धृतराष्ट्र उवाच:
सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
येन कर्णो महावाहू रथोपस्थे निपातितः ||
१ ख
धृतराष्ट्र उवाच:
कर्णो ह्येको रणे हन्ता सृञ्जय़ान्पाण्डवैः सह |
२ क
धृतराष्ट्र उवाच:
इति दुर्योधनः सूत प्राव्रवीन्मां मुहुर्मुहुः ||
२ ख
धृतराष्ट्र उवाच:
पराजितं तु राधेय़ं दृष्ट्वा भीमेन संय़ुगे |
३ क
धृतराष्ट्र उवाच:
ततः परं किमकरोत्पुत्रो दुर्योधनो मम ||
३ ख
सञ्जय़ उवाच:
विभ्रान्तं प्रेक्ष्य राधेय़ं सूतपुत्रं महाहवे |
४ क
सञ्जय़ उवाच:
महत्या सेनय़ा राजन्सोदर्यान्समभाषत ||
४ ख
सञ्जय़ उवाच:
शीघ्रं गच्छत भद्रं वो राधेय़ं परिरक्षत |
५ क
सञ्जय़ उवाच:
भीमसेनभय़ागाधे मज्जन्तं व्यसनार्णवे ||
५ ख
सञ्जय़ उवाच:
ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः |
६ क
सञ्जय़ उवाच:
अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गा इव पावकम् ||
६ ख
सञ्जय़ उवाच:
श्रुताय़ुर्दुर्धरः क्राथो विवित्सुर्विकटः समः |
७ क
सञ्जय़ उवाच:
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ||
७ ख
सञ्जय़ उवाच:
दुष्प्रधर्षः सुवाहुश्च वातवेगसुवर्चसौ |
८ क
सञ्जय़ उवाच:
धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः ||
८ ख
सञ्जय़ उवाच:
एते रथैः परिवृता वीर्यवन्तो महावलाः |
९ क
सञ्जय़ उवाच:
भीमसेनं समासाद्य समन्तात्पर्यवारय़न् |
९ ख
सञ्जय़ उवाच:
ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः ||
९ ग
सञ्जय़ उवाच:
स तैरभ्यर्द्यमानस्तु भीमसेनो महावलः |
१० क
सञ्जय़ उवाच:
तेषामापततां क्षिप्रं सुतानां ते नराधिप |
१० ख
सञ्जय़ उवाच:
रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् ||
१० ग
सञ्जय़ उवाच:
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः |
११ क
सञ्जय़ उवाच:
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा |
११ ख
सञ्जय़ उवाच:
भीमेन च महाराज स पपात हतो भुवि ||
११ ग
सञ्जय़ उवाच:
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो |
१२ क
सञ्जय़ उवाच:
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ||
१२ ख
सञ्जय़ उवाच:
ततोऽपराभ्यां भल्लाभ्यां पुत्रय़ोस्ते महाहवे |
१३ क
सञ्जय़ उवाच:
जहार समरे प्राणान्भीमो भीमपराक्रमः ||
१३ ख
सञ्जय़ उवाच:
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ |
१४ क
सञ्जय़ उवाच:
विकटश्च समश्चोभौ देवगर्भसमौ नृप ||
१४ ख
सञ्जय़ उवाच:
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षय़म् |
१५ क
सञ्जय़ उवाच:
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ||
१५ ख
सञ्जय़ उवाच:
हाहाकारस्ततस्तीव्रः सम्वभूव जनेश्वर |
१६ क
सञ्जय़ उवाच:
वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु ||
१६ ख
सञ्जय़ उवाच:
तेषां संलुलिते सैन्ये भीमसेनो महावलः |
१७ क
सञ्जय़ उवाच:
नन्दोपनन्दौ समरे प्रापय़द्यमसादनम् ||
१७ ख
सञ्जय़ उवाच:
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः |
१८ क
सञ्जय़ उवाच:
भीमसेनं रणे दृष्ट्वा कालान्तकय़मोपमम् ||
१८ ख
सञ्जय़ उवाच:
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः |
१९ क
सञ्जय़ उवाच:
हंसवर्णान्हय़ान्भूय़ः प्राहिणोद्यत्र पाण्डवः ||
१९ ख
सञ्जय़ उवाच:
ते प्रेषिता महाराज मद्रराजेन वाजिनः |
२० क
सञ्जय़ उवाच:
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ||
२० ख
सञ्जय़ उवाच:
स संनिपातस्तुमुलो घोररूपो विशां पते |
२१ क
सञ्जय़ उवाच:
आसीद्रौद्रो महाराज कर्णपाण्डवय़ोर्मृधे ||
२१ ख
सञ्जय़ उवाच:
दृष्ट्वा मम महाराज तौ समेतौ महारथौ |
२२ क
सञ्जय़ उवाच:
आसीद्वुद्धिः कथं नूनमेतदद्य भविष्यति ||
२२ ख
सञ्जय़ उवाच:
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव |
२३ क
सञ्जय़ उवाच:
विरथं भीमकर्माणं भीमं कर्णश्चकार ह ||
२३ ख
सञ्जय़ उवाच:
विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः |
२४ क
सञ्जय़ उवाच:
गदाहस्तो महावाहुरपतत्स्यन्दनोत्तमात् ||
