वैशम्पाय़न उवाच:
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपाय़नस्तदा |
१ क
वैशम्पाय़न उवाच:
समीक्ष्य निपुणं वुद्ध्या ऋषिः प्रोवाच पाण्डवम् ||
१ ख
वैशम्पाय़न उवाच:
मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मर |
२ क
वैशम्पाय़न उवाच:
स्वधर्मेण हता ह्येते क्षत्रिय़ाः क्षत्रिय़र्षभ ||
२ ख
वैशम्पाय़न उवाच:
काङ्क्षमाणाः श्रिय़ं कृत्स्नां पृथिव्यां च महद्यशः |
३ क
वैशम्पाय़न उवाच:
कृतान्तविधिसंय़ुक्ताः कालेन निधनं गताः ||
३ ख
वैशम्पाय़न उवाच:
न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि |
४ क
वैशम्पाय़न उवाच:
कालः पर्याय़धर्मेण प्राणानादत्त देहिनाम् ||
४ ख
वैशम्पाय़न उवाच:
न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन |
५ क
वैशम्पाय़न उवाच:
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ||
५ ख
वैशम्पाय़न उवाच:
हेतुमात्रमिदं तस्य कालस्य पुरुषर्षभ |
६ क
वैशम्पाय़न उवाच:
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् ||
६ ख
वैशम्पाय़न उवाच:
कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापय़ोः |
७ क
वैशम्पाय़न उवाच:
सुखदुःखगुणोदर्कं कालं कालफलप्रदम् ||
७ ख
वैशम्पाय़न उवाच:
तेषामपि महावाहो कर्माणि परिचिन्तय़ |
८ क
वैशम्पाय़न उवाच:
विनाशहेतुकारित्वे यैस्ते कालवशं गताः ||
८ ख
वैशम्पाय़न उवाच:
आत्मनश्च विजानीहि निय़मव्रतशीलताम् |
९ क
वैशम्पाय़न उवाच:
यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः ||
९ ख
वैशम्पाय़न उवाच:
त्वष्ट्रेव विहितं यन्त्रं यथा स्थापय़ितुर्वशे |
१० क
वैशम्पाय़न उवाच:
कर्मणा कालय़ुक्तेन तथेदं भ्राम्यते जगत् ||
१० ख
वैशम्पाय़न उवाच:
पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः |
११ क
वैशम्पाय़न उवाच:
यदृच्छय़ा विनाशं च शोकहर्षावनर्थकौ ||
११ ख
वैशम्पाय़न उवाच:
व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव |
१२ क
वैशम्पाय़न उवाच:
तदर्थमिष्यते राजन्प्राय़श्चित्तं तदाचर ||
१२ ख
वैशम्पाय़न उवाच:
इदं च श्रूय़ते पार्थ युद्धे देवासुरे पुरा |
१३ क
वैशम्पाय़न उवाच:
असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीय़सः ||
१३ ख
वैशम्पाय़न उवाच:
तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रय़ः |
१४ क
वैशम्पाय़न उवाच:
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल ||
१४ ख
वैशम्पाय़न उवाच:
एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् |
१५ क
वैशम्पाय़न उवाच:
जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे ||
१५ ख
वैशम्पाय़न उवाच:
तथैव पृथिवीं लव्ध्वा व्राह्मणा वेदपारगाः |
१६ क
वैशम्पाय़न उवाच:
संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः ||
१६ ख
वैशम्पाय़न उवाच:
शालावृका इति ख्यातास्त्रिषु लोकेषु भारत |
१७ क
वैशम्पाय़न उवाच:
अष्टाशीतिसहस्राणि ते चापि विवुधैर्हताः ||
१७ ख
वैशम्पाय़न उवाच:
धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः |
१८ क
वैशम्पाय़न उवाच:
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्वणाः ||
