वैशम्पाय़न उवाच:
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः |
१ क
वैशम्पाय़न उवाच:
निःश्वसन्नुपसङ्गम्य क्रुद्धो राजानमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् |
२ क
वैशम्पाय़न उवाच:
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ||
२ ख
वैशम्पाय़न उवाच:
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा |
३ क
वैशम्पाय़न उवाच:
अक्षकूटमधिष्ठाय़ हृतं दुर्योधनेन नः ||
३ ख
वैशम्पाय़न उवाच:
गोमाय़ुनेव सिंहानां दुर्वलेन वलीय़साम् |
४ क
वैशम्पाय़न उवाच:
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ||
४ ख
वैशम्पाय़न उवाच:
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामय़ोः |
५ क
वैशम्पाय़न उवाच:
अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ||
५ ख
वैशम्पाय़न उवाच:
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् |
६ क
वैशम्पाय़न उवाच:
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ||
६ ख
वैशम्पाय़न उवाच:
कुणीनामिव विल्वानि पङ्गूनामिव धेनवः |
७ क
वैशम्पाय़न उवाच:
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ||
७ ख
वैशम्पाय़न उवाच:
भवतः प्रिय़मित्येवं महद्व्यसनमीदृशम् |
८ क
वैशम्पाय़न उवाच:
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ||
८ ख
वैशम्पाय़न उवाच:
कर्शय़ामः स्वमित्राणि नन्दय़ामश्च शात्रवान् |
९ क
वैशम्पाय़न उवाच:
आत्मानं भवतः शास्त्रे निय़म्य भरतर्षभ ||
९ ख
वैशम्पाय़न उवाच:
यद्वय़ं न तदैवैतान्धार्तराष्ट्रान्निहन्महि |
१० क
वैशम्पाय़न उवाच:
भवतः शास्त्रमादाय़ तन्नस्तपति दुष्कृतम् ||
१० ख
वैशम्पाय़न उवाच:
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः |
११ क
वैशम्पाय़न उवाच:
अवीराचरितां राजन्न वलस्थैर्निषेविताम् ||
११ ख
वैशम्पाय़न उवाच:
यां न कृष्णो न वीभत्सुर्नाभिमन्युर्न सृञ्जय़ः |
१२ क
वैशम्पाय़न उवाच:
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ||
१२ ख
वैशम्पाय़न उवाच:
भवान्धर्मो धर्म इति सततं व्रतकर्शितः |
१३ क
वैशम्पाय़न उवाच:
कच्चिद्राजन्न निर्वेदादापन्नः क्लीवजीविकाम् ||
१३ ख
वैशम्पाय़न उवाच:
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् |
१४ क
वैशम्पाय़न उवाच:
अशक्ताः श्रिय़माहर्तुमात्मनः कुर्वते प्रिय़म् ||
१४ ख
वैशम्पाय़न उवाच:
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् |
१५ क
वैशम्पाय़न उवाच:
आनृशंस्यपरो राजन्नानर्थमववुध्यसे ||
१५ ख
वैशम्पाय़न उवाच:
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः |
१६ क
वैशम्पाय़न उवाच:
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ||
१६ ख
वैशम्पाय़न उवाच:
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् |
१७ क
वैशम्पाय़न उवाच:
सर्वशो हि वधः श्रेय़ान्प्रेत्य लोकाँल्लभेमहि ||
१७ ख
वैशम्पाय़न उवाच:
अथ वा वय़मेवैतान्निहत्य भरतर्षभ |
१८ क
वैशम्पाय़न उवाच:
आददीमहि गां सर्वां तथापि श्रेय़ एव नः ||
१८ ख
वैशम्पाय़न उवाच:
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् |
१९ क
वैशम्पाय़न उवाच:
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ||
१९ ख
वैशम्पाय़न उवाच:
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे |
२० क
वैशम्पाय़न उवाच:
अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ||
२० ख
वैशम्पाय़न उवाच:
कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा |
२१ क
वैशम्पाय़न उवाच:
व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ||
२१ ख
वैशम्पाय़न उवाच:
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्वलम् |
२२ क
वैशम्पाय़न उवाच:
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ||
२२ ख
वैशम्पाय़न उवाच:
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः |
२३ क
वैशम्पाय़न उवाच:
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ||
२३ ख
वैशम्पाय़न उवाच:
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः |
२४ क
वैशम्पाय़न उवाच:
रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ||
२४ ख
वैशम्पाय़न उवाच:
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति |
२५ क
वैशम्पाय़न उवाच:
स वध्यः सर्वभूतानां व्रह्महेव जुगुप्सितः ||
