chevron_left शान्ति पर्व अध्याय ३३४
वैशम्पाय़न उवाच:
श्रुत्वैतन्नारदो वाक्यं नरनाराय़णेरितम् |
१ क
वैशम्पाय़न उवाच:
अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेय़िवान् ||
१ ख
वैशम्पाय़न उवाच:
प्रोष्य वर्षसहस्रं तु नरनाराय़णाश्रमे |
२ क
वैशम्पाय़न उवाच:
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् |
२ ख
वैशम्पाय़न उवाच:
हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः ||
२ ग
वैशम्पाय़न उवाच:
तावपि ख्याततपसौ नरनाराय़णावृषी |
३ क
वैशम्पाय़न उवाच:
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम् ||
३ ख
वैशम्पाय़न उवाच:
त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः |
४ क
वैशम्पाय़न उवाच:
पावितात्माद्य संवृत्तः श्रुत्वेमामादितः कथाम् ||
४ ख
वैशम्पाय़न उवाच:
नैव तस्य परो लोको नाय़ं पार्थिवसत्तम |
५ क
वैशम्पाय़न उवाच:
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ||
५ ख
वैशम्पाय़न उवाच:
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः |
६ क
वैशम्पाय़न उवाच:
यो द्विष्याद्विवुधश्रेष्ठं देवं नाराय़णं हरिम् ||
६ ख
वैशम्पाय़न उवाच:
कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् |
७ क
वैशम्पाय़न उवाच:
आत्मा हि पुरुषव्याघ्र ज्ञेय़ो विष्णुरिति स्थितिः ||
७ ख
वैशम्पाय़न उवाच:
य एष गुरुरस्माकमृषिर्गन्धवतीसुतः |
८ क
वैशम्पाय़न उवाच:
तेनैतत्कथितं तात माहात्म्यं परमात्मनः |
८ ख
वैशम्पाय़न उवाच:
तस्माच्छ्रुतं मय़ा चेदं कथितं च तवानघ ||
८ ग
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नं व्यासं विद्धि नाराय़णं प्रभुम् |
९ क
वैशम्पाय़न उवाच:
को ह्यन्यः पुरुषव्याघ्र महाभारतकृद्भवेत् |
९ ख
वैशम्पाय़न उवाच:
धर्मान्नानाविधांश्चैव को व्रूय़ात्तमृते प्रभुम् ||
९ ग
वैशम्पाय़न उवाच:
वर्ततां ते महाय़ज्ञो यथा सङ्कल्पितस्त्वय़ा |
१० क
वैशम्पाय़न उवाच:
सङ्कल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः ||
१० ख
वैशम्पाय़न उवाच:
एतत्तु महदाख्यानं श्रुत्वा पारिक्षितो नृपः |
११ क
वैशम्पाय़न उवाच:
ततो यज्ञसमाप्त्यर्थं क्रिय़ाः सर्वाः समारभत् ||
११ ख
वैशम्पाय़न उवाच:
नाराय़णीय़माख्यानमेतत्ते कथितं मय़ा |
१२ क
वैशम्पाय़न उवाच:
नारदेन पुरा राजन्गुरवे मे निवेदितम् |
१२ ख
वैशम्पाय़न उवाच:
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मय़ोः ||
१२ ग
वैशम्पाय़न उवाच:
स हि परमगुरुर्भुवनपति; र्धरणिधरः शमनिय़मनिधिः |
१३ क
वैशम्पाय़न उवाच:
श्रुतिविनय़निधिर्द्विजपरमहित; स्तव भवतु गतिर्हरिरमरहितः ||
१३ ख
वैशम्पाय़न उवाच:
तपसां निधिः सुमहतां महतो; यशसश्च भाजनमरिष्टकहा |
१४ क
वैशम्पाय़न उवाच:
एकान्तिनां शरणदोऽभय़दो; गतिदोऽस्तु वः स मखभागहरः ||
१४ ख
वैशम्पाय़न उवाच:
त्रिगुणातिगश्चतुष्पञ्चधरः; पूर्तेष्टय़ोश्च फलभागहरः |
१५ क
वैशम्पाय़न उवाच:
विदधाति नित्यमजितोऽतिवलो; गतिमात्मगां सुकृतिनामृषिणाम् ||
१५ ख
वैशम्पाय़न उवाच:
तं लोकसाक्षिणमजं पुरुषं; रविवर्णमीश्वरगतिं वहुशः |
१६ क
वैशम्पाय़न उवाच:
प्रणमध्वमेकमतय़ो यतय़ः; सलिलोद्भवोऽपि तमृषिं प्रणतः ||
१६ ख
वैशम्पाय़न उवाच:
स हि लोकय़ोनिरमृतस्य पदं; सूक्ष्मं पुराणमचलं परमम् |
१७ क
वैशम्पाय़न उवाच:
तत्साङ्ख्ययोगिभिरुदारधृतं; वुद्ध्या यतात्मभिर्विदितं सततम् ||
१७ ख