वैशम्पाय़न उवाच:
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् |
१ क
वैशम्पाय़न उवाच:
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ||
१ ख
वैशम्पाय़न उवाच:
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् |
२ क
वैशम्पाय़न उवाच:
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ||
२ ख
वैशम्पाय़न उवाच:
न हि धर्मं परं जातु नाववुध्येत पार्थिव |
३ क
वैशम्पाय़न उवाच:
भीष्मः शान्तनवस्त्वेनं मावमंस्था अतोऽन्यथा ||
३ ख
वैशम्पाय़न उवाच:
पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्वहून् |
४ क
वैशम्पाय़न उवाच:
मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि ||
४ ख
वैशम्पाय़न उवाच:
वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् |
५ क
वैशम्पाय़न उवाच:
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः ||
५ ख
भीष्म उवाच:
नास्मा अनुनय़ो देय़ो नाय़मर्हति सान्त्वनम् |
६ क
भीष्म उवाच:
लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते ||
६ ख
भीष्म उवाच:
क्षत्रिय़ः क्षत्रिय़ं जित्वा रणे रणकृतां वरः |
७ क
भीष्म उवाच:
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ||
७ ख
भीष्म उवाच:
अस्यां च समितौ राज्ञामेकमप्यजितं युधि |
८ क
भीष्म उवाच:
न पश्यामि महीपालं सात्वतीपुत्रतेजसा ||
८ ख
भीष्म उवाच:
न हि केवलमस्माकमय़मर्च्यतमोऽच्युतः |
९ क
भीष्म उवाच:
त्रय़ाणामपि लोकानामर्चनीय़ो जनार्दनः ||
९ ख
भीष्म उवाच:
कृष्णेन हि जिता युद्धे वहवः क्षत्रिय़र्षभाः |
१० क
भीष्म उवाच:
जगत्सर्वं च वार्ष्णेय़े निखिलेन प्रतिष्ठितम् ||
१० ख
भीष्म उवाच:
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् |
११ क
भीष्म उवाच:
एवं वक्तुं न चार्हस्त्वं मा भूत्ते वुद्धिरीदृशी ||
११ ख
भीष्म उवाच:
ज्ञानवृद्धा मय़ा राजन्वहवः पर्युपासिताः |
१२ क
भीष्म उवाच:
तेषां कथय़तां शौरेरहं गुणवतो गुणान् |
१२ ख
भीष्म उवाच:
समागतानामश्रौषं वहून्वहुमतान्सताम् ||
१२ ग
भीष्म उवाच:
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः |
१३ क
भीष्म उवाच:
वहुशः कथ्यमानानि नरैर्भूय़ः श्रुतानि मे ||
१३ ख
भीष्म उवाच:
न केवलं वय़ं कामाच्चेदिराज जनार्दनम् |
१४ क
भीष्म उवाच:
न सम्वन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन ||
१४ ख
भीष्म उवाच:
अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम् |
१५ क
भीष्म उवाच:
यशः शौर्यं जय़ं चास्य विज्ञाय़ार्चां प्रय़ुज्महे ||
१५ ख
भीष्म उवाच:
न हि कश्चिदिहास्माभिः सुवालोऽप्यपरीक्षितः |
१६ क
भीष्म उवाच:
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ||
१६ ख
भीष्म उवाच:
ज्ञानवृद्धो द्विजातीनां क्षत्रिय़ाणां वलाधिकः |
१७ क
भीष्म उवाच:
पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ ||
१७ ख
भीष्म उवाच:
वेदवेदाङ्गविज्ञानं वलं चाप्यमितं तथा |
१८ क
भीष्म उवाच:
नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते ||
१८ ख
भीष्म उवाच:
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्वुद्धिरुत्तमा |
१९ क
भीष्म उवाच:
संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च निय़ताच्युते ||
१९ ख
भीष्म उवाच:
तमिमं सर्वसम्पन्नमाचार्यं पितरं गुरुम् |
२० क
भीष्म उवाच:
अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ ||
२० ख
भीष्म उवाच:
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रिय़ः |
२१ क
भीष्म उवाच:
सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः ||
२१ ख
भीष्म उवाच:
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः |
२२ क
भीष्म उवाच:
कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम् ||
२२ ख
भीष्म उवाच:
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः |
२३ क
भीष्म उवाच:
परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः ||
२३ ख
भीष्म उवाच:
वुद्धिर्मनो महान्वाय़ुस्तेजोऽम्भः खं मही च या |
२४ क
भीष्म उवाच:
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ||
२४ ख
भीष्म उवाच:
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये |
२५ क
भीष्म उवाच:
दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ||
२५ ख
भीष्म उवाच:
अय़ं तु पुरुषो वालः शिशुपालो न वुध्यते |
२६ क
भीष्म उवाच:
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ||
२६ ख
भीष्म उवाच:
यो हि धर्मं विचिनुय़ादुत्कृष्टं मतिमान्नरः |
२७ क
भीष्म उवाच:
स वै पश्येद्यथाधर्मं न तथा चेदिराडय़म् ||
२७ ख
भीष्म उवाच:
सवृद्धवालेष्वथ वा पार्थिवेषु महात्मसु |
२८ क
भीष्म उवाच:
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजय़ेत् ||
२८ ख
भीष्म उवाच:
अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति |
२९ क
भीष्म उवाच:
दुष्कृताय़ां यथान्याय़ं तथाय़ं कर्तुमर्हति ||
२९ ख