chevron_left उद्योग पर्व अध्याय ३५
धृतराष्ट्र उवाच:
व्रूहि भूय़ो महावुद्धे धर्मार्थसहितं वचः |
१ क
धृतराष्ट्र उवाच:
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ||
१ ख
विदुर उवाच:
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् |
२ क
विदुर उवाच:
उभे एते समे स्यातामार्जवं वा विशिष्यते ||
२ ख
विदुर उवाच:
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो |
३ क
विदुर उवाच:
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ||
३ ख
विदुर उवाच:
यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीय़ते |
४ क
विदुर उवाच:
तावत्स पुरुषव्याघ्र स्वर्गलोके महीय़ते ||
४ ख
विदुर उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
५ क
विदुर उवाच:
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ||
५ ख
केशिन्यु उवाच:
किं व्राह्मणाः स्विच्छ्रेय़ांसो दितिजाः स्विद्विरोचन |
६ क
केशिन्यु उवाच:
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ||
६ ख
विरोचन उवाच:
प्राजापत्या हि वै श्रेष्ठा वय़ं केशिनि सत्तमाः |
७ क
विरोचन उवाच:
अस्माकं खल्विमे लोकाः के देवाः के द्विजातय़ः ||
७ ख
केशिन्यु उवाच:
इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन |
८ क
केशिन्यु उवाच:
सुधन्वा प्रातरागन्ता पश्येय़ं वां समागतौ ||
८ ख
विरोचन उवाच:
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे |
९ क
विरोचन उवाच:
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ||
९ ख
सुधन्वो उवाच:
अन्वालभे हिरण्मय़ं प्राह्रादेऽहं तवासनम् |
१० क
सुधन्वो उवाच:
एकत्वमुपसम्पन्नो न त्वासेय़ं त्वय़ा सह ||
१० ख
विरोचन उवाच:
अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा वृसीम् |
११ क
विरोचन उवाच:
सुधन्वन्न त्वमर्होऽसि मय़ा सह समासनम् ||
११ ख
सुधन्वो उवाच:
पितापि ते समासीनमुपासीतैव मामधः |
१२ क
सुधन्वो उवाच:
वालः सुखैधितो गेहे न त्वं किञ्चन वुध्यसे ||
१२ ख
विरोचन उवाच:
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः |
१३ क
विरोचन उवाच:
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ||
१३ ख
सुधन्वो उवाच:
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन |
१४ क
सुधन्वो उवाच:
प्राणय़ोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ||
१४ ख
विरोचन उवाच:
आवां कुत्र गमिष्यावः प्राणय़ोर्विपणे कृते |
१५ क
विरोचन उवाच:
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ||
१५ ख
सुधन्वो उवाच:
पितरं ते गमिष्यावः प्राणय़ोर्विपणे कृते |
१६ क
सुधन्वो उवाच:
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ||
१६ ख
प्रह्राद उवाच:
इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह |
१७ क
प्रह्राद उवाच:
आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ||
१७ ख
प्रह्राद उवाच:
किं वै सहैव चरतो न पुरा चरतः सह |
१८ क
प्रह्राद उवाच:
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ||
१८ ख
विरोचन उवाच:
न मे सुधन्वना सख्यं प्राणय़ोर्विपणावहे |
१९ क
विरोचन उवाच:
प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः ||
१९ ख
प्रह्राद उवाच:
उदकं मधुपर्कं चाप्यानय़न्तु सुधन्वने |
२० क
प्रह्राद उवाच:
व्रह्मन्नभ्यर्चनीय़ोऽसि श्वेता गौः पीवरीकृता ||
२० ख
सुधन्वो उवाच:
उदकं मधुपर्कं च पथ एवार्पितं मम |
२१ क
सुधन्वो उवाच:
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रव्रूहि पृच्छतोः ||
२१ ख
प्रह्राद उवाच:
पुत्रो वान्यो भवान्व्रह्मन्साक्ष्ये चैव भवेत्स्थितः |
२२ क
प्रह्राद उवाच:
तय़ोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ||
२२ ख
प्रह्राद उवाच:
अथ यो नैव प्रव्रूय़ात्सत्यं वा यदि वानृतम् |
२३ क
प्रह्राद उवाच:
एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ||
२३ ख
सुधन्वो उवाच:
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः |
२४ क
सुधन्वो उवाच:
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ||
२४ ख
सुधन्वो उवाच:
नगरे प्रतिरुद्धः सन्वहिर्द्वारे वुभुक्षितः |
२५ क
सुधन्वो उवाच:
अमित्रान्भूय़सः पश्यन्दुर्विवक्ता स्म तां वसेत् ||
२५ ख
सुधन्वो उवाच:
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते |
२६ क
सुधन्वो उवाच:
