chevron_left शल्य पर्व अध्याय ३५
वैशम्पाय़न उवाच:
तस्मान्नदीगतं चापि उदपानं यशस्विनः |
१ क
वैशम्पाय़न उवाच:
त्रितस्य च महाराज जगामाथ हलाय़ुधः ||
१ ख
वैशम्पाय़न उवाच:
तत्र दत्त्वा वहु द्रव्यं पूजय़ित्वा तथा द्विजान् |
२ क
वैशम्पाय़न उवाच:
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलाय़ुधः ||
२ ख
वैशम्पाय़न उवाच:
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः |
३ क
वैशम्पाय़न उवाच:
कूपे च वसता तेन सोमः पीतो महात्मना ||
३ ख
वैशम्पाय़न उवाच:
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् |
४ क
वैशम्पाय़न उवाच:
ततस्तौ वै शशापाथ त्रितो व्राह्मणसत्तमः ||
४ ख
जनमेजय़ उवाच:
उदपानं कथं व्रह्मन्कथं च सुमहातपाः |
५ क
जनमेजय़ उवाच:
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तमः ||
५ ख
जनमेजय़ उवाच:
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् |
६ क
जनमेजय़ उवाच:
एतदाचक्ष्व मे व्रह्मन्यदि श्राव्यं हि मन्यसे ||
६ ख
वैशम्पाय़न उवाच:
आसन्पूर्वय़ुगे राजन्मुनय़ो भ्रातरस्त्रय़ः |
७ क
वैशम्पाय़न उवाच:
एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः ||
७ ख
वैशम्पाय़न उवाच:
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च |
८ क
वैशम्पाय़न उवाच:
व्रह्मलोकजितः सर्वे तपसा व्रह्मवादिनः ||
८ ख
वैशम्पाय़न उवाच:
तेषां तु तपसा प्रीतो निय़मेन दमेन च |
९ क
वैशम्पाय़न उवाच:
अभवद्गौतमो नित्यं पिता धर्मरतः सदा ||
९ ख
वैशम्पाय़न उवाच:
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च |
१० क
वैशम्पाय़न उवाच:
जगाम भगवान्स्थानमनुरूपमिवात्मनः ||
१० ख
वैशम्पाय़न उवाच:
राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः |
११ क
वैशम्पाय़न उवाच:
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजय़न् ||
११ ख
वैशम्पाय़न उवाच:
तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च |
१२ क
वैशम्पाय़न उवाच:
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा ||
१२ ख
वैशम्पाय़न उवाच:
तं स्म सर्वे महाभागा मुनय़ः पुण्यलक्षणाः |
१३ क
वैशम्पाय़न उवाच:
अपूजय़न्महाभागं तथा विद्वत्तय़ैव तु ||
१३ ख
वैशम्पाय़न उवाच:
कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ |
१४ क
वैशम्पाय़न उवाच:
यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः ||
१४ ख
वैशम्पाय़न उवाच:
तय़ोश्चिन्ता समभवत्त्रितं गृह्य परन्तप |
१५ क
वैशम्पाय़न उवाच:
याज्यान्सर्वानुपादाय़ प्रतिगृह्य पशूंस्ततः ||
१५ ख
वैशम्पाय़न उवाच:
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् |
१६ क
वैशम्पाय़न उवाच:
चक्रुश्चैव महाराज भ्रातरस्त्रय़ एव ह ||
१६ ख
वैशम्पाय़न उवाच:
तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति |
१७ क
वैशम्पाय़न उवाच:
याजय़ित्वा ततो याज्याँल्लव्ध्वा च सुवहून्पशून् ||
१७ ख
वैशम्पाय़न उवाच:
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः |
१८ क
वैशम्पाय़न उवाच:
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षय़ः ||
१८ ख
वैशम्पाय़न उवाच:
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् |
१९ क
वैशम्पाय़न उवाच:
एकतश्च द्वितश्चैव पृष्ठतः कालय़न्पशून् ||
१९ ख
वैशम्पाय़न उवाच:
तय़ोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत् |
२० क
वैशम्पाय़न उवाच:
कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् ||
२० ख
वैशम्पाय़न उवाच:
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह |
२१ क
वैशम्पाय़न उवाच:
यदूचतुर्मिथः पापौ तन्निवोध जनेश्वर ||
२१ ख
वैशम्पाय़न उवाच:
त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः |
२२ क
वैशम्पाय़न उवाच:
अन्यास्त्रितो वहुतरा गावः समुपलप्स्यते ||
२२ ख
वैशम्पाय़न उवाच:
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे |
२३ क
वैशम्पाय़न उवाच:
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः ||
२३ ख
वैशम्पाय़न उवाच:
तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत् |
२४ क
वैशम्पाय़न उवाच:
तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् ||
२४ ख
वैशम्पाय़न उवाच:
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः |
२५ क
वैशम्पाय़न उवाच:
तद्भय़ादपसर्पन्वै तस्मिन्कूपे पपात ह |
