जनमेजय़ उवाच:
वहवः पुरुषा व्रह्मन्नुताहो एक एव तु |
१ क
जनमेजय़ उवाच:
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ||
१ ख
वैशम्पाय़न उवाच:
वहवः पुरुषा लोके साङ्ख्ययोगविचारिणाम् |
२ क
वैशम्पाय़न उवाच:
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ||
२ ख
वैशम्पाय़न उवाच:
वहूनां पुरुषाणां च यथैका योनिरुच्यते |
३ क
वैशम्पाय़न उवाच:
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ||
३ ख
वैशम्पाय़न उवाच:
नमस्कृत्वा तु गुरवे व्यासाय़ामिततेजसे |
४ क
वैशम्पाय़न उवाच:
तपोय़ुक्ताय़ दान्ताय़ वन्द्याय़ परमर्षय़े ||
४ ख
वैशम्पाय़न उवाच:
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव |
५ क
वैशम्पाय़न उवाच:
ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् ||
५ ख
वैशम्पाय़न उवाच:
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः |
६ क
वैशम्पाय़न उवाच:
अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ||
६ ख
वैशम्पाय़न उवाच:
समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् |
७ क
वैशम्पाय़न उवाच:
तत्तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः ||
७ ख
वैशम्पाय़न उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
८ क
वैशम्पाय़न उवाच:
व्रह्मणा सह संवादं त्र्यम्वकस्य विशां पते ||
८ ख
वैशम्पाय़न उवाच:
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः |
९ क
वैशम्पाय़न उवाच:
वैजय़न्त इति ख्यातः पर्वतप्रवरो नृप ||
९ ख
वैशम्पाय़न उवाच:
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तय़न् |
१० क
वैशम्पाय़न उवाच:
वैराजसदने नित्यं वैजय़न्तं निषेवते ||
१० ख
वैशम्पाय़न उवाच:
अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमतः |
११ क
वैशम्पाय़न उवाच:
ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छय़ा |
११ ख
वैशम्पाय़न उवाच:
आकाशेनैव योगीशः पुरा त्रिनय़नः प्रभुः ||
११ ग
वैशम्पाय़न उवाच:
ततः खान्निपपाताशु धरणीधरमूर्धनि |
१२ क
वैशम्पाय़न उवाच:
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादय़ोः ||
१२ ख
वैशम्पाय़न उवाच:
तं पादय़ोर्निपतितं दृष्ट्वा सव्येन पाणिना |
१३ क
वैशम्पाय़न उवाच:
उत्थापय़ामास तदा प्रभुरेकः प्रजापतिः ||
१३ ख
वैशम्पाय़न उवाच:
उवाच चैनं भगवांश्चिरस्यागतमात्मजम् |
१४ क
वैशम्पाय़न उवाच:
स्वागतं ते महावाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम् ||
१४ ख
वैशम्पाय़न उवाच:
कच्चित्ते कुशलं पुत्र स्वाध्याय़तपसोः सदा |
१५ क
वैशम्पाय़न उवाच:
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ||
१५ ख
रुद्र उवाच:
त्वत्प्रसादेन भगवन्स्वाध्याय़तपसोर्मम |
१६ क
रुद्र उवाच:
कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा ||
१६ ख
रुद्र उवाच:
चिरदृष्टो हि भगवान्वैराजसदने मय़ा |
१७ क
रुद्र उवाच:
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ||
१७ ख
रुद्र उवाच:
कौतूहलं चापि हि मे एकान्तगमनेन ते |
१८ क
रुद्र उवाच:
नैतत्कारणमल्पं हि भविष्यति पितामह ||
१८ ख
रुद्र उवाच:
किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् |
१९ क
रुद्र उवाच:
सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः ||
१९ ख
रुद्र उवाच:
गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम् |
२० क
रुद्र उवाच:
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ||
२० ख
व्रह्मो उवाच:
वैजय़न्तो गिरिवरः सततं सेव्यते मय़ा |
२१ क
व्रह्मो उवाच:
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ||
२१ ख
रुद्र उवाच:
वहवः पुरुषा व्रह्मंस्त्वय़ा सृष्टाः स्वय़म्भुवा |
२२ क
रुद्र उवाच:
सृज्यन्ते चापरे व्रह्मन्स चैकः पुरुषो विराट् ||
२२ ख
रुद्र उवाच:
को ह्यसौ चिन्त्यते व्रह्मंस्त्वय़ा वै पुरुषोत्तमः |
२३ क
रुद्र उवाच:
एतन्मे संशय़ं व्रूहि महत्कौतूहलं हि मे ||
२३ ख
व्रह्मो उवाच:
वहवः पुरुषाः पुत्र ये त्वय़ा समुदाहृताः |
२४ क
व्रह्मो उवाच:
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि |
२४ ख
व्रह्मो उवाच:
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ||
२४ ग
व्रह्मो उवाच:
वहूनां पुरुषाणां स यथैका योनिरुच्यते |
२५ क
व्रह्मो उवाच:
तथा तं पुरुषं विश्वं परमं सुमहत्तमम् |
२५ ख
व्रह्मो उवाच:
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ||
२५ ग