नाग उवाच:
अथ व्राह्मणरूपेण कं तं समनुपश्यसि |
१ क
नाग उवाच:
मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते ||
१ ख
नाग उवाच:
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि |
२ क
नाग उवाच:
सन्दर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति ||
२ ख
नाग उवाच:
सुरासुरगणानां च देवर्षीणां च भामिनि |
३ क
नाग उवाच:
ननु नागा महावीर्याः सौरसेय़ास्तरस्विनः ||
३ ख
नाग उवाच:
वन्दनीय़ाश्च वरदा वय़मप्यनुय़ाय़िनः |
४ क
नाग उवाच:
मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः ||
४ ख
नागभार्यो उवाच:
आर्जवेनाभिजानामि नासौ देवोऽनिलाशन |
५ क
नागभार्यो उवाच:
एकं त्वस्य विजानामि भक्तिमानतिरोषणः ||
५ ख
नागभार्यो उवाच:
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा |
६ क
नागभार्यो उवाच:
वर्षं वर्षप्रिय़ः पक्षी दर्शनं तव काङ्क्षति ||
६ ख
नागभार्यो उवाच:
न हि त्वा दैवतं किञ्चिद्विविग्नं प्रतिपालय़ेत् |
७ क
नागभार्यो उवाच:
तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते ||
७ ख
नागभार्यो उवाच:
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि |
८ क
नागभार्यो उवाच:
आशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि ||
८ ख
नागभार्यो उवाच:
आशय़ा त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम् |
९ क
नागभार्यो उवाच:
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते ||
९ ख
नागभार्यो उवाच:
मौनाज्ज्ञानफलावाप्तिर्दानेन च यशो महत् |
१० क
नागभार्यो उवाच:
वाग्मित्वं सत्यवाक्येन परत्र च महीय़ते ||
१० ख
नागभार्यो उवाच:
भूमिप्रदानेन गतिं लभत्याश्रमसंमिताम् |
११ क
नागभार्यो उवाच:
नष्टस्यार्थस्य सम्प्राप्तिं कृत्वा फलमुपाश्नुते ||
११ ख
नागभार्यो उवाच:
अभिप्रेतामसङ्क्लिष्टां कृत्वाकामवतीं क्रिय़ाम् |
१२ क
नागभार्यो उवाच:
न याति निरय़ं कश्चिदिति धर्मविदो विदुः ||
१२ ख
नाग उवाच:
अभिमानेन मानो मे जातिदोषेण वै महान् |
१३ क
नाग उवाच:
रोषः सङ्कल्पजः साध्वि दग्धो वाचाग्निना त्वय़ा ||
१३ ख
नाग उवाच:
न च रोषादहं साध्वि पश्येय़मधिकं तमः |
१४ क
नाग उवाच:
यस्य वक्तव्यतां यान्ति विशेषेण भुजङ्गमाः ||
१४ ख
नाग उवाच:
दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् |
१५ क
नाग उवाच:
तथा शक्रप्रतिस्पर्धी हतो रामेण संय़ुगे ||
१५ ख
नाग उवाच:
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् |
१६ क
नाग उवाच:
धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः ||
१६ ख
नाग उवाच:
जामदग्न्येन रामेण सहस्रनय़नोपमः |
१७ क
नाग उवाच:
संय़ुगे निहतो रोषात्कार्तवीर्यो महावलः ||
१७ ख
नाग उवाच:
तदेष तपसां शत्रुः श्रेय़सश्च निपातनः |
१८ क
नाग उवाच:
निगृहीतो मय़ा रोषः श्रुत्वैव वचनं तव ||
१८ ख
नाग उवाच:
आत्मानं च विशेषेण प्रशंसाम्यनपाय़िनि |
१९ क
नाग उवाच:
यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता ||
१९ ख
नाग उवाच:
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः |
२० क
नाग उवाच:
सर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रय़ास्यति ||
२० ख