः स भगवान्सर्वसत्त्वशरीरगः |
२५ क
नरनाराय़णावू ऊचतुः:
समः सर्वेषु भूतेषु ईश्वरः सुखदुःखय़ोः |
२५ ख
नरनाराय़णावू ऊचतुः:
महान्महात्मा सर्वात्मा नाराय़ण इति श्रुतः ||
२५ ग