chevron_left आश्वमेधिक पर्व अध्याय ३५
अर्जुन उवाच:
व्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि |
१ क
अर्जुन उवाच:
भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ||
१ ख
वासुदेव उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
वासुदेव उवाच:
संवादं मोक्षसंय़ुक्तं शिष्यस्य गुरुणा सह ||
२ ख
वासुदेव उवाच:
कश्चिद्व्राह्मणमासीनमाचार्यं संशितव्रतम् |
३ क
वासुदेव उवाच:
शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेय़ः परन्तप ||
३ ख
वासुदेव उवाच:
भगवन्तं प्रपन्नोऽहं निःश्रेय़सपराय़णः |
४ क
वासुदेव उवाच:
याचे त्वां शिरसा विप्र यद्व्रूय़ां तद्विचक्ष्व मे ||
४ ख
वासुदेव उवाच:
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह |
५ क
वासुदेव उवाच:
कथय़स्व प्रवक्ष्यामि यत्र ते संशय़ो द्विज ||
५ ख
वासुदेव उवाच:
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः |
६ क
वासुदेव उवाच:
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ||
६ ख
शिष्य उवाच:
कुतश्चाहं कुतश्च त्वं तत्सत्यं व्रूहि यत्परम् |
७ क
शिष्य उवाच:
कुतो जातानि भूतानि स्थावराणि चराणि च ||
७ ख
शिष्य उवाच:
केन जीवन्ति भूतानि तेषामाय़ुः किमात्मकम् |
८ क
शिष्य उवाच:
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः |
८ ख
शिष्य उवाच:
के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् ||
८ ग
शिष्य उवाच:
एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम |
९ क
शिष्य उवाच:
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ||
९ ख
वासुदेव उवाच:
तस्मै सम्प्रतिपन्नाय़ यथावत्परिपृच्छते |
१० क
वासुदेव उवाच:
शिष्याय़ गुणय़ुक्ताय़ शान्ताय़ गुरुवर्तिने |
१० ख
वासुदेव उवाच:
छाय़ाभूताय़ दान्ताय़ यतय़े व्रह्मचारिणे ||
१० ग
वासुदेव उवाच:
तान्प्रश्नानव्रवीत्पार्थ मेधावी स धृतव्रतः |
११ क
वासुदेव उवाच:
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिन्दम ||
११ ख
वासुदेव उवाच:
व्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् |
१२ क
वासुदेव उवाच:
वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ||
१२ ख
वासुदेव उवाच:
भूतभव्यभविष्यादिधर्मकामार्थनिश्चय़म् |
१३ क
वासुदेव उवाच:
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ||
१३ ख
वासुदेव उवाच:
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते |
१४ क
वासुदेव उवाच:
वुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ||
१४ ख
वासुदेव उवाच:
उपगम्यर्षय़ः पूर्वं जिज्ञासन्तः परस्परम् |
१५ क
वासुदेव उवाच:
वृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ||
१५ ख
वासुदेव उवाच:
वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च |
१६ क
वासुदेव उवाच:
मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ||
१६ ख
वासुदेव उवाच:
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः |
१७ क
वासुदेव उवाच:
ददृशुर्व्रह्मभवने व्रह्माणं वीतकल्मषम् ||
१७ ख
वासुदेव उवाच:
तं प्रणम्य महात्मानं सुखासीनं महर्षय़ः |
१८ क
वासुदेव उवाच:
पप्रच्छुर्विनय़ोपेता निःश्रेय़समिदं परम् ||
१८ ख
वासुदेव उवाच:
कथं कर्म क्रिय़ात्साधु कथं मुच्येत किल्विषात् |
१९ क
वासुदेव उवाच:
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् ||
१९ ख
वासुदेव उवाच:
केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति |
२० क
वासुदेव उवाच:
