chevron_left भीष्म पर्व अध्याय ३४
अर्जुन उवाच:
एवं सततय़ुक्ता ये भक्तास्त्वां पर्युपासते |
१ क
अर्जुन उवाच:
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||
१ ख
श्रीभगवानु उवाच:
मय़्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
२ क
श्रीभगवानु उवाच:
श्रद्धय़ा परय़ोपेतास्ते मे युक्ततमा मताः ||
२ ख
श्रीभगवानु उवाच:
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
३ क
श्रीभगवानु उवाच:
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ||
३ ख
श्रीभगवानु उवाच:
संनिय़म्येन्द्रिय़ग्रामं सर्वत्र समवुद्धय़ः |
४ क
श्रीभगवानु उवाच:
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||
४ ख
श्रीभगवानु उवाच:
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् |
५ क
श्रीभगवानु उवाच:
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||
५ ख
श्रीभगवानु उवाच:
ये तु सर्वाणि कर्माणि मय़ि संन्यस्य मत्पराः |
६ क
श्रीभगवानु उवाच:
अनन्येनैव योगेन मां ध्याय़न्त उपासते ||
६ ख
श्रीभगवानु उवाच:
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |
७ क
श्रीभगवानु उवाच:
भवामि नचिरात्पार्थ मय़्यावेशितचेतसाम् ||
७ ख
श्रीभगवानु उवाच:
मय़्येव मन आधत्स्व मय़ि वुद्धिं निवेशय़ |
८ क
श्रीभगवानु उवाच:
निवसिष्यसि मय़्येव अत ऊर्ध्वं न संशय़ः ||
८ ख
श्रीभगवानु उवाच:
अथ चित्तं समाधातुं न शक्नोषि मय़ि स्थिरम् |
९ क
श्रीभगवानु उवाच:
अभ्यासय़ोगेन ततो मामिच्छाप्तुं धनञ्जय़ ||
९ ख
श्रीभगवानु उवाच:
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
१० क
श्रीभगवानु उवाच:
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||
१० ख
श्रीभगवानु उवाच:
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |
११ क
श्रीभगवानु उवाच:
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||
११ ख
श्रीभगवानु उवाच:
श्रेय़ो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |
१२ क
श्रीभगवानु उवाच:
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||
१२ ख
श्रीभगवानु उवाच:
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |
१३ क
श्रीभगवानु उवाच:
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||
१३ ख
श्रीभगवानु उवाच:
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चय़ः |
१४ क
श्रीभगवानु उवाच:
मय़्यर्पितमनोवुद्धिर्यो मद्भक्तः स मे प्रिय़ः ||
१४ ख
श्रीभगवानु उवाच:
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
१५ क
श्रीभगवानु उवाच:
हर्षामर्षभय़ोद्वेगैर्मुक्तो यः स च मे प्रिय़ः ||
१५ ख
श्रीभगवानु उवाच:
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |
१६ क
श्रीभगवानु उवाच:
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रिय़ः ||
१६ ख
श्रीभगवानु उवाच:
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |
१७ क
श्रीभगवानु उवाच:
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रिय़ः ||
१७ ख
श्रीभगवानु उवाच:
समः शत्रौ च मित्रे च तथा मानावमानय़ोः |
१८ क
श्रीभगवानु उवाच:
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||
१८ ख
श्रीभगवानु उवाच:
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |
१९ क
श्रीभगवानु उवाच:
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रिय़ो नरः ||
१९ ख
श्रीभगवानु उवाच:
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
२० क
श्रीभगवानु उवाच:
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिय़ाः ||
२० ख