chevron_left कर्ण पर्व अध्याय ३५
सञ्जय़ उवाच:
तेषामापततां शव्दस्तीव्र आसीद्विशां पते |
४९ क
सञ्जय़ उवाच:
उद्धूतानां यथा वृष्ट्या सागराणां भय़ावहः ||
४९ ख
सञ्जय़ उवाच:
ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे |
५० क
सञ्जय़ उवाच:
हर्षेण महता युक्ते परिगृह्य परस्परम् ||
५० ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे |
५१ क
सञ्जय़ उवाच:
यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् ||
५१ ख
सञ्जय़ उवाच:
वलौघस्तु समासाद्य वलौघं सहसा रणे |
५२ क
सञ्जय़ उवाच:
उपासर्पत वेगेन जलौघ इव सागरम् ||
५२ ख
सञ्जय़ उवाच:
आसीन्निनादः सुमहान्वलौघानां परस्परम् |
५३ क
सञ्जय़ उवाच:
गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् ||
५३ ख
सञ्जय़ उवाच:
ते तु सेने समासाद्य वेगवत्यौ परस्परम् |
५४ क
सञ्जय़ उवाच:
एकीभावमनुप्राप्ते नद्याविव समागमे ||
५४ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं घोररूपं विशां पते |
५५ क
सञ्जय़ उवाच:
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ||
५५ ख
सञ्जय़ उवाच:
कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः |
५६ क
सञ्जय़ उवाच:
श्रूय़न्ते विविधा राजन्नामान्युद्दिश्य भारत ||
५६ ख
सञ्जय़ उवाच:
यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा |
५७ क
सञ्जय़ उवाच:
कर्मतः शीलतो वापि स तच्छ्रावय़ते युधि ||
५७ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा समरे शूरांस्तर्जय़ानान्परस्परम् |
५८ क
सञ्जय़ उवाच:
अभवन्मे मती राजन्नैषामस्तीति जीवितम् ||
५८ ख
सञ्जय़ उवाच:
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् |
५९ क
सञ्जय़ उवाच:
अभवन्मे भय़ं तीव्रं कथमेतद्भविष्यति ||
५९ ख
सञ्जय़ उवाच:
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः |
६० क
सञ्जय़ उवाच:
ततक्षुः साय़कैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् ||
६० ख