chevron_left आदि पर्व अध्याय ३४
सूत उवाच:
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च |
१ क
सूत उवाच:
वासुकेश्च वचः श्रुत्वा एलापत्रोऽव्रवीदिदम् ||
१ ख
सूत उवाच:
न स यज्ञो न भविता न स राजा तथाविधः |
२ क
सूत उवाच:
जनमेजय़ः पाण्डवेय़ो यतोऽस्माकं महाभय़म् ||
२ ख
सूत उवाच:
दैवेनोपहतो राजन्यो भवेदिह पूरुषः |
३ क
सूत उवाच:
स दैवमेवाश्रय़ते नान्यत्तत्र पराय़णम् ||
३ ख
सूत उवाच:
तदिदं दैवमस्माकं भय़ं पन्नगसत्तमाः |
४ क
सूत उवाच:
दैवमेवाश्रय़ामोऽत्र शृणुध्वं च वचो मम ||
४ ख
सूत उवाच:
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा |
५ क
सूत उवाच:
मातुरुत्सङ्गमारूढो भय़ात्पन्नगसत्तमाः ||
५ ख
सूत उवाच:
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो |
६ क
सूत उवाच:
पितामहमुपागम्य दुःखार्तानां महाद्युते ||
६ ख
देवा ऊचुः:
का हि लव्ध्वा प्रिय़ान्पुत्राञ्शपेदेवं पितामह |
७ क
देवा ऊचुः:
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ||
७ ख
देवा ऊचुः:
तथेति च वचस्तस्यास्त्वय़ाप्युक्तं पितामह |
८ क
देवा ऊचुः:
एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ||
८ ख
व्रह्मो उवाच:
वहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्वणाः |
९ क
व्रह्मो उवाच:
प्रजानां हितकामोऽहं न निवारितवांस्तदा ||
९ ख
व्रह्मो उवाच:
ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्वणाः |
१० क
व्रह्मो उवाच:
तेषां विनाशो भविता न तु ये धर्मचारिणः ||
१० ख
व्रह्मो उवाच:
यन्निमित्तं च भविता मोक्षस्तेषां महाभय़ात् |
११ क
व्रह्मो उवाच:
पन्नगानां निवोधध्वं तस्मिन्काले तथागते ||
११ ख
व्रह्मो उवाच:
याय़ावरकुले धीमान्भविष्यति महानृषिः |
१२ क
व्रह्मो उवाच:
जरत्कारुरिति ख्यातस्तेजस्वी निय़तेन्द्रिय़ः ||
१२ ख
व्रह्मो उवाच:
तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः |
१३ क
व्रह्मो उवाच:
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा |
१३ ख
व्रह्मो उवाच:
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ||
१३ ग
देवा ऊचुः:
स मुनिप्रवरो देव जरत्कारुर्महातपाः |
१४ क
देवा ऊचुः:
कस्यां पुत्रं महात्मानं जनय़िष्यति वीर्यवान् ||
१४ ख
व्रह्मो उवाच:
सनामाय़ां सनामा स कन्याय़ां द्विजसत्तमः |
१५ क
व्रह्मो उवाच:
अपत्यं वीर्यवान्देवा वीर्यवज्जनय़िष्यति ||
१५ ख
एलापत्र उवाच:
एवमस्त्विति तं देवाः पितामहमथाव्रुवन् |
१६ क
एलापत्र उवाच:
उक्त्वा चैवं गता देवाः स च देवः पितामहः ||
१६ ख
एलापत्र उवाच:
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव |
१७ क
एलापत्र उवाच:
जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय़ ||
१७ ख
एलापत्र उवाच:
भैक्षवद्भिक्षमाणाय़ नागानां भय़शान्तय़े |
१८ क
एलापत्र उवाच:
ऋषय़े सुव्रताय़ त्वमेष मोक्षः श्रुतो मय़ा ||
१८ ख