शिशुपाल उवाच:
नाय़मर्हति वार्ष्णेय़स्तिष्ठत्स्विह महात्मसु |
१ क
शिशुपाल उवाच:
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ||
१ ख
शिशुपाल उवाच:
नाय़ं युक्तः समाचारः पाण्डवेषु महात्मसु |
२ क
शिशुपाल उवाच:
यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि ||
२ ख
शिशुपाल उवाच:
वाला यूय़ं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः |
३ क
शिशुपाल उवाच:
अय़ं तत्राभ्यतिक्रान्त आपगेय़ोऽल्पदर्शनः ||
३ ख
शिशुपाल उवाच:
त्वादृशो धर्मय़ुक्तो हि कुर्वाणः प्रिय़काम्यया |
४ क
शिशुपाल उवाच:
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ||
४ ख
शिशुपाल उवाच:
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् |
५ क
शिशुपाल उवाच:
अर्हणामर्हति तथा यथा युष्माभिरर्चितः ||
५ ख
शिशुपाल उवाच:
अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ |
६ क
शिशुपाल उवाच:
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ||
६ ख
शिशुपाल उवाच:
अथ वा वासुदेवोऽपि प्रिय़कामोऽनुवृत्तवान् |
७ क
शिशुपाल उवाच:
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ||
७ ख
शिशुपाल उवाच:
आचार्यं मन्यसे कृष्णमथ वा कुरुपुङ्गव |
८ क
शिशुपाल उवाच:
द्रोणे तिष्ठति वार्ष्णेय़ं कस्मादर्चितवानसि ||
८ ख
शिशुपाल उवाच:
ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन |
९ क
शिशुपाल उवाच:
द्वैपाय़ने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वय़ा ||
९ ख
शिशुपाल उवाच:
नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः |
१० क
शिशुपाल उवाच:
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रिय़काम्यया ||
१० ख
शिशुपाल उवाच:
अथ वाप्यर्चनीय़ोऽय़ं युष्माकं मधुसूदनः |
११ क
शिशुपाल उवाच:
किं राजभिरिहानीतैरवमानाय़ भारत ||
११ ख
शिशुपाल उवाच:
वय़ं तु न भय़ादस्य कौन्तेय़स्य महात्मनः |
१२ क
शिशुपाल उवाच:
प्रय़च्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ||
१२ ख
शिशुपाल उवाच:
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः |
१३ क
शिशुपाल उवाच:
करानस्मै प्रय़च्छामः सोऽय़मस्मान्न मन्यते ||
१३ ख
शिशुपाल उवाच:
किमन्यदवमानाद्धि यदिमं राजसंसदि |
१४ क
शिशुपाल उवाच:
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ||
१४ ख
शिशुपाल उवाच:
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् |
१५ क
शिशुपाल उवाच:
को हि धर्मच्युते पूजामेवं युक्तां प्रय़ोजय़ेत् |
१५ ख
शिशुपाल उवाच:
योऽय़ं वृष्णिकुले जातो राजानं हतवान्पुरा ||
१५ ग
शिशुपाल उवाच:
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् |
१६ क
शिशुपाल उवाच:
कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् ||
१६ ख
शिशुपाल उवाच:
यदि भीताश्च कौन्तेय़ाः कृपणाश्च तपस्विनः |
१७ क
शिशुपाल उवाच:
ननु त्वय़ापि वोद्धव्यं यां पूजां माधवोऽर्हति ||
१७ ख
शिशुपाल उवाच:
अथ वा कृपणैरेतामुपनीतां जनार्दन |
१८ क
शिशुपाल उवाच:
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ||
१८ ख
शिशुपाल उवाच:
अय़ुक्तामात्मनः पूजां त्वं पुनर्वहु मन्यसे |
१९ क
शिशुपाल उवाच:
हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने ||
१९ ख
शिशुपाल उवाच:
न त्वय़ं पार्थिवेन्द्राणामवमानः प्रय़ुज्यते |
२० क
शिशुपाल उवाच:
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ||
२० ख
शिशुपाल उवाच:
क्लीवे दारक्रिय़ा यादृगन्धे वा रूपदर्शनम् |
२१ क
शिशुपाल उवाच:
अराज्ञो राजवत्पूजा तथा ते मधुसूदन ||
२१ ख
शिशुपाल उवाच:
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः |
२२ क
शिशुपाल उवाच:
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ||
२२ ख
शिशुपाल उवाच:
इत्युक्त्वा शिशुपालस्तानुत्थाय़ परमासनात् |
२३ क
शिशुपाल उवाच:
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ||
२३ ख