२५ ख
वैशम्पाय़न उवाच:
सततं यश्च कामार्थी नेतरावनुतिष्ठति |
२६ क
वैशम्पाय़न उवाच:
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीय़ते ||
२६ ख
वैशम्पाय़न उवाच:
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् |
२७ क
वैशम्पाय़न उवाच:
कामतो रममाणस्य मीनस्येवाम्भसः क्षय़े ||
२७ ख
वैशम्पाय़न उवाच:
तस्माद्धर्मार्थय़ोर्नित्यं न प्रमाद्यन्ति पण्डिताः |
२८ क
वैशम्पाय़न उवाच:
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ||
२८ ख
वैशम्पाय़न उवाच:
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः |
२९ क
वैशम्पाय़न उवाच:
इतरेतरय़ोनी तौ विद्धि मेघोदधी यथा ||
२९ ख
वैशम्पाय़न उवाच:
द्रव्यार्थस्पर्शसंय़ोगे या प्रीतिरुपजाय़ते |
३० क
वैशम्पाय़न उवाच:
स कामश्चित्तसङ्कल्पः शरीरं नास्य विद्यते ||
३० ख
वैशम्पाय़न उवाच:
अर्थार्थी पुरुषो राजन्वृहन्तं धर्ममृच्छति |
३१ क
वैशम्पाय़न उवाच:
अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ||
३१ ख
वैशम्पाय़न उवाच:
न हि कामेन कामोऽन्यः साध्यते फलमेव तत् |
३२ क
वैशम्पाय़न उवाच:
उपय़ोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ||
३२ ख
वैशम्पाय़न उवाच:
इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा |
३३ क
वैशम्पाय़न उवाच:
एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ||
३३ ख
वैशम्पाय़न उवाच:
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति |
३४ क
वैशम्पाय़न उवाच:
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ||
३४ ख
वैशम्पाय़न उवाच:
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः |
३५ क
वैशम्पाय़न उवाच:
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूय़सीम् ||
३५ ख
वैशम्पाय़न उवाच:
तस्य नाशं विनाशं वा जरय़ा मरणेन वा |
३६ क
वैशम्पाय़न उवाच:
अनर्थमिति मन्यन्ते सोऽय़मस्मासु वर्तते ||
३६ ख
वैशम्पाय़न उवाच:
इन्द्रिय़ाणां च पञ्चानां मनसो हृदय़स्य च |
३७ क
वैशम्पाय़न उवाच:
विषय़े वर्तमानानां या प्रीतिरुपजाय़ते |
३७ ख
वैशम्पाय़न उवाच:
स काम इति मे वुद्धिः कर्मणां फलमुत्तमम् ||
३७ ग
वैशम्पाय़न उवाच:
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च |
३८ क
वैशम्पाय़न उवाच:
न धर्मपर एव स्यान्न चार्थपरमो नरः |
३८ ख
वैशम्पाय़न उवाच:
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ||
३८ ग
वैशम्पाय़न उवाच:
धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् |
३९ क
वैशम्पाय़न उवाच:
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ||
३९ ख
वैशम्पाय़न उवाच:
कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् |
४० क
वैशम्पाय़न उवाच:
वय़स्यनुचरेदेवमेष शास्त्रकृतो विधिः ||
४० ख
वैशम्पाय़न उवाच:
धर्मं चार्थं च कामं च यथावद्वदतां वर |
४१ क
वैशम्पाय़न उवाच:
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ||
४१ ख
वैशम्पाय़न उवाच:
मोक्षो वा परमं श्रेय़ एष राजन्सुखार्थिनाम् |
४२ क
वैशम्पाय़न उवाच:
प्राप्तिर्वा वुद्धिमास्थाय़ सोपाय़ं कुरुनन्दन ||
४२ ख
वैशम्पाय़न उवाच:
तद्वाशु क्रिय़तां राजन्प्राप्तिर्वाप्यधिगम्यताम् |
४३ क
वैशम्पाय़न उवाच:
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ||
४३ ख
वैशम्पाय़न उवाच:
विदितश्चैव ते धर्मः सततं चरितश्च ते |
४४ क
वैशम्पाय़न उवाच:
जानते त्वय़ि शंसन्ति सुहृदः कर्मचोदनाम् ||
४४ ख
वैशम्पाय़न उवाच:
दानं यज्ञः सतां पूजा वेदधारणमार्जवम् |
४५ क
वैशम्पाय़न उवाच:
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ||
४५ ख
वैशम्पाय़न उवाच:
एष नार्थविहीनेन शक्यो राजन्निषेवितुम् |
४६ क
वैशम्पाय़न उवाच:
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ||
४६ ख
वैशम्पाय़न उवाच:
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते |
४७ क
वैशम्पाय़न उवाच:
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ||
४७ ख
वैशम्पाय़न उवाच:
न चार्थो भैक्षचर्येण नापि क्लैव्येन कर्हिचित् |
४८ क
वैशम्पाय़न उवाच:
वेत्तुं शक्यः सदा राजन्केवलं धर्मवुद्धिना ||
४८ ख
वैशम्पाय़न उवाच:
प्रतिषिद्धा हि ते याच्ञा यय़ा सिध्यति वै द्विजः |
४९ क
वैशम्पाय़न उवाच:
तेजसैवार्थलिप्साय़ां यतस्व पुरुषर्षभ ||
४९ ख