जनमेजय़ उवाच:
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते |
१ क
जनमेजय़ उवाच:
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ||
१ ख
जनमेजय़ उवाच:
साहाय़्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव |
२ क
जनमेजय़ उवाच:
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ||
२ ख
जनमेजय़ उवाच:
एवमुक्त्वा तदा रामो यातः शत्रुनिवर्हणः |
३ क
जनमेजय़ उवाच:
तस्य चागमनं भूय़ो व्रह्मञ्शंसितुमर्हसि ||
३ ख
जनमेजय़ उवाच:
आख्याहि मे विस्तरतः कथं राम उपस्थितः |
४ क
जनमेजय़ उवाच:
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम ||
४ ख
वैशम्पाय़न उवाच:
उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु |
५ क
वैशम्पाय़न उवाच:
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः |
५ ख
वैशम्पाय़न उवाच:
शमं प्रति महावाहो हितार्थं सर्वदेहिनाम् ||
५ ग
वैशम्पाय़न उवाच:
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च |
६ क
वैशम्पाय़न उवाच:
उक्तवान्वचनं तथ्यं हितं चैव विशेषतः |
६ ख
वैशम्पाय़न उवाच:
न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा ||
६ ग
वैशम्पाय़न उवाच:
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः |
७ क
वैशम्पाय़न उवाच:
आगच्छत महावाहुरुपप्लव्यं जनाधिप ||
७ ख
वैशम्पाय़न उवाच:
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः |
८ क
वैशम्पाय़न उवाच:
अक्रिय़ाय़ां नरव्याघ्र पाण्डवानिदमव्रवीत् ||
८ ख
वैशम्पाय़न उवाच:
न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः |
९ क
वैशम्पाय़न उवाच:
निर्गच्छध्वं पाण्डवेय़ाः पुष्येण सहिता मय़ा ||
९ ख
वैशम्पाय़न उवाच:
ततो विभज्यमानेषु वलेषु वलिनां वरः |
१० क
वैशम्पाय़न उवाच:
प्रोवाच भ्रातरं कृष्णं रौहिणेय़ो महामनाः ||
१० ख
वैशम्पाय़न उवाच:
तेषामपि महावाहो साहाय़्यं मधुसूदन |
११ क
वैशम्पाय़न उवाच:
क्रिय़तामिति तत्कृष्णो नास्य चक्रे वचस्तदा ||
११ ख
वैशम्पाय़न उवाच:
ततो मन्युपरीतात्मा जगाम यदुनन्दनः |
१२ क
वैशम्पाय़न उवाच:
तीर्थय़ात्रां हलधरः सरस्वत्यां महाय़शाः |
१२ ख
वैशम्पाय़न उवाच:
मैत्रे नक्षत्रय़ोगे स्म सहितः सर्वय़ादवैः ||
१२ ग
वैशम्पाय़न उवाच:
आश्रय़ामास भोजस्तु दुर्योधनमरिन्दमः |
१३ क
वैशम्पाय़न उवाच:
युय़ुधानेन सहितो वासुदेवस्तु पाण्डवान् ||
१३ ख
वैशम्पाय़न उवाच:
रौहिणेय़े गते शूरे पुष्येण मधुसूदनः |
१४ क
वैशम्पाय़न उवाच:
पाण्डवेय़ान्पुरस्कृत्य यय़ावभिमुखः कुरून् ||
१४ ख
वैशम्पाय़न उवाच:
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह |
१५ क
वैशम्पाय़न उवाच:
सम्भारांस्तीर्थय़ात्राय़ां सर्वोपकरणानि च |
१५ ख
वैशम्पाय़न उवाच:
आनय़ध्वं द्वारकाय़ा अग्नीन्वै याजकांस्तथा ||
१५ ग
वैशम्पाय़न उवाच:
सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः |
१६ क
वैशम्पाय़न उवाच:
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च |
१६ ख
वैशम्पाय़न उवाच:
क्षिप्रमानीय़तां सर्वं तीर्थहेतोः परिच्छदम् ||
१६ ग
वैशम्पाय़न उवाच:
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः |
१७ क
वैशम्पाय़न उवाच:
ऋत्विजश्चानय़ध्वं वै शतशश्च द्विजर्षभान् ||
१७ ख
वैशम्पाय़न उवाच:
एवं सन्दिश्य तु प्रेष्यान्वलदेवो महावलः |
१८ क
वैशम्पाय़न उवाच:
तीर्थय़ात्रां यय़ौ राजन्कुरूणां वैशसे तदा |
१८ ख
वैशम्पाय़न उवाच:
सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान् ||
१८ ग
वैशम्पाय़न उवाच:
ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः |
१९ क
वैशम्पाय़न उवाच:
रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ |
१९ ख
वैशम्पाय़न उवाच:
गोखरोष्ट्रप्रय़ुक्तैश्च यानैश्च वहुभिर्वृतः ||
१९ ग
वैशम्पाय़न उवाच:
श्रान्तानां क्लान्तवपुषां शिशूनां विपुलाय़ुषाम् |
२० क
वैशम्पाय़न उवाच:
तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत |
२० ख
वैशम्पाय़न उवाच:
वुभुक्षितानामर्थाय़ कॢप्तमन्नं समन्ततः ||
२० ग
वैशम्पाय़न उवाच:
यो यो यत्र द्विजो भोक्तुं कामं कामय़ते तदा |
२१ क
वैशम्पाय़न उवाच:
तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप ||
२१ ख
वैशम्पाय़न उवाच:
तत्र स्थिता नरा राजन्रौहिणेय़स्य शासनात् |
२२ क
वैशम्पाय़न उवाच:
भक्ष्यपेय़स्य कुर्वन्ति राशींस्तत्र समन्ततः ||
२२ ख
वैशम्पाय़न उवाच:
