वैशम्पाय़न उवाच:
ततो विनशनं राजन्नाजगाम हलाय़ुधः |
१ क
वैशम्पाय़न उवाच:
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती ||
१ ख
वैशम्पाय़न उवाच:
यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती |
२ क
वैशम्पाय़न उवाच:
तस्मात्तदृषय़ो नित्यं प्राहुर्विनशनेति ह ||
२ ख
वैशम्पाय़न उवाच:
तच्चाप्युपस्पृश्य वलः सरस्वत्यां महावलः |
३ क
वैशम्पाय़न उवाच:
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे ||
३ ख
वैशम्पाय़न उवाच:
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः |
४ क
वैशम्पाय़न उवाच:
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ||
४ ख
वैशम्पाय़न उवाच:
तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर |
५ क
वैशम्पाय़न उवाच:
अभिगच्छन्ति तत्तीर्थं पुण्यं व्राह्मणसेवितम् ||
५ ख
वैशम्पाय़न उवाच:
तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः |
६ क
वैशम्पाय़न उवाच:
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् ||
६ ख
वैशम्पाय़न उवाच:
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः |
७ क
वैशम्पाय़न उवाच:
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ||
७ ख
वैशम्पाय़न उवाच:
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा |
८ क
वैशम्पाय़न उवाच:
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ||
८ ख
वैशम्पाय़न उवाच:
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः |
९ क
वैशम्पाय़न उवाच:
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ||
९ ख
वैशम्पाय़न उवाच:
छाय़ाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् |
१० क
वैशम्पाय़न उवाच:
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ||
१० ख
वैशम्पाय़न उवाच:
विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः |
११ क
वैशम्पाय़न उवाच:
नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम् ||
११ ख
वैशम्पाय़न उवाच:
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु |
१२ क
वैशम्पाय़न उवाच:
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा ||
१२ ख
वैशम्पाय़न उवाच:
भोजय़ित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः |
१३ क
वैशम्पाय़न उवाच:
प्रय़यौ सहितो विप्रैः स्तूय़मानश्च माधवः ||
१३ ख
वैशम्पाय़न उवाच:
तस्माद्गन्धर्वतीर्थाच्च महावाहुररिन्दमः |
१४ क
वैशम्पाय़न उवाच:
गर्गस्रोतो महातीर्थमाजगामैककुण्डली ||
१४ ख
वैशम्पाय़न उवाच:
यत्र गर्गेण वृद्धेन तपसा भावितात्मना |
१५ क
वैशम्पाय़न उवाच:
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ||
१५ ख
वैशम्पाय़न उवाच:
उत्पाता दारुणाश्चैव शुभाश्च जनमेजय़ |
१६ क
वैशम्पाय़न उवाच:
सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना |
१६ ख
वैशम्पाय़न उवाच:
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ||
१६ ग
वैशम्पाय़न उवाच:
तत्र गर्गं महाभागमृषय़ः सुव्रता नृप |
१७ क
वैशम्पाय़न उवाच:
उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ||
१७ ख
वैशम्पाय़न उवाच:
तत्र गत्वा महाराज वलः श्वेतानुलेपनः |
१८ क
वैशम्पाय़न उवाच:
विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम् ||
१८ ख
वैशम्पाय़न उवाच:
उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय़ सः |
१९ क
वैशम्पाय़न उवाच:
नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महाय़शाः ||
१९ ख
वैशम्पाय़न उवाच:
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् |
२० क
वैशम्पाय़न उवाच:
श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम् |
२० ख
वैशम्पाय़न उवाच:
सरस्वत्यास्तटे जातं नगं तालध्वजो वली ||
२० ग
वैशम्पाय़न उवाच:
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः |
२१ क
वैशम्पाय़न उवाच:
पिशाचाश्चामितवला यत्र सिद्धाः सहस्रशः ||
२१ ख
वैशम्पाय़न उवाच:
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः |
२२ क
वैशम्पाय़न उवाच:
व्रतैश्च निय़मैश्चैव काले काले स्म भुञ्जते ||
२२ ख
वैशम्पाय़न उवाच:
प्राप्तैश्च निय़मैस्तैस्तैर्विचरन्तः पृथक्पृथक् |
२३ क
वैशम्पाय़न उवाच:
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ||
२३ ख
वैशम्पाय़न उवाच:
एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः |
२४ क
वैशम्पाय़न उवाच:
