chevron_left आश्रमवासिक पर्व अध्याय ३४
वैशम्पाय़न उवाच:
एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् |
१ क
वैशम्पाय़न उवाच:
शिवा नक्षत्रसम्पन्ना सा व्यतीय़ाय़ भारत ||
१ ख
वैशम्पाय़न उवाच:
तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः |
२ क
वैशम्पाय़न उवाच:
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः ||
२ ख
वैशम्पाय़न उवाच:
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा |
३ क
वैशम्पाय़न उवाच:
उत्सृज्य सुमहार्हाणि शय़नानि नराधिप ||
३ ख
वैशम्पाय़न उवाच:
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः |
४ क
वैशम्पाय़न उवाच:
तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ||
४ ख
वैशम्पाय़न उवाच:
व्यतीताय़ां तु शर्वर्यां कृतपूर्वाह्णिकक्रिय़ः |
५ क
वैशम्पाय़न उवाच:
भ्रातृभिः सह कौन्तेय़ो ददर्शाश्रममण्डलम् ||
५ ख
वैशम्पाय़न उवाच:
सान्तःपुरपरीवारः सभृत्यः सपुरोहितः |
६ क
वैशम्पाय़न उवाच:
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञय़ा ||
६ ख
वैशम्पाय़न उवाच:
ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः |
७ क
वैशम्पाय़न उवाच:
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ||
७ ख
वैशम्पाय़न उवाच:
वानेय़पुष्पनिकरैराज्यधूमोद्गमैरपि |
८ क
वैशम्पाय़न उवाच:
व्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ||
८ ख
वैशम्पाय़न उवाच:
मृगय़ूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः |
९ क
वैशम्पाय़न उवाच:
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ||
९ ख
वैशम्पाय़न उवाच:
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः |
१० क
वैशम्पाय़न उवाच:
कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ||
१० ख
वैशम्पाय़न उवाच:
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम् |
११ क
वैशम्पाय़न उवाच:
फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् ||
११ ख
वैशम्पाय़न उवाच:
ततः स राजा प्रददौ तापसार्थमुपाहृतान् |
१२ क
वैशम्पाय़न उवाच:
कलशान्काञ्चनान्राजंस्तथैवौदुम्वरानपि ||
१२ ख
वैशम्पाय़न उवाच:
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः |
१३ क
वैशम्पाय़न उवाच:
कमण्डलूंस्तथा स्थालीः पिठराणि च भारत ||
१३ ख
वैशम्पाय़न उवाच:
भाजनानि च लौहानि पात्रीश्च विविधा नृप |
१४ क
वैशम्पाय़न उवाच:
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ||
१४ ख
वैशम्पाय़न उवाच:
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् |
१५ क
वैशम्पाय़न उवाच:
वसु विश्राण्य तत्सर्वं पुनराय़ान्महीपतिः ||
१५ ख
वैशम्पाय़न उवाच:
कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् |
१६ क
वैशम्पाय़न उवाच:
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ||
१६ ख
वैशम्पाय़न उवाच:
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् |
१७ क
वैशम्पाय़न उवाच:
कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ||
१७ ख
वैशम्पाय़न उवाच:
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः |
१८ क
वैशम्पाय़न उवाच:
निषीदेत्यभ्यनुज्ञातो वृस्यामुपविवेश ह ||
१८ ख
वैशम्पाय़न उवाच:
भीमसेनादय़श्चैव पाण्डवाः कौरवर्षभम् |
१९ क
वैशम्पाय़न उवाच:
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञय़ा ||
१९ ख
वैशम्पाय़न उवाच:
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः |
२० क
वैशम्पाय़न उवाच:
विभ्रद्व्राह्मीं श्रिय़ं दीप्तां देवैरिव वृहस्पतिः ||
२० ख
वैशम्पाय़न उवाच:
तथा तेषूपविष्टेषु समाजग्मुर्महर्षय़ः |
२१ क
वैशम्पाय़न उवाच:
शतय़ूपप्रभृतय़ः कुरुक्षेत्रनिवासिनः ||
२१ ख
वैशम्पाय़न उवाच:
व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः |
२२ क
वैशम्पाय़न उवाच:
वृतः शिष्यैर्महातेजा दर्शय़ामास तं नृपम् ||
२२ ख
वैशम्पाय़न उवाच:
ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् |
२३ क
वैशम्पाय़न उवाच:
भीमसेनादय़श्चैव समुत्थाय़ाभ्यपूजय़न् ||
२३ ख
वैशम्पाय़न उवाच:
समागतस्ततो व्यासः शतय़ूपादिभिर्वृतः |
२४ क
वैशम्पाय़न उवाच:
धृतराष्ट्रं महीपालमास्यतामित्यभाषत ||
२४ ख
वैशम्पाय़न उवाच:
नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् |
२५ क
वैशम्पाय़न उवाच:
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ||
२५ ख
वैशम्पाय़न उवाच:
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः |
२६ क
वैशम्पाय़न उवाच:
द्वैपाय़नाभ्यनुज्ञाता निषेदुर्विपुलौजसः ||
२६ ख