chevron_left द्रोण पर्व अध्याय ३५
सञ्जय़ उवाच:
सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः |
१ क
सञ्जय़ उवाच:
अचोदय़त यन्तारं द्रोणानीकाय़ भारत ||
१ ख
सञ्जय़ उवाच:
तेन सञ्चोद्यमानस्तु याहि याहीति सारथिः |
२ क
सञ्जय़ उवाच:
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ||
२ ख
सञ्जय़ उवाच:
अतिभारोऽय़माय़ुष्मन्नाहितस्त्वय़ि पाण्डवैः |
३ क
सञ्जय़ उवाच:
सम्प्रधार्य क्षमं वुद्ध्या ततस्त्वं योद्धुमर्हसि ||
३ ख
सञ्जय़ उवाच:
आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः |
४ क
सञ्जय़ उवाच:
अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः ||
४ ख
सञ्जय़ उवाच:
ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमव्रवीत् |
५ क
सञ्जय़ उवाच:
सारथे को न्वय़ं द्रोणः समग्रं क्षत्रमेव वा ||
५ ख
सञ्जय़ उवाच:
ऐरावतगतं शक्रं सहामरगणैरहम् |
६ क
सञ्जय़ उवाच:
योधय़ेय़ं रणमुखे न मे क्षत्रेऽद्य विस्मय़ः |
६ ख
सञ्जय़ उवाच:
न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् ||
६ ग
सञ्जय़ उवाच:
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज |
७ क
सञ्जय़ उवाच:
पितरं चार्जुनं सङ्ख्ये न भीर्मामुपय़ास्यति ||
७ ख
सञ्जय़ उवाच:
ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः |
८ क
सञ्जय़ उवाच:
याहीत्येवाव्रवीदेनं द्रोणानीकाय़ माचिरम् ||
८ ख
सञ्जय़ उवाच:
ततः सञ्चोदय़ामास हय़ानस्य त्रिहाय़नान् |
९ क
सञ्जय़ उवाच:
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ||
९ ख
सञ्जय़ उवाच:
ते प्रेषिताः सुमित्रेण द्रोणानीकाय़ वाजिनः |
१० क
सञ्जय़ उवाच:
द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः ||
१० ख
सञ्जय़ उवाच:
तमुदीक्ष्य तथाय़ान्तं सर्वे द्रोणपुरोगमाः |
११ क
सञ्जय़ उवाच:
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वय़ुः ||
११ ख
सञ्जय़ उवाच:
स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः |
१२ क
सञ्जय़ उवाच:
युय़ुत्सय़ा द्रोणमुखान्महारथा; न्समासदत्सिंहशिशुर्यथा गजान् ||
१२ ख
सञ्जय़ उवाच:
ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे |
१३ क
सञ्जय़ उवाच:
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ||
१३ ख
सञ्जय़ उवाच:
शूराणां युध्यमानानां निघ्नतामितरेतरम् |
१४ क
सञ्जय़ उवाच:
सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ||
१४ ख
सञ्जय़ उवाच:
प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभय़ङ्करे |
१५ क
सञ्जय़ उवाच:
द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः ||
१५ ख
सञ्जय़ उवाच:
तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महावलम् |
१६ क
सञ्जय़ उवाच:
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदाय़ुधाः ||
१६ ख
सञ्जय़ उवाच:
नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः |
१७ क
सञ्जय़ उवाच:
हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः ||
१७ ख
सञ्जय़ उवाच:
घोरैर्हलहलाशव्दैर्मा गास्तिष्ठैहि मामिति |
१८ क
सञ्जय़ उवाच:
असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः ||
१८ ख
सञ्जय़ उवाच:
वृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि |
१९ क
सञ्जय़ उवाच:
संनादय़न्तो वसुधामभिदुद्रुवुरार्जुनिम् ||
१९ ख
सञ्जय़ उवाच:
तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् |
२० क
सञ्जय़ उवाच:
क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः ||
२० ख
सञ्जय़ उवाच:
ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः |
२१ क
सञ्जय़ उवाच:
अभिपेतुस्तमेवाजौ शलभा इव पावकम् ||
२१ ख
सञ्जय़ उवाच:
ततस्तेषां शरीरैश्च शरीरावय़वैश्च सः |
२२ क
सञ्जय़ उवाच:
सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ||
२२ ख
सञ्जय़ उवाच:
वद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् |
२३ क
सञ्जय़ उवाच:
सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् ||
२३ ख
सञ्जय़ उवाच:
सगुडाय़ोमुखप्रासान्सर्ष्टितोमरपट्टिशान् |
२४ क
सञ्जय़ उवाच:
सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् ||
२४ ख
सञ्जय़ उवाच:
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् |
२५ क
सञ्जय़ उवाच:
समुद्गरक्षेपणीय़ान्सपाशपरिघोपलान् ||
२५ ख
सञ्जय़ उवाच:
सकेय़ूराङ्गदान्वाहून्हृद्यगन्धानुलेपनान् |
२६ क
सञ्जय़ उवाच:
सञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीय़ानां सहस्रशः ||
२६ ख
सञ्जय़ उवाच:
तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः |
२७ क
सञ्जय़ उवाच:
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ||
२७ ख
सञ्जय़ उवाच:
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः |
२८ क
सञ्जय़ उवाच:
सन्दष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं वहु ||
२८ ख
सञ्जय़ उवाच:
चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः |
२९ क
सञ्जय़ उवाच:
विनालनलिनाकारैर्दिवाकरशशिप्रभैः ||
२९ ख
सञ्जय़ उवाच:
हितप्रिय़ंवदैः काले वहुभिः पुण्यगन्धिभिः |
३० क
सञ्जय़ उवाच:
द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः ||
३० ख
सञ्जय़ उवाच:
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |
३१ क
सञ्जय़ उवाच:
वीषामुखान्वित्रिवेणून्व्यस्तदण्डकवन्धुरान् ||
३१ ख
सञ्जय़ उवाच:
विजङ्घकूवराक्षांश्च विनेमीननरानपि |
३२ क
सञ्जय़ उवाच:
विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ||
३२ ख
सञ्जय़ उवाच:
प्रशातितोपकरणान्हतय़ोधान्सहस्रशः |
३३ क
सञ्जय़ उवाच:
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ||
३३ ख
सञ्जय़ उवाच:
पुनर्द्विपान्द्विपारोहान्वैजय़न्त्यङ्कुशध्वजान् |
३४ क
सञ्जय़ उवाच:
तूणान्वर्माण्यथो कक्ष्या ग्रैवेय़ानथ कम्वलान् ||
३४ ख
सञ्जय़ उवाच:
घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् |
३५ क
सञ्जय़ उवाच:
शरैर्निशितधाराग्रैः शात्रवाणामशातय़त् ||
३५ ख
सञ्जय़ उवाच:
वनाय़ुजान्पार्वतीय़ान्काम्वोजारट्टवाह्लिकान् |
३६ क
सञ्जय़ उवाच:
स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ||
३६ ख
सञ्जय़ उवाच:
स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासय़ोधिभिः |
३७ क
सञ्जय़ उवाच:
विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् ||
३७ ख
सञ्जय़ उवाच:
निरस्तजिह्वानय़नान्निष्कीर्णान्त्रय़कृद्घनान् |
३८ क
सञ्जय़ उवाच:
हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् ||
३८ ख
सञ्जय़ उवाच:
निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् |
३९ क
सञ्जय़ उवाच:
निपातय़न्नश्ववरांस्तावकान्सोऽभ्यरोचत ||
३९ ख
सञ्जय़ उवाच:
एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् |
४० क
सञ्जय़ उवाच:
तथा विमथितं तेन त्र्यङ्गं तव वलं महत् |
४० ख
सञ्जय़ उवाच:
व्यहनत्स पदात्योघांस्त्वदीय़ानेव भारत ||
४० ग
सञ्जय़ उवाच:
एवमेकेन तां सेनां सौभद्रेण शितैः शरैः |
४१ क
सञ्जय़ उवाच:
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ||
४१ ख
सञ्जय़ उवाच:
त्वदीय़ास्तव पुत्राश्च वीक्षमाणा दिशो दश |
४२ क
सञ्जय़ उवाच:
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः ||
४२ ख
सञ्जय़ उवाच:
पलाय़नकृतोत्साहा निरुत्साहा द्विषज्जय़े |
४३ क
सञ्जय़ उवाच:
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ||
४३ ख
सञ्जय़ उवाच:
हतान्पुत्रांस्तथा पितॄन्सुहृत्सम्वन्धिवान्धवान् |
४४ क
सञ्जय़ उवाच:
प्रातिष्ठन्त समुत्सृज्य त्वरय़न्तो हय़द्विपान् ||
४४ ख