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् ||
२४ ख
वैशम्पाय़न उवाच:
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् |
२५ क
वैशम्पाय़न उवाच:
ताम्राय़सानि भाण्डानि वस्त्राणि विविधानि च ||
२५ ख
वैशम्पाय़न उवाच:
पूजय़ित्वा द्विजांश्चैव पूजितश्च तपोधनैः |
२६ क
वैशम्पाय़न उवाच:
पुण्यं द्वैतवनं राजन्नाजगाम हलाय़ुधः ||
२६ ख
वैशम्पाय़न उवाच:
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्वलः |
२७ क
वैशम्पाय़न उवाच:
आप्लुत्य सलिले चापि पूजय़ामास वै द्विजान् ||
२७ ख
वैशम्पाय़न उवाच:
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् |
२८ क
वैशम्पाय़न उवाच:
ततः प्राय़ाद्वलो राजन्दक्षिणेन सरस्वतीम् ||
२८ ख
वैशम्पाय़न उवाच:
गत्वा चैव महावाहुर्नातिदूरं महाय़शाः |
२९ क
वैशम्पाय़न उवाच:
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ||
२९ ख
वैशम्पाय़न उवाच:
यत्र पन्नगराजस्य वासुकेः संनिवेशनम् |
३० क
वैशम्पाय़न उवाच:
महाद्युतेर्महाराज वहुभिः पन्नगैर्वृतम् |
३० ख
वैशम्पाय़न उवाच:
यत्रासन्नृषय़ः सिद्धाः सहस्राणि चतुर्दश ||
३० ग
वैशम्पाय़न उवाच:
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् |
३१ क
वैशम्पाय़न उवाच:
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि |
३१ ख
वैशम्पाय़न उवाच:
पन्नगेभ्यो भय़ं तत्र विद्यते न स्म कौरव ||
३१ ग
वैशम्पाय़न उवाच:
तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसञ्चय़ान् |
३२ क
वैशम्पाय़न उवाच:
प्राय़ात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा ||
३२ ख
वैशम्पाय़न उवाच:
आप्लुत्य वहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली |
३३ क
वैशम्पाय़न उवाच:
दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः ||
३३ ख
वैशम्पाय़न उवाच:
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलाय़ुधः |
३४ क
वैशम्पाय़न उवाच:
ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत् ||
३४ ख
वैशम्पाय़न उवाच:
यत्र भूय़ो निववृते प्राङ्मुखा वै सरस्वती |
३५ क
वैशम्पाय़न उवाच:
ऋषीणां नैमिषेय़ाणामवेक्षार्थं महात्मनाम् ||
३५ ख
वैशम्पाय़न उवाच:
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली |
३६ क
वैशम्पाय़न उवाच:
वभूव विस्मितो राजन्वलः श्वेतानुलेपनः ||
३६ ख
जनमेजय़ उवाच:
कस्मात्सरस्वती व्रह्मन्निवृत्ता प्राङ्मुखी ततः |
३७ क
जनमेजय़ उवाच:
व्याख्यातुमेतदिच्छामि सर्वमध्वर्युसत्तम ||
३७ ख
जनमेजय़ उवाच:
कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः |
३८ क
जनमेजय़ उवाच:
विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम ||
३८ ख
वैशम्पाय़न उवाच:
पूर्वं कृतय़ुगे राजन्नैमिषेय़ास्तपस्विनः |
३९ क
वैशम्पाय़न उवाच:
वर्तमाने सुवहुले सत्रे द्वादशवार्षिके |
३९ ख
वैशम्पाय़न उवाच:
ऋषय़ो वहवो राजंस्तत्र सम्प्रतिपेदिरे ||
३९ ग
वैशम्पाय़न उवाच:
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि |
४० क
वैशम्पाय़न उवाच:
निवृत्ते नैमिषेय़े वै सत्रे द्वादशवार्षिके |
४० ख
वैशम्पाय़न उवाच:
आजग्मुरृषय़स्तत्र वहवस्तीर्थकारणात् ||
४० ग
वैशम्पाय़न उवाच:
ऋषीणां वहुलत्वात्तु सरस्वत्या विशां पते |
४१ क
वैशम्पाय़न उवाच:
तीर्थानि नगराय़न्ते कूले वै दक्षिणे तदा ||
४१ ख
वैशम्पाय़न उवाच:
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः |
४२ क
वैशम्पाय़न उवाच:
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ||
४२ ख
वैशम्पाय़न उवाच:
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् |
४३ क
वैशम्पाय़न उवाच:
स्वाध्याय़ेनापि महता वभूवुः पूरिता दिशः ||
४३ ख
वैशम्पाय़न उवाच:
अग्निहोत्रैस्ततस्तेषां हूय़मानैर्महात्मनाम् |
४४ क
वैशम्पाय़न उवाच:
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ||
४४ ख
वैशम्पाय़न उवाच:
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः |
४५ क
वैशम्पाय़न उवाच:
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथापरे ||
४५ ख
वैशम्पाय़न उवाच:
वाय़ुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः |
४६ क
वैशम्पाय़न उवाच:
नानानिय़मय़ुक्ताश्च तथा स्थण्डिलशाय़िनः ||
४६ ख
वैशम्पाय़न उवाच:
आसन्वै मुनय़स्तत्र सरस्वत्याः समीपतः |
४७ क
वैशम्पाय़न उवाच:
शोभय़न्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ||
४७ ख