२५ ख
वैशम्पाय़न उवाच:
अगाधे सुमहाघोरे सर्वभूतभय़ङ्करे ||
२५ ग
वैशम्पाय़न उवाच:
त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः |
२६ क
वैशम्पाय़न उवाच:
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी ||
२६ ख
वैशम्पाय़न उवाच:
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ |
२७ क
वैशम्पाय़न उवाच:
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः ||
२७ ख
वैशम्पाय़न उवाच:
भ्रातृभ्यां पशुलुव्धाभ्यामुत्सृष्टः स महातपाः |
२८ क
वैशम्पाय़न उवाच:
उदपाने महाराज निर्जले पांसुसंवृते ||
२८ ख
वैशम्पाय़न उवाच:
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते |
२९ क
वैशम्पाय़न उवाच:
निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा ||
२९ ख
वैशम्पाय़न उवाच:
वुद्ध्या ह्यगणय़त्प्राज्ञो मृत्योर्भीतो ह्यसोमपः |
३० क
वैशम्पाय़न उवाच:
सोमः कथं नु पातव्य इहस्थेन मय़ा भवेत् ||
३० ख
वैशम्पाय़न उवाच:
स एवमनुसञ्चिन्त्य तस्मिन्कूपे महातपाः |
३१ क
वैशम्पाय़न उवाच:
ददर्श वीरुधं तत्र लम्वमानां यदृच्छय़ा ||
३१ ख
वैशम्पाय़न उवाच:
पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः |
३२ क
वैशम्पाय़न उवाच:
अग्नीन्सङ्कल्पय़ामास होत्रे चात्मानमेव च ||
३२ ख
वैशम्पाय़न उवाच:
ततस्तां वीरुधं सोमं सङ्कल्प्य सुमहातपाः |
३३ क
वैशम्पाय़न उवाच:
ऋचो यजूंषि सामानि मनसा चिन्तय़न्मुनिः |
३३ ख
वैशम्पाय़न उवाच:
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ||
३३ ग
वैशम्पाय़न उवाच:
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् |
३४ क
वैशम्पाय़न उवाच:
सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् ||
३४ ख
वैशम्पाय़न उवाच:
स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै |
३५ क
वैशम्पाय़न उवाच:
समवाप च तं यज्ञं यथोक्तं व्रह्मवादिभिः ||
३५ ख
वैशम्पाय़न उवाच:
वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः |
३६ क
वैशम्पाय़न उवाच:
आविग्नं त्रिदिवं सर्वं कारणं च न वुध्यते ||
३६ ख
वैशम्पाय़न उवाच:
ततः सुतुमुलं शव्दं शुश्रावाथ वृहस्पतिः |
३७ क
वैशम्पाय़न उवाच:
श्रुत्वा चैवाव्रवीद्देवान्सर्वान्देवपुरोहितः ||
३७ ख
वैशम्पाय़न उवाच:
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः |
३८ क
वैशम्पाय़न उवाच:
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ||
३८ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः |
३९ क
वैशम्पाय़न उवाच:
प्रय़युस्तत्र यत्रासौ त्रितय़ज्ञः प्रवर्तते ||
३९ ख
वैशम्पाय़न उवाच:
ते तत्र गत्वा विवुधास्तं कूपं यत्र स त्रितः |
४० क
वैशम्पाय़न उवाच:
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ||
४० ख
वैशम्पाय़न उवाच:
दृष्ट्वा चैनं महात्मानं श्रिय़ा परमय़ा युतम् |
४१ क
वैशम्पाय़न उवाच:
ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वय़म् ||
४१ ख
वैशम्पाय़न उवाच:
अथाव्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः |
४२ क
वैशम्पाय़न उवाच:
अस्मिन्प्रतिभय़े कूपे निमग्नं नष्टचेतसम् ||
४२ ख
वैशम्पाय़न उवाच:
ततस्त्रितो महाराज भागांस्तेषां यथाविधि |
४३ क
वैशम्पाय़न उवाच:
मन्त्रय़ुक्तान्समददात्ते च प्रीतास्तदाभवन् ||
४३ ख
वैशम्पाय़न उवाच:
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः |
४४ क
वैशम्पाय़न उवाच:
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति ||
४४ ख
वैशम्पाय़न उवाच:
स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः |
४५ क
वैशम्पाय़न उवाच:
यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् ||
४५ ख
वैशम्पाय़न उवाच:
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती |
४६ क
वैशम्पाय़न उवाच:
तय़ोत्क्षिप्तस्त्रितस्तस्थौ पूजय़ंस्त्रिदिवौकसः ||
४६ ख
वैशम्पाय़न उवाच:
तथेति चोक्त्वा विवुधा जग्मू राजन्यथागतम् |
४७ क
वैशम्पाय़न उवाच:
त्रितश्चाप्यगमत्प्रीतः स्वमेव निलय़ं तदा ||
४७ ख
वैशम्पाय़न उवाच:
क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा |
४८ क
वैशम्पाय़न उवाच:
उवाच परुषं वाक्यं शशाप च महातपाः ||
४८ ख
वैशम्पाय़न उवाच:
पशुलुव्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ |
४९ क
वैशम्पाय़न उवाच:
तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ ||
४९ ख