chevron_left शान्ति पर्व अध्याय ३३७
जनमेजय़ उवाच:
साङ्ख्यं योगं पञ्चरात्रं वेदारण्यकमेव च |
१ क
जनमेजय़ उवाच:
ज्ञानान्येतानि व्रह्मर्षे लोकेषु प्रचरन्ति ह ||
१ ख
जनमेजय़ उवाच:
किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने |
२ क
जनमेजय़ उवाच:
प्रव्रूहि वै मय़ा पृष्टः प्रवृत्तिं च यथाक्रमम् ||
२ ख
वैशम्पाय़न उवाच:
जज्ञे वहुज्ञं परमत्युदारं; यं द्वीपमध्ये सुतमात्मवन्तम् |
३ क
वैशम्पाय़न उवाच:
पराशराद्गन्धवती महर्षिं; तस्मै नमोऽज्ञानतमोनुदाय़ ||
३ ख
वैशम्पाय़न उवाच:
पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिमार्षेय़विभूतिय़ुक्तम् |
४ क
वैशम्पाय़न उवाच:
नाराय़णस्यांशजमेकपुत्रं; द्वैपाय़नं वेदमहानिधानम् ||
४ ख
वैशम्पाय़न उवाच:
तमादिकालेषु महाविभूति; र्नाराय़णो व्रह्ममहानिधानम् |
५ क
वैशम्पाय़न उवाच:
ससर्ज पुत्रार्थमुदारतेजा; व्यासं महात्मानमजः पुराणः ||
५ ख
जनमेजय़ उवाच:
त्वय़ैव कथितः पूर्वं सम्भवो द्विजसत्तम |
६ क
जनमेजय़ उवाच:
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ||
६ ख
जनमेजय़ उवाच:
पराशरस्य दाय़ादः कृष्णद्वैपाय़नो मुनिः |
७ क
जनमेजय़ उवाच:
भूय़ो नाराय़णसुतं त्वमेवैनं प्रभाषसे ||
७ ख
जनमेजय़ उवाच:
किमतः पूर्वजं जन्म व्यासस्यामिततेजसः |
८ क
जनमेजय़ उवाच:
कथय़स्वोत्तममते जन्म नाराय़णोद्भवम् ||
८ ख
वैशम्पाय़न उवाच:
वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः |
९ क
वैशम्पाय़न उवाच:
गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः ||
९ ख
वैशम्पाय़न उवाच:
कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः |
१० क
वैशम्पाय़न उवाच:
शुश्रूषां तत्परा राजन्कृतवन्तो वय़ं तदा ||
१० ख
वैशम्पाय़न उवाच:
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः |
११ क
वैशम्पाय़न उवाच:
अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा ||
११ ख
वैशम्पाय़न उवाच:
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः |
१२ क
वैशम्पाय़न उवाच:
शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा ||
१२ ख
वैशम्पाय़न उवाच:
वेदानावर्तय़न्साङ्गान्भारतार्थांश्च सर्वशः |
१३ क
वैशम्पाय़न उवाच:
तमेकमनसं दान्तं युक्ता वय़मुपास्महे ||
१३ ख
वैशम्पाय़न उवाच:
कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः |
१४ क
वैशम्पाय़न उवाच:
वेदार्थान्भारतार्थांश्च जन्म नाराय़णात्तथा ||
१४ ख
वैशम्पाय़न उवाच:
स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् |
१५ क
वैशम्पाय़न उवाच:
नाराय़णादिदं जन्म व्याहर्तुमुपचक्रमे ||
१५ ख
वैशम्पाय़न उवाच:
शृणुध्वमाख्यानवरमेतदार्षेय़मुत्तमम् |
१६ क
वैशम्पाय़न उवाच:
आदिकालोद्भवं विप्रास्तपसाधिगतं मय़ा ||
१६ ख
वैशम्पाय़न उवाच:
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसम्भवे |
