chevron_left विराट पर्व अध्याय ३४
उत्तर उवाच:
अद्याहमनुगच्छेय़ं दृढधन्वा गवां पदम् |
१ क
उत्तर उवाच:
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ||
१ ख
उत्तर उवाच:
तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः |
२ क
उत्तर उवाच:
पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रय़ास्यतः ||
२ ख
उत्तर उवाच:
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः |
३ क
उत्तर उवाच:
यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ||
३ ख
उत्तर उवाच:
स लभेय़ं यदि त्वन्यं हय़यानविदं नरम् |
४ क
उत्तर उवाच:
त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् ||
४ ख
उत्तर उवाच:
विगाह्य तत्परानीकं गजवाजिरथाकुलम् |
५ क
उत्तर उवाच:
शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानय़े पशून् ||
५ ख
उत्तर उवाच:
दुर्योधनं शान्तनवं कर्णं वैकर्तनं कृपम् |
६ क
उत्तर उवाच:
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ||
६ ख
उत्तर उवाच:
वित्रासय़ित्वा सङ्ग्रामे दानवानिव वज्रभृत् |
७ क
उत्तर उवाच:
अनेनैव मुहूर्तेन पुनः प्रत्यानय़े पशून् ||
७ ख
उत्तर उवाच:
शून्यमासाद्य कुरवः प्रय़ान्त्यादाय़ गोधनम् |
८ क
उत्तर उवाच:
किं नु शक्यं मय़ा कर्तुं यदहं तत्र नाभवम् ||
८ ख
उत्तर उवाच:
पश्येय़ुरद्य मे वीर्यं कुरवस्ते समागताः |
९ क
उत्तर उवाच:
किं नु पार्थोऽर्जुनः साक्षादय़मस्मान्प्रवाधते ||
९ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः |
१० क
वैशम्पाय़न उवाच:
नामर्षय़त पाञ्चाली वीभत्सोः परिकीर्तनम् ||
१० ख
वैशम्पाय़न उवाच:
अथैनमुपसङ्गम्य स्त्रीमध्यात्सा तपस्विनी |
११ क
वैशम्पाय़न उवाच:
व्रीडमानेव शनकैरिदं वचनमव्रवीत् ||
११ ख
वैशम्पाय़न उवाच:
योऽसौ वृहद्वारणाभो युवा सुप्रिय़दर्शनः |
१२ क
वैशम्पाय़न उवाच:
वृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः ||
१२ ख
वैशम्पाय़न उवाच:
धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः |
१३ क
वैशम्पाय़न उवाच:
दृष्टपूर्वो मय़ा वीर चरन्त्या पाण्डवान्प्रति ||
१३ ख
वैशम्पाय़न उवाच:
यदा तत्पावको दावमदहत्खाण्डवं महत् |
१४ क
वैशम्पाय़न उवाच:
अर्जुनस्य तदानेन सङ्गृहीता हय़ोत्तमाः ||
१४ ख
वैशम्पाय़न उवाच:
तेन सारथिना पार्थः सर्वभूतानि सर्वशः |
१५ क
वैशम्पाय़न उवाच:
अजय़त्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः ||
१५ ख
वैशम्पाय़न उवाच:
येय़ं कुमारी सुश्रोणी भगिनी ते यवीय़सी |
१६ क
वैशम्पाय़न उवाच:
अस्याः स वचनं वीर करिष्यति न संशय़ः ||
१६ ख
वैशम्पाय़न उवाच:
यदि वै सारथिः स स्यात्कुरून्सर्वानसंशय़म् |
१७ क
वैशम्पाय़न उवाच:
जित्वा गाश्च समादाय़ ध्रुवमागमनं भवेत् ||
१७ ख
वैशम्पाय़न उवाच:
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत |
१८ क
वैशम्पाय़न उवाच:
गच्छ त्वमनवद्याङ्गि तामानय़ वृहन्नडाम् ||
१८ ख
वैशम्पाय़न उवाच:
सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् |
१९ क
वैशम्पाय़न उवाच:
यत्रास्ते स महावाहुश्छन्नः सत्रेण पाण्डवः ||
१९ ख