युधिष्ठिर उवाच:
कानि कृत्वेह कर्माणि प्राय़श्चित्तीय़ते नरः |
१ क
युधिष्ठिर उवाच:
किं कृत्वा चैव मुच्येत तन्मे व्रूहि पितामह ||
१ ख
व्यास उवाच:
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् |
२ क
व्यास उवाच:
प्राय़श्चित्तीय़ते ह्येवं नरो मिथ्या च वर्तय़न् ||
२ ख
व्यास उवाच:
सूर्येणाभ्युदितो यश्च व्रह्मचारी भवत्युत |
३ क
व्यास उवाच:
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ||
३ ख
व्यास उवाच:
परिवित्तिः परिवेत्ता व्रह्मोज्झो यश्च कुत्सकः |
४ क
व्यास उवाच:
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ||
४ ख
व्यास उवाच:
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा |
५ क
व्यास उवाच:
अतीर्थे व्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः ||
५ ख
व्यास उवाच:
ग्रामय़ाजी च कौन्तेय़ राज्ञश्च परिविक्रय़ी |
६ क
व्यास उवाच:
शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ||
६ ख
व्यास उवाच:
वृथापशुसमालम्भी वनदाहस्य कारकः |
७ क
व्यास उवाच:
अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा ||
७ ख
व्यास उवाच:
यश्चाग्नीनपविध्येत तथैव व्रह्मविक्रय़ी |
८ क
व्यास उवाच:
एतान्येनांसि सर्वाणि व्युत्क्रान्तसमय़श्च यः ||
८ ख
व्यास उवाच:
अकार्याण्यपि वक्ष्यामि यानि तानि निवोध मे |
९ क
व्यास उवाच:
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ||
९ ख
व्यास उवाच:
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिय़ा |
१० क
व्यास उवाच:
अय़ाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् ||
१० ख
व्यास उवाच:
शरणागतसन्त्यागो भृत्यस्याभरणं तथा |
११ क
व्यास उवाच:
रसानां विक्रय़श्चापि तिर्यग्योनिवधस्तथा ||
११ ख
व्यास उवाच:
आधानादीनि कर्माणि शक्तिमान्न करोति यः |
१२ क
व्यास उवाच:
अप्रय़च्छंश्च सर्वाणि नित्यं देय़ानि भारत ||
१२ ख
व्यास उवाच:
दक्षिणानामदानं च व्राह्मणस्वाभिमर्शनम् |
१३ क
व्यास उवाच:
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ||
१३ ख
व्यास उवाच:
पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः |
१४ क
व्यास उवाच:
अप्रजाय़न्नधर्मेण भवत्याधर्मिको जनः ||
१४ ख
व्यास उवाच:
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च |
१५ क
व्यास उवाच:
यानि कुर्वन्नकुर्वंश्च प्राय़श्चित्तीय़ते जनः ||
१५ ख
व्यास उवाच:
एतान्येव तु कर्माणि क्रिय़माणानि मानवान् |
१६ क
व्यास उवाच:
येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु ||
१६ ख
व्यास उवाच:
प्रगृह्य शस्त्रमाय़ान्तमपि वेदान्तगं रणे |
१७ क
व्यास उवाच:
जिघांसन्तं निहत्याजौ न तेन व्रह्महा भवेत् ||
१७ ख
व्यास उवाच:
अपि चाप्यत्र कौन्तेय़ मन्त्रो वेदेषु पठ्यते |
१८ क
व्यास उवाच:
वेदप्रमाणविहितं तं धर्मं प्रव्रवीमि ते ||
१८ ख
व्यास उवाच:
अपेतं व्राह्मणं वृत्ताद्यो हन्यादातताय़िनम् |
१९ क
व्यास उवाच:
न तेन व्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति ||
१९ ख
व्यास उवाच:
प्राणात्यये तथाज्ञानादाचरन्मदिरामपि |
२० क
व्यास उवाच:
अचोदितो धर्मपरः पुनः संस्कारमर्हति ||
२० ख
व्यास उवाच:
एतत्ते सर्वमाख्यातं कौन्तेय़ाभक्ष्यभक्षणम् |
२१ क
व्यास उवाच:
प्राय़श्चित्तविधानेन सर्वमेतेन शुध्यति ||
२१ ख
व्यास उवाच:
गुरुतल्पं हि गुर्वर्थे न दूषय़ति मानवम् |
२२ क
व्यास उवाच:
उद्दालकः श्वेतकेतुं जनय़ामास शिष्यतः ||
२२ ख
व्यास उवाच:
स्तेय़ं कुर्वंस्तु गुर्वर्थमापत्सु न निवध्यते |
२३ क
व्यास उवाच:
वहुशः कामकारेण न चेद्यः सम्प्रवर्तते ||
२३ ख
व्यास उवाच:
अन्यत्र व्राह्मणस्वेभ्य आददानो न दुष्यति |
२४ क
व्यास उवाच:
स्वय़मप्राशिता यश्च न स पापेन लिप्यते ||
२४ ख
व्यास उवाच:
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा |
२५ क
व्यास उवाच:
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ||
२५ ख
व्यास उवाच:
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथञ्चन |
२६ क
व्यास उवाच:
आज्यहोमः समिद्धेऽग्नौ प्राय़श्चित्तं विधीय़ते ||
२६ ख
व्यास उवाच:
पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा |
२७ क
व्यास उवाच:
भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम् ||
२७ ख
व्यास उवाच:
वृथापशुसमालम्भं नैव कुर्यान्न कारय़ेत् |
२८ क
व्यास उवाच:
अनुग्रहः पशूणां हि संस्कारो विधिचोदितः ||
२८ ख
व्यास उवाच:
अनर्हे व्राह्मणे दत्तमज्ञानात्तन्न दूषकम् |
२९ क
व्यास उवाच:
सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम् ||
२९ ख
व्यास उवाच:
स्त्रिय़स्तथापचारिण्यो निष्कृतिः स्याददूषिका |
३० क
व्यास उवाच:
अपि सा पूय़ते तेन न तु भर्ता प्रदुष्यते ||
३० ख
व्यास उवाच:
तत्त्वं ज्ञात्वा तु सोमस्य विक्रय़ः स्याददूषकः |
३१ क
व्यास उवाच:
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् |
३१ ख
व्यास उवाच:
वनदाहो गवामर्थे क्रिय़माणो न दूषकः ||
३१ ग
व्यास उवाच:
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति |
३२ क
व्यास उवाच:
प्राय़श्चित्तानि वक्ष्यामि विस्तरेणैव भारत ||
३२ ख