धृतराष्ट्र उवाच:
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि |
१ क
धृतराष्ट्र उवाच:
तद्व्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ||
१ ख
धृतराष्ट्र उवाच:
त्वं मां यथावद्विदुर प्रशाधि; प्रज्ञापूर्वं सर्वमजातशत्रोः |
२ क
धृतराष्ट्र उवाच:
यन्मन्यसे पथ्यमदीनसत्त्व; श्रेय़स्करं व्रूहि तद्वै कुरूणाम् ||
२ ख
धृतराष्ट्र उवाच:
पापाशङ्की पापमेवानुपश्य; न्पृच्छामि त्वां व्याकुलेनात्मनाहम् |
३ क
धृतराष्ट्र उवाच:
कवे तन्मे व्रूहि सर्वं यथाव; न्मनीषितं सर्वमजातशत्रोः ||
३ ख
विदुर उवाच:
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रिय़म् |
४ क
विदुर उवाच:
अपृष्टस्तस्य तद्व्रूय़ाद्यस्य नेच्छेत्पराभवम् ||
४ ख
विदुर उवाच:
तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति |
५ क
विदुर उवाच:
वचः श्रेय़स्करं धर्म्यं व्रुवतस्तन्निवोध मे ||
५ ख
विदुर उवाच:
मिथ्योपेतानि कर्माणि सिध्येय़ुर्यानि भारत |
६ क
विदुर उवाच:
अनुपाय़प्रय़ुक्तानि मा स्म तेषु मनः कृथाः ||
६ ख
विदुर उवाच:
तथैव योगविहितं न सिध्येत्कर्म यन्नृप |
७ क
विदुर उवाच:
उपाय़युक्तं मेधावी न तत्र ग्लपय़ेन्मनः ||
७ ख
विदुर उवाच:
अनुवन्धानवेक्षेत सानुवन्धेषु कर्मसु |
८ क
विदुर उवाच:
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ||
८ ख
विदुर उवाच:
अनुवन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् |
९ क
विदुर उवाच:
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ||
९ ख
विदुर उवाच:
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षय़े |
१० क
विदुर उवाच:
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ||
१० ख
विदुर उवाच:
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति |
११ क
विदुर उवाच:
युक्तो धर्मार्थय़ोर्ज्ञाने स राज्यमधिगच्छति ||
११ ख
विदुर उवाच:
न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् |
१२ क
विदुर उवाच:
श्रिय़ं ह्यविनय़ो हन्ति जरा रूपमिवोत्तमम् ||
१२ ख
विदुर उवाच:
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो वडिशमाय़सम् |
१३ क
विदुर उवाच:
रूपाभिपाती ग्रसते नानुवन्धमवेक्षते ||
१३ ख
विदुर उवाच:
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् |
१४ क
विदुर उवाच:
हितं च परिणामे यत्तदद्यं भूतिमिच्छता ||
१४ ख
विदुर उवाच:
वनस्पतेरपक्वानि फलानि प्रचिनोति यः |
१५ क
विदुर उवाच:
स नाप्नोति रसं तेभ्यो वीजं चास्य विनश्यति ||
१५ ख
विदुर उवाच:
यस्तु पक्वमुपादत्ते काले परिणतं फलम् |
१६ क
विदुर उवाच:
फलाद्रसं स लभते वीजाच्चैव फलं पुनः ||
१६ ख
विदुर उवाच:
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः |
१७ क
विदुर उवाच:
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसय़ा ||
१७ ख
विदुर उवाच:
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारय़ेत् |
१८ क
विदुर उवाच:
मालाकार इवारामे न यथाङ्गारकारकः ||
१८ ख
विदुर उवाच:
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः |
१९ क
विदुर उवाच:
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ||
१९ ख
विदुर उवाच:
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः |
२० क
विदुर उवाच:
कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ||
२० ख
विदुर उवाच:
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् |
२१ क
विदुर उवाच:
क्षिप्रमारभते कर्तुं न विघ्नय़ति तादृशान् ||
२१ ख
विदुर उवाच:
ऋजु पश्यति यः सर्वं चक्षुषानुपिवन्निव |
२२ क
विदुर उवाच:
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ||
२२ ख
विदुर उवाच:
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् |
२३ क
विदुर उवाच:
प्रसादय़ति लोकं यः तं लोकोऽनुप्रसीदति ||
२३ ख
विदुर उवाच:
यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव |
२४ क
विदुर उवाच:
सागरान्तामपि महीं लव्ध्वा स परिहीय़ते ||
२४ ख
विदुर उवाच:
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा |
२५ क
विदुर उवाच:
