जनमेजय़ उवाच:
अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः |
१ क
जनमेजय़ उवाच:
विधिप्रय़ुक्तां पूजां च गृह्णाति भगवान्स्वय़म् ||
१ ख
जनमेजय़ उवाच:
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः |
२ क
जनमेजय़ उवाच:
तेषां त्वय़ाभिनिर्दिष्टा पारम्पर्यागता गतिः ||
२ ख
जनमेजय़ उवाच:
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् |
३ क
जनमेजय़ उवाच:
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ||
३ ख
जनमेजय़ उवाच:
नूनमेकान्तधर्मोऽय़ं श्रेष्ठो नाराय़णप्रिय़ः |
४ क
जनमेजय़ उवाच:
अगत्वा गतय़स्तिस्रो यद्गच्छन्त्यव्ययं हरिम् ||
४ ख
जनमेजय़ उवाच:
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः |
५ क
जनमेजय़ उवाच:
पठन्ति विधिमास्थाय़ ये चापि यतिधर्मिणः ||
५ ख
जनमेजय़ उवाच:
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् |
६ क
जनमेजय़ उवाच:
केनैष धर्मः कथितो देवेन ऋषिणापि वा ||
६ ख
जनमेजय़ उवाच:
एकान्तिनां च का चर्या कदा चोत्पादिता विभो |
७ क
जनमेजय़ उवाच:
एतन्मे संशय़ं छिन्धि परं कौतूहलं हि मे ||
७ ख
वैशम्पाय़न उवाच:
समुपोढेष्वनीकेषु कुरुपाण्डवय़ोर्मृधे |
८ क
वैशम्पाय़न उवाच:
अर्जुने विमनस्के च गीता भगवता स्वय़म् ||
८ ख
वैशम्पाय़न उवाच:
आगतिश्च गतिश्चैव पूर्वं ते कथिता मय़ा |
९ क
वैशम्पाय़न उवाच:
गहनो ह्येष धर्मो वै दुर्विज्ञेय़ोऽकृतात्मभिः ||
९ ख
वैशम्पाय़न उवाच:
संमितः सामवेदेन पुरैवादिय़ुगे कृतः |
१० क
वैशम्पाय़न उवाच:
धार्यते स्वय़मीशेन राजन्नाराय़णेन ह ||
१० ख
वैशम्पाय़न उवाच:
एतमर्थं महाराज पृष्टः पार्थेन नारदः |
११ क
वैशम्पाय़न उवाच:
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मय़ोः ||
११ ख
वैशम्पाय़न उवाच:
गुरुणा च ममाप्येष कथितो नृपसत्तम |
१२ क
वैशम्पाय़न उवाच:
यथा तु कथितस्तत्र नारदेन तथा शृणु ||
१२ ख
वैशम्पाय़न उवाच:
यदासीन्मानसं जन्म नाराय़णमुखोद्गतम् |
१३ क
वैशम्पाय़न उवाच:
व्रह्मणः पृथिवीपाल तदा नाराय़णः स्वय़म् |
१३ ख
वैशम्पाय़न उवाच:
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत ||
१३ ग
वैशम्पाय़न उवाच:
फेनपा ऋषय़श्चैव तं धर्मं प्रतिपेदिरे |
१४ क
वैशम्पाय़न उवाच:
वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे |
१४ ख
वैशम्पाय़न उवाच:
वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः ||
१४ ग
वैशम्पाय़न उवाच:
यदासीच्चाक्षुषं जन्म द्वितीय़ं व्रह्मणो नृप |
१५ क
वैशम्पाय़न उवाच:
तदा पितामहात्सोमादेतं धर्ममजानत |
१५ ख
वैशम्पाय़न उवाच:
नाराय़णात्मकं राजन्रुद्राय़ प्रददौ च सः ||
१५ ग
वैशम्पाय़न उवाच:
ततो योगस्थितो रुद्रः पुरा कृतय़ुगे नृप |
१६ क
वैशम्पाय़न उवाच:
वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठय़त् |
१६ ख
वैशम्पाय़न उवाच:
अन्तर्दधे ततो भूय़स्तस्य देवस्य माय़या ||
१६ ग
वैशम्पाय़न उवाच:
तृतीय़ं व्रह्मणो जन्म यदासीद्वाचिकं महत् |
१७ क
वैशम्पाय़न उवाच:
तत्रैष धर्मः सम्भूतः स्वय़ं नाराय़णान्नृप ||
१७ ख
वैशम्पाय़न उवाच:
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् |
१८ क
वैशम्पाय़न उवाच:
तपसा वै सुतप्तेन दमेन निय़मेन च ||
१८ ख
वैशम्पाय़न उवाच:
त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् |
१९ क
वैशम्पाय़न उवाच:
यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते ||
१९ ख
वैशम्पाय़न उवाच:
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् |
२० क
वैशम्पाय़न उवाच:
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ||
२० ख
वैशम्पाय़न उवाच:
वाय़ुना द्विपदां श्रेष्ठ प्रथितो जगदाय़ुषा |
२१ क
वैशम्पाय़न उवाच:
वाय़ोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ||
२१ ख
वैशम्पाय़न उवाच:
तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम् |
२२ क
वैशम्पाय़न उवाच:
ततः सोऽन्तर्दधे भूय़ो नाराय़णसमाहितः ||
२२ ख
वैशम्पाय़न उवाच:
यदा भूय़ः श्रवणजा सृष्टिरासीन्महात्मनः |
२३ क
वैशम्पाय़न उवाच:
व्रह्मणः पुरुषव्याघ्र तत्र कीर्तय़तः शृणु ||
२३ ख
वैशम्पाय़न उवाच:
जगत्स्रष्टुमना देवो हरिर्नाराय़णः स्वय़म् |
२४ क
वैशम्पाय़न उवाच:
चिन्तय़ामास पुरुषं जगत्सर्गकरं प्रभुः ||
२४ ख
वैशम्पाय़न उवाच:
अथ चिन्तय़तस्तस्य कर्णाभ्यां पुरुषः सृतः |
२५ क
वैशम्पाय़न उवाच:
प्रजासर्गकरो व्रह्मा तमुवाच जगत्पतिः ||
२५ ख
वैशम्पाय़न उवाच:
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा |
२६ क
वैशम्पाय़न उवाच:
श्रेय़स्तव विधास्यामि वलं तेजश्च सुव्रत ||
२६ ख
वैशम्पाय़न उवाच:
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः |
२७ क
वैशम्पाय़न उवाच:
तेन सर्वं कृतय़ुगं स्थापय़स्व यथाविधि ||
२७ ख
वैशम्पाय़न उवाच:
ततो व्रह्मा नमश्चक्रे देवाय़ हरिमेधसे |
२८ क
वैशम्पाय़न उवाच:
धर्मं चाग्र्यं स जग्राह सरहस्यं ससङ्ग्रहम् |
२८ ख
वैशम्पाय़न उवाच:
आरण्यकेन सहितं नाराय़णमुखोद्गतम् ||
२८ ग
वैशम्पाय़न उवाच:
उपदिश्य ततो धर्मं व्रह्मणेऽमिततेजसे |
२९ क
वैशम्पाय़न उवाच:
तं कार्तय़ुगधर्माणं निराशीःकर्मसञ्ज्ञितम् |
२९ ख
वैशम्पाय़न उवाच:
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ||
२९ ग
वैशम्पाय़न उवाच:
ततोऽथ वरदो देवो व्रह्मलोकपितामहः |
३० क
वैशम्पाय़न उवाच:
असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ||
३० ख
वैशम्पाय़न उवाच:
ततः प्रावर्तत तदा आदौ कृतय़ुगं शुभम् |
