वैशम्पाय़न उवाच:
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ||
४६ ख
वैशम्पाय़न उवाच:
त्रेताय़ुगादौ च पुनर्विवस्वान्मनवे ददौ |
४७ क
वैशम्पाय़न उवाच:
मनुश्च लोकभूत्यर्थं सुताय़ेक्ष्वाकवे ददौ ||
४७ ख
वैशम्पाय़न उवाच:
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः |
४८ क
वैशम्पाय़न उवाच:
गमिष्यति क्षय़ान्ते च पुनर्नाराय़णं नृप ||
४८ ख
वैशम्पाय़न उवाच:
व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम |
४९ क
वैशम्पाय़न उवाच:
कथितो हरिगीतासु समासविधिकल्पितः ||
४९ ख
वैशम्पाय़न उवाच:
नारदेन तु सम्प्राप्तः सरहस्यः ससङ्ग्रहः |
५० क
वैशम्पाय़न उवाच:
एष धर्मो जगन्नाथात्साक्षान्नाराय़णान्नृप ||
५० ख
वैशम्पाय़न उवाच:
एवमेष महान्धर्म आद्यो राजन्सनातनः |
५१ क
वैशम्पाय़न उवाच:
दुर्विज्ञेय़ो दुष्करश्च सात्वतैर्धार्यते सदा ||
५१ ख
वैशम्पाय़न उवाच:
धर्मज्ञानेन चैतेन सुप्रय़ुक्तेन कर्मणा |
५२ क
वैशम्पाय़न उवाच:
अहिंसाधर्मय़ुक्तेन प्रीय़ते हरिरीश्वरः ||
५२ ख
वैशम्पाय़न उवाच:
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसञ्ज्ञितः |
५३ क
वैशम्पाय़न उवाच:
त्रिव्यूहश्चापि सङ्ख्यातश्चतुर्व्यूहश्च दृश्यते ||
५३ ख
वैशम्पाय़न उवाच:
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा |
५४ क
वैशम्पाय़न उवाच:
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ||
५४ ख
वैशम्पाय़न उवाच:
मनश्च प्रथितं राजन्पञ्चेन्द्रिय़समीरणम् |
५५ क
वैशम्पाय़न उवाच:
एष लोकनिधिर्धीमानेष लोकविसर्गकृत् ||
५५ ख
वैशम्पाय़न उवाच:
अकर्ता चैव कर्ता च कार्यं कारणमेव च |
५६ क
वैशम्पाय़न उवाच:
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ||
५६ ख
वैशम्पाय़न उवाच:
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम |
५७ क
वैशम्पाय़न उवाच:
मय़ा गुरुप्रसादेन दुर्विज्ञेय़ोऽकृतात्मभिः |
५७ ख
वैशम्पाय़न उवाच:
एकान्तिनो हि पुरुषा दुर्लभा वहवो नृप ||
५७ ग
वैशम्पाय़न उवाच:
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन |
५८ क
वैशम्पाय़न उवाच:
अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः |
५८ ख
वैशम्पाय़न उवाच:
भवेत्कृतय़ुगप्राप्तिराशीःकर्मविवर्जितैः ||
५८ ग
वैशम्पाय़न उवाच:
एवं स भगवान्व्यासो गुरुर्मम विशां पते |
५९ क
वैशम्पाय़न उवाच:
कथय़ामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः ||
५९ ख
वैशम्पाय़न उवाच:
ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मय़ोः |
६० क
वैशम्पाय़न उवाच:
तस्याप्यकथय़त्पूर्वं नारदः सुमहातपाः ||
६० ख
वैशम्पाय़न उवाच:
देवं परमकं व्रह्म श्वेतं चन्द्राभमच्युतम् |
६१ क
वैशम्पाय़न उवाच:
यत्र चैकान्तिनो यान्ति नाराय़णपराय़णाः ||
६१ ख
जनमेजय़ उवाच:
एवं वहुविधं धर्मं प्रतिवुद्धैर्निषेवितम् |
६२ क
जनमेजय़ उवाच:
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ||
६२ ख
वैशम्पाय़न उवाच:
तिस्रः प्रकृतय़ो राजन्देहवन्धेषु निर्मिताः |
६३ क
वैशम्पाय़न उवाच:
सात्त्विकी राजसी चैव तामसी चेति भारत ||
६३ ख
वैशम्पाय़न उवाच:
देहवन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह |
६४ क
वैशम्पाय़न उवाच:
सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः ||
६४ ख
वैशम्पाय़न उवाच:
अत्रापि स विजानाति पुरुषं व्रह्मवर्तिनम् |
६५ क
वैशम्पाय़न उवाच:
नाराय़णपरो मोक्षस्ततो वै सात्त्विकः स्मृतः ||
६५ ख
वैशम्पाय़न उवाच:
मनीषितं च प्राप्नोति चिन्तय़न्पुरुषोत्तमम् |
६६ क
वैशम्पाय़न उवाच:
एकान्तभक्तिः सततं नाराय़णपराय़णः ||
६६ ख
वैशम्पाय़न उवाच:
मनीषिणो हि ये केचिद्यतय़ो मोक्षकाङ्क्षिणः |
६७ क
वैशम्पाय़न उवाच:
तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ||
६७ ख
वैशम्पाय़न उवाच:
जाय़मानं हि पुरुषं यं पश्येन्मधुसूदनः |
६८ क
वैशम्पाय़न उवाच:
सात्त्विकस्तु स विज्ञेय़ो भवेन्मोक्षे च निश्चितः ||
६८ ख
वैशम्पाय़न उवाच:
साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः |
६९ क
वैशम्पाय़न उवाच:
नाराय़णात्मके मोक्षे ततो यान्ति परां गतिम् ||
६९ ख
वैशम्पाय़न उवाच:
नाराय़णेन दृष्टश्च प्रतिवुद्धो भवेत्पुमान् |
७० क
वैशम्पाय़न उवाच:
एवमात्मेच्छय़ा राजन्प्रतिवुद्धो न जाय़ते ||
७० ख
वैशम्पाय़न उवाच:
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते |
७१ क
वैशम्पाय़न उवाच:
तदात्मकं हि पुरुषं जाय़मानं विशां पते |
७१ ख
वैशम्पाय़न उवाच:
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वय़म् ||
७१ ग
वैशम्पाय़न उवाच:
पश्यत्येनं जाय़मानं व्रह्मा लोकपितामहः |
७२ क
वैशम्पाय़न उवाच:
रजसा तमसा चैव मानुषं समभिप्लुतम् ||
७२ ख
वैशम्पाय़न उवाच:
कामं देवाश्च ऋषय़ः सत्त्वस्था नृपसत्तम |
७३ क
वैशम्पाय़न उवाच:
हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ||
७३ ख
जनमेजय़ उवाच:
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् |
७४ क
वैशम्पाय़न उवाच:
सुसूक्ष्मसत्त्वसंय़ुक्तं संय़ुक्तं त्रिभिरक्षरैः |
७५ क
वैशम्पाय़न उवाच:
पुरुषः पुरुषं गच्छेन्निष्क्रिय़ः पञ्चविंशकम् ||
७५ ख
वैशम्पाय़न उवाच:
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च |
७६ क
वैशम्पाय़न उवाच:
परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते |
७६ ख
वैशम्पाय़न उवाच:
एष एकान्तिनां धर्मो नाराय़णपरात्मकः ||
७६ ग
वैशम्पाय़न उवाच:
यथा समुद्रात्प्रसृता जलौघा; स्तमेव राजन्पुनराविशन्ति |
७७ क
वैशम्पाय़न उवाच:
इमे तथा ज्ञानमहाजलौघा; नाराय़णं वै पुनराविशन्ति ||
७७ ख
वैशम्पाय़न उवाच:
एष ते कथितो धर्मः सात्वतो यदुवान्धव |
७८ क
वैशम्पाय़न उवाच:
कुरुष्वैनं यथान्याय़ं यदि शक्नोषि भारत ||
७८ ख
वैशम्पाय़न उवाच:
एवं हि सुमहाभागो नारदो गुरवे मम |
७९ क
वैशम्पाय़न उवाच:
श्वेतानां यतिनामाह एकान्तगतिमव्ययाम् ||
७९ ख
वैशम्पाय़न उवाच:
व्यासश्चाकथय़त्प्रीत्या धर्मपुत्राय़ धीमते |
८० क
वैशम्पाय़न उवाच:
स एवाय़ं मय़ा तुभ्यमाख्यातः प्रसृतो गुरोः ||
८० ख
वैशम्पाय़न उवाच:
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम |
८१ क
वैशम्पाय़न उवाच:
यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः ||
८१ ख
वैशम्पाय़न उवाच:
कृष्ण एव हि लोकानां भावनो मोहनस्तथा |
८२ क
वैशम्पाय़न उवाच:
संहारकारकश्चैव कारणं च विशां पते ||
८२ ख