१८ ख
वैशम्पाय़न उवाच:
एकं हत्वा यदि कुले शिष्टानां स्यादनामय़म् |
१९ क
वैशम्पाय़न उवाच:
कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम् ||
१९ ख
वैशम्पाय़न उवाच:
अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप |
२० क
वैशम्पाय़न उवाच:
धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेय़ं विपश्चिता ||
२० ख
वैशम्पाय़न उवाच:
तस्मात्संस्तम्भय़ात्मानं श्रुतवानसि पाण्डव |
२१ क
वैशम्पाय़न उवाच:
देवैः पूर्वगतं मार्गमनुय़ातोऽसि भारत ||
२१ ख
वैशम्पाय़न उवाच:
न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ |
२२ क
वैशम्पाय़न उवाच:
भ्रातॄनाश्वासय़ैतांस्त्वं सुहृदश्च परन्तप ||
२२ ख
वैशम्पाय़न उवाच:
यो हि पापसमारम्भे कार्ये तद्भावभावितः |
२३ क
वैशम्पाय़न उवाच:
कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः ||
२३ ख
वैशम्पाय़न उवाच:
तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शव्दितम् |
२४ क
वैशम्पाय़न उवाच:
प्राय़श्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः ||
२४ ख
वैशम्पाय़न उवाच:
त्वं तु शुक्लाभिजातीय़ः परदोषेण कारितः |
२५ क
वैशम्पाय़न उवाच:
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे ||
२५ ख
वैशम्पाय़न उवाच:
अश्वमेधो महाय़ज्ञः प्राय़श्चित्तमुदाहृतम् |
२६ क
वैशम्पाय़न उवाच:
तमाहर महाराज विपाप्मैवं भविष्यसि ||
२६ ख
वैशम्पाय़न उवाच:
मरुद्भिः सह जित्वारीन्मघवान्पाकशासनः |
२७ क
वैशम्पाय़न उवाच:
एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः ||
२७ ख
वैशम्पाय़न उवाच:
पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदय़ान् |
२८ क
वैशम्पाय़न उवाच:
मरुद्गणवृतः शक्रः शुशुभे भासय़न्दिशः ||
२८ ख
वैशम्पाय़न उवाच:
स्वर्गलोके महीय़न्तमप्सरोभिः शचीपतिम् |
२९ क
वैशम्पाय़न उवाच:
ऋषय़ः पर्युपासन्ते देवाश्च विवुधेश्वरम् ||
२९ ख
वैशम्पाय़न उवाच:
सोऽय़ं त्वमिह सङ्क्रान्तो विक्रमेण वसुन्धराम् |
३० क
वैशम्पाय़न उवाच:
निर्जिताश्च महीपाला विक्रमेण त्वय़ानघ ||
३० ख
वैशम्पाय़न उवाच:
तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः |
३१ क
वैशम्पाय़न उवाच:
भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय़ ||
३१ ख
वैशम्पाय़न उवाच:
वालानपि च गर्भस्थान्सान्त्वानि समुदाचरन् |
३२ क
वैशम्पाय़न उवाच:
रञ्जय़न्प्रकृतीः सर्वाः परिपाहि वसुन्धराम् ||
३२ ख
वैशम्पाय़न उवाच:
कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय़ |
३३ क
वैशम्पाय़न उवाच:
कामाशय़ो हि स्त्रीवर्गः शोकमेवं प्रहास्यति ||
३३ ख
वैशम्पाय़न उवाच:
एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत |
३४ क
वैशम्पाय़न उवाच:
यजस्व वाजिमेधेन यथेन्द्रो विजय़ी पुरा ||
३४ ख
वैशम्पाय़न उवाच:
अशोच्यास्ते महात्मानः क्षत्रिय़ाः क्षत्रिय़र्षभ |
३५ क
वैशम्पाय़न उवाच:
स्वकर्मभिर्गता नाशं कृतान्तवलमोहिताः ||
३५ ख
वैशम्पाय़न उवाच:
अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकल्मषम् |
३६ क
वैशम्पाय़न उवाच:
चरस्व धर्मं कौन्तेय़ श्रेय़ान्यः प्रेत्य भाविकः ||
३६ ख