chevron_left शान्ति पर्व अध्याय ३३९
व्रह्मो उवाच:
शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः |
१ क
व्रह्मो उवाच:
अक्षय़श्चाप्रमेय़श्च सर्वगश्च निरुच्यते ||
१ ख
व्रह्मो उवाच:
न स शक्यस्त्वय़ा द्रष्टुं मय़ान्यैर्वापि सत्तम |
२ क
व्रह्मो उवाच:
सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ||
२ ख
व्रह्मो उवाच:
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ |
३ क
व्रह्मो उवाच:
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ||
३ ख
व्रह्मो उवाच:
ममान्तरात्मा तव च ये चान्ये देहसञ्ज्ञिताः |
४ क
व्रह्मो उवाच:
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ||
४ ख
व्रह्मो उवाच:
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः |
५ क
व्रह्मो उवाच:
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ||
५ ख
व्रह्मो उवाच:
क्षेत्राणि हि शरीराणि वीजानि च शुभाशुभे |
६ क
व्रह्मो उवाच:
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ||
६ ख
व्रह्मो उवाच:
नागतिर्न गतिस्तस्य ज्ञेय़ा भूतेन केनचित् |
७ क
व्रह्मो उवाच:
साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् ||
७ ख
व्रह्मो उवाच:
चिन्तय़ामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् |
८ क
व्रह्मो उवाच:
यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् ||
८ ख
व्रह्मो उवाच:
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः |
९ क
व्रह्मो उवाच:
महापुरुषशव्दं स विभर्त्येकः सनातनः ||
९ ख
व्रह्मो उवाच:
एको हुताशो वहुधा समिध्यते; एकः सूर्यस्तपसां योनिरेका |
१० क
व्रह्मो उवाच:
एको वाय़ुर्वहुधा वाति लोके; महोदधिश्चाम्भसां योनिरेकः |
१० ख
व्रह्मो उवाच:
पुरुषश्चैको निर्गुणो विश्वरूप; स्तं निर्गुणं पुरुषं चाविशन्ति ||
१० ग
व्रह्मो उवाच:
हित्वा गुणमय़ं सर्वं कर्म हित्वा शुभाशुभम् |
११ क
व्रह्मो उवाच:
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ||
११ ख
व्रह्मो उवाच:
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टय़म् |
१२ क
व्रह्मो उवाच:
विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् ||
१२ ख
व्रह्मो उवाच:
एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः |
१३ क
व्रह्मो उवाच:
एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः ||
१३ ख
व्रह्मो उवाच:
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः |
१४ क
व्रह्मो उवाच:
स हि नाराय़णो ज्ञेय़ः सर्वात्मा पुरुषो हि सः |
१४ ख
व्रह्मो उवाच:
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ||
१४ ग
व्रह्मो उवाच:
कर्मात्मा त्वपरो योऽसौ मोक्षवन्धैः स युज्यते |
१५ क
व्रह्मो उवाच:
ससप्तदशकेनापि राशिना युज्यते हि सः |
१५ ख
व्रह्मो उवाच:
एवं वहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ||
१५ ग
व्रह्मो उवाच:
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं वोधनीय़ं सवोद्धृ |
१६ क
व्रह्मो उवाच:
मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेय़ं स्पर्शिता स्पर्शनीय़म् ||
१६ ख
व्रह्मो उवाच:
द्रष्टा द्रष्टव्यं श्राविता श्रावणीय़ं; ज्ञाता ज्ञेय़ं सगुणं निर्गुणं च |
१७ क
व्रह्मो उवाच:
यद्वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच्छाश्वतं चाव्ययं च ||
१७ ख
व्रह्मो उवाच:
यद्वै सूते धातुराद्यं निधानं; तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् |
१८ क
व्रह्मो उवाच:
यद्वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद्धि तस्योपभोज्यम् ||
१८ ख
व्रह्मो उवाच:
देवाः सर्वे मुनय़ः साधु दान्ता; स्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते |
१९ क
व्रह्मो उवाच:
अहं व्रह्मा आद्य ईशः प्रजानां; तस्माज्जातस्त्वं च मत्तः प्रसूतः |
१९ ख
व्रह्मो उवाच:
मत्तो जगज्जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र ||
१९ ग
व्रह्मो उवाच:
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति |
२० क
व्रह्मो उवाच:
एवं स एव भगवाञ्ज्ञानेन प्रतिवोधितः ||
२० ख
व्रह्मो उवाच:
एतत्ते कथितं पुत्र यथावदनुपृच्छतः |
२१ क
व्रह्मो उवाच:
साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम् ||
२१ ख