व्राह्मण उवाच:
आश्चर्यं नात्र सन्देहः सुप्रीतोऽस्मि भुजङ्गम |
१ क
व्राह्मण उवाच:
अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः ||
१ ख
व्राह्मण उवाच:
स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम |
२ क
व्राह्मण उवाच:
स्मरणीय़ोऽस्मि भवता सम्प्रेषणनिय़ोजनैः ||
२ ख
नाग उवाच:
अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् |
३ क
नाग उवाच:
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः ||
३ ख
नाग उवाच:
उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ |
४ क
नाग उवाच:
मय़ा प्रत्यभ्यनुज्ञातस्ततो यास्यसि व्राह्मण ||
४ ख
नाग उवाच:
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणय़वानिह |
५ क
नाग उवाच:
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा ||
५ ख
नाग उवाच:
त्वय़ि चाहं द्विजश्रेष्ठ भवान्मय़ि न संशय़ः |
६ क
नाग उवाच:
लोकोऽय़ं भवतः सर्वः का चिन्ता मय़ि तेऽनघ ||
६ ख
व्राह्मण उवाच:
एवमेतन्महाप्राज्ञ विज्ञातार्थ भुजङ्गम |
७ क
व्राह्मण उवाच:
नातिरिक्तास्त्वय़ा देवाः सर्वथैव यथातथम् ||
७ ख
व्राह्मण उवाच:
य एवाहं स एव त्वमेवमेतद्भुजङ्गम |
८ क
व्राह्मण उवाच:
अहं भवांश्च भूतानि सर्वे सर्वत्रगाः सदा ||
८ ख
व्राह्मण उवाच:
आसीत्तु मे भोगपते संशय़ः पुण्यसञ्चय़े |
९ क
व्राह्मण उवाच:
सोऽहमुञ्छव्रतं साधो चरिष्याम्यर्थदर्शनम् ||
९ ख
व्राह्मण उवाच:
एष मे निश्चय़ः साधो कृतः कारणवत्तरः |
१० क
व्राह्मण उवाच:
आमन्त्रय़ामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम ||
१० ख