प्रलय़ं चापवर्गं च भूतानां प्रभवाप्ययौ ||
२० ख
वासुदेव उवाच:
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः |
२१ क
वासुदेव उवाच:
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् ||
२१ ख
व्रह्मो उवाच:
सत्याद्भूतानि जातानि स्थावराणि चराणि च |
२२ क
व्रह्मो उवाच:
तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ||
२२ ख
व्रह्मो उवाच:
स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा |
२३ क
व्रह्मो उवाच:
सत्यं हि गुणसंय़ुक्तं निय़तं पञ्चलक्षणम् ||
२३ ख
व्रह्मो उवाच:
व्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः |
२४ क
व्रह्मो उवाच:
सत्याद्भूतानि जातानि भूतं सत्यमय़ं महत् ||
२४ ख
व्रह्मो उवाच:
तस्मात्सत्याश्रय़ा विप्रा नित्यं योगपराय़णाः |
२५ क
व्रह्मो उवाच:
अतीतक्रोधसन्तापा निय़ता धर्मसेतवः ||
२५ ख
व्रह्मो उवाच:
अन्योन्यनिय़तान्वैद्यान्धर्मसेतुप्रवर्तकान् |
२६ क
व्रह्मो उवाच:
तानहं सम्प्रवक्ष्यामि शाश्वतान्लोकभावनान् ||
२६ ख
व्रह्मो उवाच:
चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक् |
२७ क
व्रह्मो उवाच:
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ||
२७ ख
व्रह्मो उवाच:
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः |
२८ क
व्रह्मो उवाच:
निय़तं व्रह्मभावाय़ यातं पूर्वं मनीषिभिः ||
२८ ख
व्रह्मो उवाच:
गदतस्तं ममाद्येह पन्थानं दुर्विदं परम् |
२९ क
व्रह्मो उवाच:
निवोधत महाभागा निखिलेन परं पदम् ||
२९ ख
व्रह्मो उवाच:
व्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् |
३० क
व्रह्मो उवाच:
गार्हस्थ्यं तु द्वितीय़ं स्याद्वानप्रस्थमतः परम् |
३० ख
व्रह्मो उवाच:
ततः परं तु विज्ञेय़मध्यात्मं परमं पदम् ||
३० ग
व्रह्मो उवाच:
ज्योतिराकाशमादित्यो वाय़ुरिन्द्रः प्रजापतिः |
३१ क
व्रह्मो उवाच:
नोपैति यावदध्यात्मं तावदेतान्न पश्यति |
३१ ख
व्रह्मो उवाच:
तस्योपाय़ं प्रवक्ष्यामि पुरस्तात्तं निवोधत ||
३१ ग
व्रह्मो उवाच:
फलमूलानिलभुजां मुनीनां वसतां वने |
३२ क
व्रह्मो उवाच:
वानप्रस्थं द्विजातीनां त्रय़ाणामुपदिश्यते ||
३२ ख
व्रह्मो उवाच:
सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीय़ते |
३३ क
व्रह्मो उवाच:
श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते ||
३३ ख
व्रह्मो उवाच:
इत्येते देवय़ाना वः पन्थानः परिकीर्तिताः |
३४ क
व्रह्मो उवाच:
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ||
३४ ख
व्रह्मो उवाच:
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः |
३५ क
व्रह्मो उवाच:
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ||
३५ ख
व्रह्मो उवाच:
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना |
३६ क
व्रह्मो उवाच:
विषय़स्थानि सर्वाणि वर्तमानानि भागशः ||
३६ ख
व्रह्मो उवाच:
महानात्मा तथाव्यक्तमहङ्कारस्तथैव च |
३७ क
व्रह्मो उवाच:
इन्द्रिय़ाणि दशैकं च महाभूतानि पञ्च च ||
३७ ख
व्रह्मो उवाच:
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः |
३८ क
व्रह्मो उवाच:
चतुर्विंशतिरेषा वस्तत्त्वानां सम्प्रकीर्तिता ||
३८ ख
व्रह्मो उवाच:
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ |
३९ क
व्रह्मो उवाच:
स धीरः सर्वभूतेषु न मोहमधिगच्छति ||
३९ ख
व्रह्मो उवाच:
तत्त्वानि यो वेदय़ते यथातथं; गुणांश्च सर्वानखिलाश्च देवताः |
४० क
व्रह्मो उवाच:
विधूतपाप्मा प्रविमुच्य वन्धनं; स सर्वलोकानमलान्समश्नुते ||
४० ख