३१ क
वैशम्पाय़न उवाच:
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ||
३१ ख
वैशम्पाय़न उवाच:
तेनैवाद्येन धर्मेण व्रह्मा लोकविसर्गकृत् |
३२ क
वैशम्पाय़न उवाच:
पूजय़ामास देवेशं हरिं नाराय़णं प्रभुम् ||
३२ ख
वैशम्पाय़न उवाच:
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः |
३३ क
वैशम्पाय़न उवाच:
अध्यापय़ामास तदा लोकानां हितकाम्यया ||
३३ ख
वैशम्पाय़न उवाच:
ततः स्वारोचिषः पुत्रं स्वय़ं शङ्खपदं नृप |
३४ क
वैशम्पाय़न उवाच:
अध्यापय़त्पुराव्यग्रः सर्वलोकपतिर्विभुः ||
३४ ख
वैशम्पाय़न उवाच:
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् |
३५ क
वैशम्पाय़न उवाच:
दिशापालं सुधर्माणमध्यापय़त भारत |
३५ ख
वैशम्पाय़न उवाच:
ततः सोऽन्तर्दधे भूय़ः प्राप्ते त्रेताय़ुगे पुनः ||
३५ ग
वैशम्पाय़न उवाच:
नासिक्यजन्मनि पुरा व्रह्मणः पार्थिवोत्तम |
३६ क
वैशम्पाय़न उवाच:
धर्ममेतं स्वय़ं देवो हरिर्नाराय़णः प्रभुः |
३६ ख
वैशम्पाय़न उवाच:
उज्जगारारविन्दाक्षो व्रह्मणः पश्यतस्तदा ||
३६ ग
वैशम्पाय़न उवाच:
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप |
३७ क
वैशम्पाय़न उवाच:
सनत्कुमारादपि च वीरणो वै प्रजापतिः |
३७ ख
वैशम्पाय़न उवाच:
कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् ||
३७ ग
वैशम्पाय़न उवाच:
वीरणश्चाप्यधीत्यैनं रौच्याय़ मनवे ददौ |
३८ क
वैशम्पाय़न उवाच:
रौच्यः पुत्राय़ शुद्धाय़ सुव्रताय़ सुमेधसे ||
३८ ख
वैशम्पाय़न उवाच:
कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय़ धर्मिणे |
३९ क
वैशम्पाय़न उवाच:
ततः सोऽन्तर्दधे भूय़ो नाराय़णमुखोद्गतः ||
३९ ख
वैशम्पाय़न उवाच:
अण्डजे जन्मनि पुनर्व्रह्मणे हरिय़ोनय़े |
४० क
वैशम्पाय़न उवाच:
एष धर्मः समुद्भूतो नाराय़णमुखात्पुनः ||
४० ख
वैशम्पाय़न उवाच:
गृहीतो व्रह्मणा राजन्प्रय़ुक्तश्च यथाविधि |
४१ क
वैशम्पाय़न उवाच:
अध्यापिताश्च मुनय़ो नाम्ना वर्हिषदो नृप ||
४१ ख
वैशम्पाय़न उवाच:
वर्हिषद्भ्यश्च सङ्क्रान्तः सामवेदान्तगं द्विजम् |
४२ क
वैशम्पाय़न उवाच:
ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः ||
४२ ख
वैशम्पाय़न उवाच:
ज्येष्ठाच्चाप्यनुसङ्क्रान्तो राजानमविकम्पनम् |
४३ क
वैशम्पाय़न उवाच:
अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः ||
४३ ख
वैशम्पाय़न उवाच:
यदिदं सप्तमं जन्म पद्मजं व्रह्मणो नृप |
४४ क
वैशम्पाय़न उवाच:
तत्रैष धर्मः कथितः स्वय़ं नाराय़णेन हि ||
४४ ख
वैशम्पाय़न उवाच:
पितामहाय़ शुद्धाय़ युगादौ लोकधारिणे |
४५ क
वैशम्पाय़न उवाच:
पितामहश्च दक्षाय़ धर्ममेतं पुरा ददौ ||
४५ ख
वैशम्पाय़न उवाच:
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम |
४६ क