श्रीभगवानु उवाच:
इदं शरीरं कौन्तेय़ क्षेत्रमित्यभिधीय़ते |
१ क
श्रीभगवानु उवाच:
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||
१ ख
श्रीभगवानु उवाच:
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |
२ क
श्रीभगवानु उवाच:
क्षेत्रक्षेत्रज्ञय़ोर्ज्ञानं यत्तज्ज्ञानं मतं मम ||
२ ख
श्रीभगवानु उवाच:
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् |
३ क
श्रीभगवानु उवाच:
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ||
३ ख
श्रीभगवानु उवाच:
ऋषिभिर्वहुधा गीतं छन्दोभिर्विविधैः पृथक् |
४ क
श्रीभगवानु उवाच:
व्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||
४ ख
श्रीभगवानु उवाच:
महाभूतान्यहङ्कारो वुद्धिरव्यक्तमेव च |
५ क
श्रीभगवानु उवाच:
इन्द्रिय़ाणि दशैकं च पञ्च चेन्द्रिय़गोचराः ||
५ ख
श्रीभगवानु उवाच:
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः |
६ क
श्रीभगवानु उवाच:
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||
६ ख
श्रीभगवानु उवाच:
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् |
७ क
श्रीभगवानु उवाच:
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||
७ ख
श्रीभगवानु उवाच:
इन्द्रिय़ार्थेषु वैराग्यमनहङ्कार एव च |
८ क
श्रीभगवानु उवाच:
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||
८ ख
श्रीभगवानु उवाच:
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु |
९ क
श्रीभगवानु उवाच:
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ||
९ ख
श्रीभगवानु उवाच:
मय़ि चानन्ययोगेन भक्तिरव्यभिचारिणी |
१० क
श्रीभगवानु उवाच:
विविक्तदेशसेवित्वमरतिर्जनसंसदि ||
१० ख
श्रीभगवानु उवाच:
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् |
११ क
श्रीभगवानु उवाच:
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||
११ ख
श्रीभगवानु उवाच:
ज्ञेय़ं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |
१२ क
श्रीभगवानु उवाच:
अनादिमत्परं व्रह्म न सत्तन्नासदुच्यते ||
१२ ख
श्रीभगवानु उवाच:
सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् |
१३ क
श्रीभगवानु उवाच:
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||
१३ ख
श्रीभगवानु उवाच:
सर्वेन्द्रिय़गुणाभासं सर्वेन्द्रिय़विवर्जितम् |
१४ क
श्रीभगवानु उवाच:
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||
१४ ख
श्रीभगवानु उवाच:
वहिरन्तश्च भूतानामचरं चरमेव च |
१५ क
श्रीभगवानु उवाच:
सूक्ष्मत्वात्तदविज्ञेय़ं दूरस्थं चान्तिके च तत् ||
१५ ख
श्रीभगवानु उवाच:
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् |
१६ क
श्रीभगवानु उवाच:
भूतभर्तृ च तज्ज्ञेय़ं ग्रसिष्णु प्रभविष्णु च ||
१६ ख
श्रीभगवानु उवाच:
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |
१७ क
श्रीभगवानु उवाच:
ज्ञानं ज्ञेय़ं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||
१७ ख
श्रीभगवानु उवाच:
इति क्षेत्रं तथा ज्ञानं ज्ञेय़ं चोक्तं समासतः |
१८ क
श्रीभगवानु उवाच:
मद्भक्त एतद्विज्ञाय़ मद्भावाय़ोपपद्यते ||
१८ ख
श्रीभगवानु उवाच:
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि |
१९ क
श्रीभगवानु उवाच:
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ||
१९ ख
श्रीभगवानु उवाच:
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते |
२० क
श्रीभगवानु उवाच:
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ||
२० ख
श्रीभगवानु उवाच:
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् |
२१ क
श्रीभगवानु उवाच:
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ||
२१ ख
श्रीभगवानु उवाच:
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः |
२२ क
श्रीभगवानु उवाच:
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ||
२२ ख
श्रीभगवानु उवाच:
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह |
२३ क
श्रीभगवानु उवाच:
सर्वथा वर्तमानोऽपि न स भूय़ोऽभिजाय़ते ||
२३ ख
श्रीभगवानु उवाच:
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना |
२४ क
श्रीभगवानु उवाच:
अन्ये साङ्ख्येन योगेन कर्मय़ोगेन चापरे ||
२४ ख
श्रीभगवानु उवाच:
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते |
२५ क
श्रीभगवानु उवाच:
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपराय़णाः ||
२५ ख
श्रीभगवानु उवाच:
यावत्सञ्जाय़ते किञ्चित्सत्त्वं स्थावरजङ्गमम् |
२६ क
श्रीभगवानु उवाच:
क्षेत्रक्षेत्रज्ञसंय़ोगात्तद्विद्धि भरतर्षभ ||
२६ ख
श्रीभगवानु उवाच:
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् |
२७ क
श्रीभगवानु उवाच:
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ||
२७ ख
श्रीभगवानु उवाच:
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |
२८ क
श्रीभगवानु उवाच:
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ||
२८ ख
श्रीभगवानु उवाच:
प्रकृत्यैव च कर्माणि क्रिय़माणानि सर्वशः |
२९ क
श्रीभगवानु उवाच:
यः पश्यति तथात्मानमकर्तारं स पश्यति ||
२९ ख
श्रीभगवानु उवाच:
यदा भूतपृथग्भावमेकस्थमनुपश्यति |
३० क
श्रीभगवानु उवाच:
तत एव च विस्तारं व्रह्म सम्पद्यते तदा ||
३० ख
श्रीभगवानु उवाच:
अनादित्वान्निर्गुणत्वात्परमात्माय़मव्ययः |
३१ क
श्रीभगवानु उवाच:
शरीरस्थोऽपि कौन्तेय़ न करोति न लिप्यते ||
३१ ख
श्रीभगवानु उवाच:
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |
३२ क
श्रीभगवानु उवाच:
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||
३२ ख
श्रीभगवानु उवाच:
यथा प्रकाशय़त्येकः कृत्स्नं लोकमिमं रविः |
३३ क
श्रीभगवानु उवाच:
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशय़ति भारत ||
३३ ख
श्रीभगवानु उवाच:
क्षेत्रक्षेत्रज्ञय़ोरेवमन्तरं ज्ञानचक्षुषा |
३४ क
श्रीभगवानु उवाच:
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ||
३४ ख