युधिष्ठिर उवाच:
असंशय़ं भारत सत्यमेत; द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि |
१ क
युधिष्ठिर उवाच:
न त्वा विगर्हे प्रतिकूलमेत; न्ममानय़ाद्धि व्यसनं व आगात् ||
१ ख
युधिष्ठिर उवाच:
अहं ह्यक्षानन्वपद्यं जिहीर्ष; न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् |
२ क
युधिष्ठिर उवाच:
तन्मा शठः कितवः प्रत्यदेवी; त्सुय़ोधनार्थं सुवलस्य पुत्रः ||
२ ख
युधिष्ठिर उवाच:
महामाय़ः शकुनिः पार्वतीय़ः; सदा सभाय़ां प्रवपन्नक्षपूगान् |
३ क
युधिष्ठिर उवाच:
अमाय़िनं माय़या प्रत्यदेवी; त्ततोऽपश्यं वृजिनं भीमसेन ||
३ ख
युधिष्ठिर उवाच:
अक्षान्हि दृष्ट्वा शकुनेर्यथाव; त्कामानुलोमानय़ुजो युजश्च |
४ क
युधिष्ठिर उवाच:
शक्यं निय़न्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम् ||
४ ख
युधिष्ठिर उवाच:
यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः |
५ क
युधिष्ठिर उवाच:
न ते वाचं भीमसेनाभ्यसूय़े; मन्ये तथा तद्भवितव्यमासीत् ||
५ ख
युधिष्ठिर उवाच:
स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातय़द्व्यसने राज्यमिच्छन् |
६ क
युधिष्ठिर उवाच:
दास्यं च नोऽगमय़द्भीमसेन; यत्राभवच्छरणं द्रौपदी नः ||
६ ख
युधिष्ठिर उवाच:
त्वं चापि तद्वेत्थ धनञ्जय़श्च; पुनर्द्यूताय़ागतानां सभां नः |
७ क
युधिष्ठिर उवाच:
यन्माव्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् ||
७ ख
युधिष्ठिर उवाच:
वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो |
८ क
युधिष्ठिर उवाच:
अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः ||
८ ख
युधिष्ठिर उवाच:
त्वां चेच्छ्रुत्वा तात तथा चरन्त; मवभोत्स्यन्ते भारतानां चराः स्म |
९ क
युधिष्ठिर उवाच:
अन्यांश्चरेथास्तावतोऽव्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ ||
९ ख
युधिष्ठिर उवाच:
चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहय़ित्वा मदीय़ान् |
१० क
युधिष्ठिर उवाच:
व्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः ||
१० ख
युधिष्ठिर उवाच:
वय़ं चैवं भ्रातरः सर्व एव; त्वय़ा जिताः कालमपास्य भोगान् |
११ क
युधिष्ठिर उवाच:
वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मय़ोक्तस्तथेति ||
११ ख
युधिष्ठिर उवाच:
तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे |
१२ क
युधिष्ठिर उवाच:
इत्थं च देशाननुसञ्चरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः ||
१२ ख
युधिष्ठिर उवाच:
सुय़ोधनश्चापि न शान्तिमिच्छ; न्भूय़ः स मन्योर्वशमन्वगच्छत् |
१३ क
युधिष्ठिर उवाच:
उद्योजय़ामास कुरूंश्च सर्वा; न्ये चास्य केचिद्वशमन्वगच्छन् ||
१३ ख
युधिष्ठिर उवाच:
तं सन्धिमास्थाय़ सतां सकाशे; को नाम जह्यादिह राज्यहेतोः |
१४ क
युधिष्ठिर उवाच:
आर्यस्य मन्ये मरणाद्गरीय़ो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ||
१४ ख
युधिष्ठिर उवाच:
तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः |
१५ क
युधिष्ठिर उवाच:
वाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् ||
१५ ख
युधिष्ठिर उवाच:
प्रागेव चैवं समय़क्रिय़ाय़ाः; किं नाव्रवीः पौरुषमाविदानः |
१६ क
युधिष्ठिर उवाच:
प्राप्तं तु कालं त्वभिपद्य पश्चा; त्किं मामिदानीमतिवेलमात्थ ||
१६ ख
युधिष्ठिर उवाच:
भूय़ोऽपि दुःखं मम भीमसेन; दूय़े विषस्येव रसं विदित्वा |
१७ क
युधिष्ठिर उवाच:
यद्याज्ञसेनीं परिकृष्यमाणां; सन्दृश्य तत्क्षान्तमिति स्म भीम ||
१७ ख
युधिष्ठिर उवाच:
न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये |
१८ क
युधिष्ठिर उवाच:
कालं प्रतीक्षस्व सुखोदय़स्य; पक्तिं फलानामिव वीजवापः ||
१८ ख
युधिष्ठिर उवाच:
यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा |
१९ क
युधिष्ठिर उवाच:
महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके ||
१९ ख
युधिष्ठिर उवाच:
श्रिय़ं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते |
२० क
युधिष्ठिर उवाच:
मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम् ||
२० ख
युधिष्ठिर उवाच:
मम प्रतिज्ञां च निवोध सत्यां; वृणे धर्मममृताज्जीविताच्च |
२१ क
युधिष्ठिर उवाच:
राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति ||
२१ ख