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च |
२३ क
वैशम्पाय़न उवाच:
पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम् ||
२३ ख
वैशम्पाय़न उवाच:
यत्र यः स्वपते विप्रः क्षत्रिय़ो वापि भारत |
२४ क
वैशम्पाय़न उवाच:
तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत ||
२४ ख
वैशम्पाय़न उवाच:
यथासुखं जनः सर्वस्तिष्ठते याति वा तदा |
२५ क
वैशम्पाय़न उवाच:
यातुकामस्य यानानि पानानि तृषितस्य च ||
२५ ख
वैशम्पाय़न उवाच:
वुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ |
२६ क
वैशम्पाय़न उवाच:
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ||
२६ ख
वैशम्पाय़न उवाच:
स पन्थाः प्रवभौ राजन्सर्वस्यैव सुखावहः |
२७ क
वैशम्पाय़न उवाच:
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् ||
२७ ख
वैशम्पाय़न उवाच:
नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः |
२८ क
वैशम्पाय़न उवाच:
विपण्यापणपण्यानां नानाजनशतैर्वृतः |
२८ ख
वैशम्पाय़न उवाच:
नानाद्रुमलतोपेतो नानारत्नविभूषितः ||
२८ ग
वैशम्पाय़न उवाच:
ततो महात्मा निय़मे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन् |
२९ क
वैशम्पाय़न उवाच:
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च; यदुप्रवीरो हलभृत्प्रतीतः ||
२९ ख
वैशम्पाय़न उवाच:
दोग्ध्रीश्च धेनूश्च सहस्रशो वै; सुवाससः काञ्चनवद्धशृङ्गीः |
३० क
वैशम्पाय़न उवाच:
हय़ांश्च नानाविधदेशजाता; न्यानानि दासीश्च तथा द्विजेभ्यः ||
३० ख
वैशम्पाय़न उवाच:
रत्नानि मुक्तामणिविद्रुमं च; शृङ्गीसुवर्णं रजतं च शुभ्रम् |
३१ क
वैशम्पाय़न उवाच:
अय़स्मय़ं ताम्रमय़ं च भाण्डं; ददौ द्विजातिप्रवरेषु रामः ||
३१ ख
वैशम्पाय़न उवाच:
एवं स वित्तं प्रददौ महात्मा; सरस्वतीतीर्थवरेषु भूरि |
३२ क
वैशम्पाय़न उवाच:
यय़ौ क्रमेणाप्रतिमप्रभाव; स्ततः कुरुक्षेत्रमुदारवृत्तः ||
३२ ख
जनमेजय़ उवाच:
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे |
३३ क
जनमेजय़ उवाच:
फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च ||
३३ ख
जनमेजय़ उवाच:
यथाक्रमं च भगवंस्तीर्थानामनुपूर्वशः |
३४ क
जनमेजय़ उवाच:
व्रह्मन्व्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे ||
३४ ख
वैशम्पाय़न उवाच:
तीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः |
३५ क
वैशम्पाय़न उवाच:
मय़ोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः ||
३५ ख
वैशम्पाय़न उवाच:
पूर्वं महाराज यदुप्रवीर; ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् |
३६ क
वैशम्पाय़न उवाच:
पुण्यं प्रभासं समुपाजगाम; यत्रोडुराड्यक्ष्मणा क्लिश्यमानः ||
३६ ख
वैशम्पाय़न उवाच:
विमुक्तशापः पुनराप्य तेजः; सर्वं जगद्भासय़ते नरेन्द्र |
३७ क
वैशम्पाय़न उवाच:
एवं तु तीर्थप्रवरं पृथिव्यां; प्रभासनात्तस्य ततः प्रभासः ||
३७ ख
जनमेजय़ उवाच:
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत |
३८ क
जनमेजय़ उवाच:
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ||
३८ ख
जनमेजय़ उवाच:
कथमाप्लुत्य तस्मिंस्तु पुनराप्याय़ितः शशी |
३९ क
जनमेजय़ उवाच:
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ||
३९ ख
वैशम्पाय़न उवाच:
दक्षस्य तनय़ा यास्ताः प्रादुरासन्विशां पते |
४० क
वैशम्पाय़न उवाच:
स सप्तविंशतिं कन्या दक्षः सोमाय़ वै ददौ ||
४० ख
वैशम्पाय़न उवाच:
नक्षत्रय़ोगनिरताः सङ्ख्यानार्थं च भारत |
४१ क
वैशम्पाय़न उवाच:
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः ||
४१ ख
वैशम्पाय़न उवाच:
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि |
४२ क
वैशम्पाय़न उवाच:
अत्यरिच्यत तासां तु रोहिणी रूपसम्पदा ||
४२ ख
वैशम्पाय़न उवाच:
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः |
४३ क
वैशम्पाय़न उवाच:
सास्य हृद्या वभूवाथ तस्मात्तां वुभुजे सदा ||
४३ ख
वैशम्पाय़न उवाच:
पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम् |
४४ क
वैशम्पाय़न उवाच:
ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः ||
४४ ख
वैशम्पाय़न उवाच:
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः |
४५ क
वैशम्पाय़न उवाच:
सोमो वसति नास्मासु रोहिणीं भजते सदा ||
४५ ख
वैशम्पाय़न उवाच:
ता वय़ं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर |
४६ क