व्राह्मण उवाच:
समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ |
१ क
व्राह्मण उवाच:
मित्रतामभिपन्नस्त्वां किञ्चिद्वक्ष्यामि तच्छृणु ||
१ ख
व्राह्मण उवाच:
गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम् |
२ क
व्राह्मण उवाच:
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज ||
२ ख
व्राह्मण उवाच:
अहमात्मानमात्मस्थमेक एवात्मनि स्थितः |
३ क
व्राह्मण उवाच:
कर्तुं काङ्क्षामि नेच्छामि वद्धः साधारणैर्गुणैः ||
३ ख
व्राह्मण उवाच:
यावदेवानतीतं मे वय़ः पुत्रफलाश्रितम् |
४ क
व्राह्मण उवाच:
तावदिच्छामि पाथेय़मादातुं पारलौकिकम् ||
४ ख
व्राह्मण उवाच:
अस्मिन्हि लोकसन्ताने परं पारमभीप्सतः |
५ क
व्राह्मण उवाच:
उत्पन्ना मे मतिरिय़ं कुतो धर्ममय़ः प्लवः ||
५ ख
व्राह्मण उवाच:
समुह्यमानानि निशम्य लोके; निर्यात्यमानानि च सात्त्विकानि |
६ क
व्राह्मण उवाच:
दृष्ट्वा च धर्मध्वजकेतुमालां; प्रकीर्यमाणामुपरि प्रजानाम् ||
६ ख
व्राह्मण उवाच:
न मे मनो रज्यति भोगकाले; दृष्ट्वा यतीन्प्रार्थय़तः परत्र |
७ क
व्राह्मण उवाच:
तेनातिथे वुद्धिवलाश्रय़ेण; धर्मार्थतत्त्वे विनिय़ुङ्क्ष्व मां त्वम् ||
७ ख
भीष्म उवाच:
सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः |
८ क
भीष्म उवाच:
प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरय़ा गिरा ||
८ ख
भीष्म उवाच:
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः |
९ क
भीष्म उवाच:
न च संनिश्चय़ं यामि वहुद्वारे त्रिविष्टपे ||
९ ख
भीष्म उवाच:
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः |
१० क
भीष्म उवाच:
वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः ||
१० ख
भीष्म उवाच:
राजधर्माश्रय़ं केचित्केचिदात्मफलाश्रय़म् |
११ क
भीष्म उवाच:
गुरुचर्याश्रय़ं केचित्केचिद्वाक्यं यमाश्रय़म् ||
११ ख
भीष्म उवाच:
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः |
१२ क
भीष्म उवाच:
अहिंसय़ा परे स्वर्गं सत्येन च तथा परे ||
१२ ख
भीष्म उवाच:
आहवेऽभिमुखाः केचिन्निहताः स्विद्दिवं गताः |
१३ क
भीष्म उवाच:
केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः ||
१३ ख
भीष्म उवाच:
केचिदध्ययने युक्ता वेदव्रतपराः शुभाः |
१४ क
भीष्म उवाच:
वुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रिय़ाः ||
१४ ख
भीष्म उवाच:
आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः |
१५ क
भीष्म उवाच:
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः ||
१५ ख
भीष्म उवाच:
एवं वहुविधैर्लोके धर्मद्वारैरनावृतैः |
१६ क
भीष्म उवाच:
ममापि मतिराविग्ना मेघलेखेव वाय़ुना ||
१६ ख