व्राह्मण उवाच:
अतिभारोद्यतस्यैव भारापनय़नं महत् |
१ क
व्राह्मण उवाच:
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् ||
१ ख
व्राह्मण उवाच:
अध्वक्लान्तस्य शय़नं स्थानक्लान्तस्य चासनम् |
२ क
व्राह्मण उवाच:
तृषितस्य च पानीय़ं क्षुधार्तस्य च भोजनम् ||
२ ख
व्राह्मण उवाच:
ईप्सितस्येव सम्प्राप्तिरन्नस्य समय़ेऽतिथेः |
३ क
व्राह्मण उवाच:
एषितस्यात्मनः काले वृद्धस्येव सुतो यथा ||
३ ख
व्राह्मण उवाच:
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् |
४ क
व्राह्मण उवाच:
प्रह्रादय़ति मां वाक्यं भवता यदुदीरितम् ||
४ ख
व्राह्मण उवाच:
दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च |
५ क
व्राह्मण उवाच:
प्रज्ञानवचनाद्योऽय़मुपदेशो हि मे कृतः |
५ ख
व्राह्मण उवाच:
वाढमेवं करिष्यामि यथा मां भाषते भवान् ||
५ ग
व्राह्मण उवाच:
इहेमां रजनीं साधो निवसस्व मय़ा सह |
६ क
व्राह्मण उवाच:
प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः |
६ ख
व्राह्मण उवाच:
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः ||
६ ग
भीष्म उवाच:
ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन |
७ क
भीष्म उवाच:
उवास किल तां रात्रिं सह तेन द्विजेन वै ||
७ ख
भीष्म उवाच:
तत्तच्च धर्मसंय़ुक्तं तय़ोः कथय़तोस्तदा |
८ क
भीष्म उवाच:
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा ||
८ ख
भीष्म उवाच:
ततः प्रभातसमय़े सोऽतिथिस्तेन पूजितः |
९ क
भीष्म उवाच:
व्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता ||
९ ख
भीष्म उवाच:
ततः स विप्रः कृतधर्मनिश्चय़ः; कृताभ्यनुज्ञः स्वजनेन धर्मवित् |
१० क
भीष्म उवाच:
यथोपदिष्टं भुजगेन्द्रसंश्रय़ं; जगाम काले सुकृतैकनिश्चय़ः ||
१० ख