chevron_left वन पर्व अध्याय १६
युधिष्ठिर उवाच:
वासुदेव महावाहो विस्तरेण महामते |
१ क
युधिष्ठिर उवाच:
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः ||
१ ख
वासुदेव उवाच:
हतं श्रुत्वा महावाहो मय़ा श्रौतश्रवं नृपम् |
२ क
वासुदेव उवाच:
उपाय़ाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् ||
२ ख
वासुदेव उवाच:
अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन |
३ क
वासुदेव उवाच:
शाल्वो वैहाय़सं चापि तत्पुरं व्यूह्य विष्ठितः ||
३ ख
वासुदेव उवाच:
तत्रस्थोऽथ महीपालो योधय़ामास तां पुरीम् |
४ क
वासुदेव उवाच:
अभिसारेण सर्वेण तत्र युद्धमवर्तत ||
४ ख
वासुदेव उवाच:
पुरी समन्ताद्विहिता सपताका सतोरणा |
५ क
वासुदेव उवाच:
सचक्रा सहुडा चैव सय़न्त्रखनका तथा ||
५ ख
वासुदेव उवाच:
सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा |
६ क
वासुदेव उवाच:
सकचग्रहणी चैव सोल्कालातावपोथिका ||
६ ख
वासुदेव उवाच:
सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका |
७ क
वासुदेव उवाच:
समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला ||
७ ख
वासुदेव उवाच:
सभुशुण्ड्यश्मलगुडा साय़ुधा सपरश्वधा |
८ क
वासुदेव उवाच:
लोहचर्मवती चापि साग्निः सहुडशृङ्गिका ||
८ ख
वासुदेव उवाच:
शास्त्रदृष्टेन विधिना संय़ुक्ता भरतर्षभ |
९ क
वासुदेव उवाच:
द्रव्यैरनेकैर्विविधैर्गदसाम्वोद्धवादिभिः ||
९ ख
वासुदेव उवाच:
पुरुषैः कुरुशार्दूल समर्थैः प्रतिवाधने |
१० क
वासुदेव उवाच:
अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संय़ुगे ||
१० ख
वासुदेव उवाच:
मध्यमेन च गुल्मेन रक्षिता सारसञ्ज्ञिता |
११ क
वासुदेव उवाच:
उत्क्षिप्तगुल्मैश्च तथा हय़ैश्चैव पदातिभिः ||
११ ख
वासुदेव उवाच:
आघोषितं च नगरे न पातव्या सुरेति ह |
१२ क
वासुदेव उवाच:
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ||
१२ ख
वासुदेव उवाच:
प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः |
१३ क
वासुदेव उवाच:
इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः ||
१३ ख
वासुदेव उवाच:
आनर्ताश्च तथा सर्वे नटनर्तकगाय़नाः |
१४ क
वासुदेव उवाच:
वहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसञ्चय़ान् ||
१४ ख
वासुदेव उवाच:
सङ्क्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः |
१५ क
वासुदेव उवाच:
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ||
१५ ख
वासुदेव उवाच:
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्वरीषकाः |
१६ क
वासुदेव उवाच:
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः ||
१६ ख
वासुदेव उवाच:
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् |
१७ क
वासुदेव उवाच:
प्रकृत्या चाय़ुधोपेतं विशेषेण तदानघ ||
१७ ख
वासुदेव उवाच:
सुरक्षितं सुगुप्तं च सर्वाय़ुधसमन्वितम् |
१८ क
वासुदेव उवाच:
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ||
१८ ख
वासुदेव उवाच:
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते |
१९ क
वासुदेव उवाच:
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ||
१९ ख
वासुदेव उवाच:
अनु रथ्यासु सर्वासु चत्वरेषु च कौरव |
२० क
वासुदेव उवाच:
वलं वभूव राजेन्द्र प्रभूतगजवाजिमत् ||
२० ख
वासुदेव उवाच:
दत्तवेतनभक्तं च दत्ताय़ुधपरिच्छदम् |
२१ क
वासुदेव उवाच:
कृतापदानं च तदा वलमासीन्महाभुज ||
२१ ख
वासुदेव उवाच:
न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी |
२२ क
वासुदेव उवाच:
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ||
२२ ख
वासुदेव उवाच:
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः |
२३ क
वासुदेव उवाच:
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ||
२३ ख