सूर्य उवाच:
नैष देवोऽनिलसखो नासुरो न च पन्नगः |
१ क
सूर्य उवाच:
उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः ||
१ ख
सूर्य उवाच:
एष मूलफलाहारः शीर्णपर्णाशनस्तथा |
२ क
सूर्य उवाच:
अव्भक्षो वाय़ुभक्षश्च आसीद्विप्रः समाहितः ||
२ ख
सूर्य उवाच:
ऋचश्चानेन विप्रेण संहितान्तरभिष्टुताः |
३ क
सूर्य उवाच:
स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः ||
३ ख
सूर्य उवाच:
असन्नधीरनाकाङ्क्षी नित्यमुञ्छशिलाशनः |
४ क
सूर्य उवाच:
सर्वभूतहिते युक्त एष विप्रो भुजङ्गम ||
४ ख
सूर्य उवाच:
न हि देवा न गन्धर्वा नासुरा न च पन्नगाः |
५ क
सूर्य उवाच:
प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम् ||
५ ख
नाग उवाच:
एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज |
६ क
नाग उवाच:
संसिद्धो मानुषः काय़ो योऽसौ सिद्धगतिं गतः |
६ ख
नाग उवाच:
सूर्येण सहितो व्रह्मन्पृथिवीं परिवर्तते ||
६ ग