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ||
२६ ख
सुधन्वो उवाच:
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् |
२७ क
सुधन्वो उवाच:
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ||
२७ ख
प्रह्राद उवाच:
मत्तः श्रेय़ानङ्गिरा वै सुधन्वा त्वद्विरोचन |
२८ क
प्रह्राद उवाच:
मातास्य श्रेय़सी मातुस्तस्मात्त्वं तेन वै जितः ||
२८ ख
प्रह्राद उवाच:
विरोचन सुधन्वाय़ं प्राणानामीश्वरस्तव |
२९ क
प्रह्राद उवाच:
सुधन्वन्पुनरिच्छामि त्वय़ा दत्तं विरोचनम् ||
२९ ख
सुधन्वो उवाच:
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः |
३० क
सुधन्वो उवाच:
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ||
३० ख
सुधन्वो उवाच:
एष प्रह्राद पुत्रस्ते मय़ा दत्तो विरोचनः |
३१ क
सुधन्वो उवाच:
पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ||
३१ ख
विदुर उवाच:
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि |
३२ क
विदुर उवाच:
मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् ||
३२ ख
विदुर उवाच:
न देवा यष्टिमादाय़ रक्षन्ति पशुपालवत् |
३३ क
विदुर उवाच:
यं तु रक्षितुमिच्छन्ति वुद्ध्या संविभजन्ति तम् ||
३३ ख
विदुर उवाच:
यथा यथा हि पुरुषः कल्याणे कुरुते मनः |
३४ क
विदुर उवाच:
तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशय़ः ||
३४ ख
विदुर उवाच:
न छन्दांसि वृजिनात्तारय़न्ति; माय़ाविनं माय़या वर्तमानम् |
३५ क
विदुर उवाच:
नीडं शकुन्ता इव जातपक्षा; श्छन्दांस्येनं प्रजहत्यन्तकाले ||
३५ ख
विदुर उवाच:
मत्तापानं कलहं पूगवैरं; भार्यापत्योरन्तरं ज्ञातिभेदम् |
३६ क
विदुर उवाच:
राजद्विष्टं स्त्रीपुमांसोर्विवादं; वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ||
३६ ख
विदुर उवाच:
सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च |
३७ क
विदुर उवाच:
अरिं च मित्रं च कुशीलवं च; नैतान्साक्ष्येष्वधिकुर्वीत सप्त ||
३७ ख
विदुर उवाच:
मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानय़ज्ञः |
३८ क
विदुर उवाच:
एतानि चत्वार्यभय़ङ्कराणि; भय़ं प्रय़च्छन्त्ययथाकृतानि ||
३८ ख
विदुर उवाच:
अगारदाही गरदः कुण्डाशी सोमविक्रय़ी |
३९ क
विदुर उवाच:
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ||
३९ ख
विदुर उवाच:
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः |
४० क
विदुर उवाच:
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ||
४० ख
विदुर उवाच:
स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि |
४१ क
विदुर उवाच:
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे व्रह्महणैः समाः ||
४१ ख
विदुर उवाच:
तृणोल्कय़ा ज्ञाय़ते जातरूपं; युगे भद्रो व्यवहारेण साधुः |
४२ क
विदुर उवाच:
शूरो भय़ेष्वर्थकृच्छ्रेषु धीरः; कृच्छ्रास्वापत्सु सुहृदश्चारय़श्च ||
४२ ख
विदुर उवाच:
जरा रूपं हरति हि धैर्यमाशा; मृत्युः प्राणान्धर्मचर्यामसूय़ा |
४३ क
विदुर उवाच:
क्रोधः श्रिय़ं शीलमनार्यसेवा; ह्रिय़ं कामः सर्वमेवाभिमानः ||
४३ ख
विदुर उवाच:
श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते |
४४ क
विदुर उवाच:
दाक्ष्यात्तु कुरुते मूलं संय़मात्प्रतितिष्ठति ||
४४ ख
विदुर उवाच:
अष्टौ गुणाः पुरुषं दीपय़न्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च |
४५ क
विदुर उवाच:
पराक्रमश्चावहुभाषिता च; दानं यथाशक्ति कृतज्ञता च ||
४५ ख
विदुर उवाच:
एतान्गुणांस्तात महानुभावा; नेको गुणः संश्रय़ते प्रसह्य |
४६ क
विदुर उवाच:
राजा यदा सत्कुरुते मनुष्यं; सर्वान्गुणानेष गुणोऽतिभाति ||
४६ ख
विदुर उवाच:
अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि |
४७ क
विदुर उवाच:
चत्वार्येषामन्ववेतानि सद्भि; श्चत्वार्येषामन्ववय़न्ति सन्तः ||
४७ ख
विदुर उवाच:
यज्ञो दानमध्ययनं तपश्च; चत्वार्येतान्यन्ववेतानि सद्भिः |
४८ क
विदुर उवाच:
दमः सत्यमार्जवमानृशंस्यं; चत्वार्येतान्यन्ववय़न्ति सन्तः ||
४८ ख
विदुर उवाच:
न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम् |
४९ क
विदुर उवाच:
नासौ धर्मो यत्र न सत्यमस्ति; न तत्सत्यं यच्छलेनानुविद्धम् ||
४९ ख
विदुर उवाच:
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं वलं धनम् |
५० क
विदुर उवाच:
शौर्यं च चित्रभाष्यं च दश संसर्गय़ोनय़ः ||
५० ख