१७ क
वैशम्पाय़न उवाच:
नाराय़णो महाय़ोगी शुभाशुभविवर्जितः ||
१७ ख
वैशम्पाय़न उवाच:
ससृजे नाभितः पुत्रं व्रह्माणममितप्रभम् |
१८ क
वैशम्पाय़न उवाच:
ततः स प्रादुरभवदथैनं वाक्यमव्रवीत् ||
१८ ख
वैशम्पाय़न उवाच:
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः |
१९ क
वैशम्पाय़न उवाच:
सृज प्रजास्त्वं विविधा व्रह्मन्सजडपण्डिताः ||
१९ ख
वैशम्पाय़न उवाच:
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः |
२० क
वैशम्पाय़न उवाच:
प्रणम्य वरदं देवमुवाच हरिमीश्वरम् ||
२० ख
वैशम्पाय़न उवाच:
का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते |
२१ क
वैशम्पाय़न उवाच:
अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् ||
२१ ख
वैशम्पाय़न उवाच:
स एवमुक्तो भगवान्भूत्वाथान्तर्हितस्ततः |
२२ क
वैशम्पाय़न उवाच:
चिन्तय़ामास देवेशो वुद्धिं वुद्धिमतां वरः ||
२२ ख
वैशम्पाय़न उवाच:
स्वरूपिणी ततो वुद्धिरुपतस्थे हरिं प्रभुम् |
२३ क
वैशम्पाय़न उवाच:
योगेन चैनां निर्योगः स्वय़ं निय़ुय़ुजे तदा ||
२३ ख
वैशम्पाय़न उवाच:
स तामैश्वर्ययोगस्थां वुद्धिं शक्तिमतीं सतीम् |
२४ क
वैशम्पाय़न उवाच:
उवाच वचनं देवो वुद्धिं वै प्रभुरव्ययः ||
२४ ख
वैशम्पाय़न उवाच:
व्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धय़े |
२५ क
वैशम्पाय़न उवाच:
ततस्तमीश्वरादिष्टा वुद्धिः क्षिप्रं विवेश सा ||
२५ ख
वैशम्पाय़न उवाच:
अथैनं वुद्धिसंय़ुक्तं पुनः स ददृशे हरिः |
२६ क
वैशम्पाय़न उवाच:
भूय़श्चैनं वचः प्राह सृजेमा विविधाः प्रजाः ||
२६ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीय़त |
२७ क
वैशम्पाय़न उवाच:
प्राप चैव मुहूर्तेन स्वस्थानं देवसञ्ज्ञितम् ||
२७ ख
वैशम्पाय़न उवाच:
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् |
२८ क
वैशम्पाय़न उवाच:
अथास्य वुद्धिरभवत्पुनरन्या तदा किल ||
२८ ख
वैशम्पाय़न उवाच:
सृष्टा इमाः प्रजाः सर्वा व्रह्मणा परमेष्ठिना |
२९ क
वैशम्पाय़न उवाच:
दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः |
२९ ख
वैशम्पाय़न उवाच:
जाता हीय़ं वसुमती भाराक्रान्ता तपस्विनी ||
२९ ग
वैशम्पाय़न उवाच:
वहवो वलिनः पृथ्व्यां दैत्यदानवराक्षसाः |
३० क
वैशम्पाय़न उवाच:
भविष्यन्ति तपोय़ुक्ता वरान्प्राप्स्यन्ति चोत्तमान् ||
३० ख
वैशम्पाय़न उवाच:
अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः |
३१ क
वैशम्पाय़न उवाच:
वाधितव्याः सुरगणा ऋषय़श्च तपोधनाः |
३१ ख
वैशम्पाय़न उवाच:
तत्र न्याय़्यमिदं कर्तुं भारावतरणं मय़ा ||
३१ ग
वैशम्पाय़न उवाच:
अथ नानासमुद्भूतैर्वसुधाय़ां यथाक्रमम् |
३२ क
वैशम्पाय़न उवाच:
निग्रहेण च पापानां साधूनां प्रग्रहेण च ||
३२ ख
वैशम्पाय़न उवाच:
इमां तपस्विनीं सत्यां धारय़िष्यामि मेदिनीम् |