वाय़ुरभ्रमिवासाद्य भ्रंशय़त्यनय़े स्थितः ||
२५ ख
विदुर उवाच:
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः |
२६ क
विदुर उवाच:
वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी ||
२६ ख
विदुर उवाच:
अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः |
२७ क
विदुर उवाच:
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ||
२७ ख
विदुर उवाच:
य एव यत्नः क्रिय़ते परराष्ट्रावमर्दने |
२८ क
विदुर उवाच:
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ||
२८ ख
विदुर उवाच:
धर्मेण राज्यं विन्देत धर्मेण परिपालय़ेत् |
२९ क
विदुर उवाच:
धर्ममूलां श्रिय़ं प्राप्य न जहाति न हीय़ते ||
२९ ख
विदुर उवाच:
अप्युन्मत्तात्प्रलपतो वालाच्च परिसर्पतः |
३० क
विदुर उवाच:
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ||
३० ख
विदुर उवाच:
सुव्याहृतानि सुधिय़ां सुकृतानि ततस्ततः |
३१ क
विदुर उवाच:
सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा ||
३१ ख
विदुर उवाच:
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति व्राह्मणाः |
३२ क
विदुर उवाच:
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ||
३२ ख
विदुर उवाच:
भूय़ांसं लभते क्लेशं या गौर्भवति दुर्दुहा |
३३ क
विदुर उवाच:
अथ या सुदुहा राजन्नैव तां विनय़न्त्यपि ||
३३ ख
विदुर उवाच:
यदतप्तं प्रणमति न तत्सन्तापय़न्त्यपि |
३४ क
विदुर उवाच:
यच्च स्वय़ं नतं दारु न तत्संनामय़न्त्यपि ||
३४ ख
विदुर उवाच:
एतय़ोपमय़ा धीरः संनमेत वलीय़से |
३५ क
विदुर उवाच:
इन्द्राय़ स प्रणमते नमते यो वलीय़से ||
३५ ख
विदुर उवाच:
पर्जन्यनाथाः पशवो राजानो मित्रवान्धवाः |
३६ क
विदुर उवाच:
पतय़ो वान्धवाः स्त्रीणां व्राह्मणा वेदवान्धवाः ||
३६ ख
विदुर उवाच:
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते |
३७ क
विदुर उवाच:
मृजय़ा रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ||
३७ ख
विदुर उवाच:
मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः |
३८ क
विदुर उवाच:
अभीक्ष्णदर्शनाद्गावः स्त्रिय़ो रक्ष्याः कुचेलतः ||
३८ ख
विदुर उवाच:
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः |
३९ क
विदुर उवाच:
अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ||
३९ ख
विदुर उवाच:
य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वय़े |
४० क
विदुर उवाच:
सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ||
४० ख
विदुर उवाच:
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् |
४१ क
विदुर उवाच:
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिवेत् ||
४१ ख
विदुर उवाच:
विद्यामदो धनमदस्तृतीय़ोऽभिजनो मदः |
४२ क
विदुर उवाच:
एते मदावलिप्तानामेत एव सतां दमाः ||
४२ ख
विदुर उवाच:
असन्तोऽभ्यर्थिताः सद्भिः किञ्चित्कार्यं कदाचन |
४३ क
विदुर उवाच:
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ||
४३ ख
विदुर उवाच:
गतिरात्मवतां सन्तः सन्त एव सतां गतिः |
४४ क
विदुर उवाच:
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ||
४४ ख
विदुर उवाच:
जिता सभा वस्त्रवता समाशा गोमता जिता |
४५ क
विदुर उवाच:
अध्वा जितो यानवता सर्वं शीलवता जितम् ||
४५ ख
विदुर उवाच:
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति |
४६ क
विदुर उवाच:
न तस्य जीवितेनार्थो न धनेन न वन्धुभिः ||
४६ ख
विदुर उवाच:
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् |
४७ क
विदुर उवाच:
लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ||
४७ ख
विदुर उवाच:
सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा |
४८ क
विदुर उवाच:
क्षुत्स्वादुतां जनय़ति सा चाढ्येषु सुदुर्लभा ||
४८ ख
विदुर उवाच:
प्राय़ेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते |
४९ क
विदुर उवाच:
दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ||
४९ ख
विदुर उवाच:
अवृत्तिर्भय़मन्त्यानां मध्यानां मरणाद्भय़म् |
५० क
विदुर उवाच:
उत्तमानां तु मर्त्यानामवमानात्परं भय़म् ||
५० ख