२४ ख
सञ्जय़ उवाच:
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः |
२५ क
सञ्जय़ उवाच:
व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः ||
२५ ख
सञ्जय़ उवाच:
दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च |
२६ क
सञ्जय़ उवाच:
मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् ||
२६ ख
सञ्जय़ उवाच:
ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः |
२७ क
सञ्जय़ उवाच:
महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् ||
२७ ख
सञ्जय़ उवाच:
तान्स सप्तशतान्नागान्सारोहाय़ुधकेतनान् |
२८ क
सञ्जय़ उवाच:
भूमिष्ठो गदय़ा जघ्ने शरन्मेघानिवानिलः ||
२८ ख
सञ्जय़ उवाच:
ततः सुवलपुत्रस्य नागानतिवलान्पुनः |
२९ क
सञ्जय़ उवाच:
पोथय़ामास कौन्तेय़ो द्वापञ्चाशतमाहवे ||
२९ ख
सञ्जय़ उवाच:
तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् |
३० क
सञ्जय़ उवाच:
न्यहनत्पाण्डवो युद्धे तापय़ंस्तव वाहिनीम् ||
३० ख
सञ्जय़ उवाच:
प्रताप्यमानं सूर्येण भीमेन च महात्मना |
३१ क
सञ्जय़ उवाच:
तव सैन्यं सञ्चुकोच चर्म वह्निगतं यथा ||
३१ ख
सञ्जय़ उवाच:
ते भीमभय़सन्त्रस्तास्तावका भरतर्षभ |
३२ क
सञ्जय़ उवाच:
विहाय़ समरे भीमं दुद्रुवुर्वै दिशो दश ||
३२ ख
सञ्जय़ उवाच:
रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः |
३३ क
सञ्जय़ उवाच:
भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः ||
३३ ख
सञ्जय़ उवाच:
तान्ससूतरथान्सर्वान्सपताकाध्वजाय़ुधान् |
३४ क
सञ्जय़ उवाच:
पोथय़ामास गदय़ा भीमो विष्णुरिवासुरान् ||
३४ ख
सञ्जय़ उवाच:
ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः |
३५ क
सञ्जय़ उवाच:
त्रिसाहस्रा यय़ुर्भीमं शक्त्यृष्टिप्रासपाणय़ः ||
३५ ख
सञ्जय़ उवाच:
तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा |
३६ क
सञ्जय़ उवाच:
विचरन्विविधान्मार्गान्घातय़ामास पोथय़न् ||
३६ ख
सञ्जय़ उवाच:
तेषामासीन्महाञ्शव्दस्ताडितानां च सार्वशः |
३७ क
सञ्जय़ उवाच:
असिभिश्छिद्यमानानां नडानामिव भारत ||
३७ ख
सञ्जय़ उवाच:
एवं सुवलपुत्रस्य त्रिसाहस्रान्हय़ोत्तमान् |
३८ क
सञ्जय़ उवाच:
हत्वान्यं रथमास्थाय़ क्रुद्धो राधेय़मभ्ययात् ||
३८ ख
सञ्जय़ उवाच:
कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम् |
३९ क
सञ्जय़ उवाच:
शरैः प्रच्छादय़ामास सारथिं चाप्यपातय़त् ||
३९ ख
सञ्जय़ उवाच:
ततः सम्प्रद्रुतं सङ्ख्ये रथं दृष्ट्वा महारथः |
४० क
सञ्जय़ उवाच:
अन्वधावत्किरन्वाणैः कङ्कपत्रैरजिह्मगैः ||
४० ख
सञ्जय़ उवाच:
राजानमभि धावन्तं शरैरावृत्य रोदसी |
४१ क
सञ्जय़ उवाच:
क्रुद्धः प्रच्छादय़ामास शरजालेन मारुतिः ||
४१ ख
सञ्जय़ उवाच:
संनिवृत्तस्ततस्तूर्णं राधेय़ः शत्रुकर्शनः |
४२ क
सञ्जय़ उवाच:
भीमं प्रच्छादय़ामास समन्तान्निशितैः शरैः ||
४२ ख
सञ्जय़ उवाच:
भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः |
४३ क
सञ्जय़ उवाच:
अभ्यर्दय़दमेय़ात्मा पार्ष्णिग्रहणकारणात् |
४३ ख
सञ्जय़ उवाच:
अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् ||
४३ ग
सञ्जय़ उवाच:
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् |
४४ क
सञ्जय़ उवाच:
विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ ||
४४ ख
सञ्जय़ उवाच:
ताभ्यां विय़ति राजेन्द्र विततं भीमदर्शनम् |
४५ क
सञ्जय़ उवाच:
क्रौञ्चपृष्ठारुणं रौद्रं वाणजालं व्यदृश्यत ||
४५ ख
सञ्जय़ उवाच:
नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः |
४६ क
सञ्जय़ उवाच:
प्राज्ञासिष्म वय़ं ताभ्यां शरैर्मुक्तैः सहस्रशः ||
४६ ख
सञ्जय़ उवाच:
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः |
४७ क
सञ्जय़ उवाच:
हृताः सर्वाः शरौघैस्तैः कर्णमाधवय़ोस्तदा ||
४७ ख
सञ्जय़ उवाच:
सौवलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् |
४८ क
सञ्जय़ उवाच:
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ||
४८ ख