३३ क
वैशम्पाय़न उवाच:
मय़ा ह्येषा हि ध्रिय़ते पातालस्थेन भोगिना ||
३३ ख
वैशम्पाय़न उवाच:
मय़ा धृता धारय़ति जगद्धि सचराचरम् |
३४ क
वैशम्पाय़न उवाच:
तस्मात्पृथ्व्याः परित्राणं करिष्ये सम्भवं गतः ||
३४ ख
वैशम्पाय़न उवाच:
एवं स चिन्तय़ित्वा तु भगवान्मधुसूदनः |
३५ क
वैशम्पाय़न उवाच:
रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय़ सः ||
३५ ख
वैशम्पाय़न उवाच:
वाराहं नारसिंहं च वामनं मानुषं तथा |
३६ क
वैशम्पाय़न उवाच:
एभिर्मय़ा निहन्तव्या दुर्विनीताः सुरारय़ः ||
३६ ख
वैशम्पाय़न उवाच:
अथ भूय़ो जगत्स्रष्टा भोःशव्देनानुनादय़न् |
३७ क
वैशम्पाय़न उवाच:
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ||
३७ ख
वैशम्पाय़न उवाच:
अपान्तरतमा नाम सुतो वाक्सम्भवो विभोः |
३८ क
वैशम्पाय़न उवाच:
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ||
३८ ख
वैशम्पाय़न उवाच:
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः |
३९ क
वैशम्पाय़न उवाच:
वेदाख्याने श्रुतिः कार्या त्वय़ा मतिमतां वर |
३९ ख
वैशम्पाय़न उवाच:
तस्मात्कुरु यथाज्ञप्तं मय़ैतद्वचनं मुने ||
३९ ग
वैशम्पाय़न उवाच:
तेन भिन्नास्तदा वेदा मनोः स्वाय़म्भुवेऽन्तरे |
४० क
वैशम्पाय़न उवाच:
ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा |
४० ख
वैशम्पाय़न उवाच:
तपसा च सुतप्तेन यमेन निय़मेन च ||
४० ग
श्रीभगवानु उवाच:
मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः |
४१ क
श्रीभगवानु उवाच:
भविष्यस्यचलो व्रह्मन्नप्रधृष्यश्च नित्यशः ||
४१ ख
श्रीभगवानु उवाच:
पुनस्तिष्ये च सम्प्राप्ते कुरवो नाम भारताः |
४२ क
श्रीभगवानु उवाच:
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ||
४२ ख
श्रीभगवानु उवाच:
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति |
४३ क
श्रीभगवानु उवाच:
परस्परविनाशार्थं त्वामृते द्विजसत्तम ||
४३ ख
श्रीभगवानु उवाच:
तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः |
४४ क
श्रीभगवानु उवाच:
कृष्णे युगे च सम्प्राप्ते कृष्णवर्णो भविष्यसि ||
४४ ख
श्रीभगवानु उवाच:
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा |
४५ क
श्रीभगवानु उवाच:
भविष्यसि तपोय़ुक्तो न च रागाद्विमोक्ष्यसे ||
४५ ख
श्रीभगवानु उवाच:
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति |
४६ क
श्रीभगवानु उवाच:
महेश्वरप्रसादेन नैतद्वचनमन्यथा ||
४६ ख
श्रीभगवानु उवाच:
यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमवुद्धिय़ुक्तम् |
४७ क
श्रीभगवानु उवाच:
वसिष्ठमग्र्यं तपसो निधानं; यश्चापि सूर्यं व्यतिरिच्य भाति ||
४७ ख
श्रीभगवानु उवाच:
तस्यान्वय़े चापि ततो महर्षिः; पराशरो नाम महाप्रभावः |
४८ क
श्रीभगवानु उवाच:
पिता स ते वेदनिधिर्वरिष्ठो; महातपा वै तपसो निवासः |
४८ ख