विदुर उवाच:
अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः |
५१ क
विदुर उवाच:
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ||
५१ ख
विदुर उवाच:
स्वधीतस्य सुय़ुद्धस्य सुकृतस्य च कर्मणः |
५२ क
विदुर उवाच:
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ||
५२ ख
विदुर उवाच:
स्वास्तीर्णानि शय़नानि प्रपन्ना; न वै भिन्ना जातु निद्रां लभन्ते |
५३ क
विदुर उवाच:
न स्त्रीषु राजन्रतिमाप्नुवन्ति; न मागधैः स्तूय़माना न सूतैः ||
५३ ख
विदुर उवाच:
न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं प्राप्नुवन्तीह भिन्नाः |
५४ क
विदुर उवाच:
न वै भिन्ना गौरवं मानय़न्ति; न वै भिन्नाः प्रशमं रोचय़न्ति ||
५४ ख
विदुर उवाच:
न वै तेषां स्वदते पथ्यमुक्तं; योगक्षेमं कल्पते नोत तेषाम् |
५५ क
विदुर उवाच:
भिन्नानां वै मनुजेन्द्र पराय़णं; न विद्यते किञ्चिदन्यद्विनाशात् ||
५५ ख
विदुर उवाच:
सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं व्राह्मणे तपः |
५६ क
विदुर उवाच:
सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ज्ञातितो भय़म् ||
५६ ख
विदुर उवाच:
तन्तवोऽप्याय़ता नित्यं तन्तवो वहुलाः समाः |
५७ क
विदुर उवाच:
वहून्वहुत्वादाय़ासान्सहन्तीत्युपमा सताम् ||
५७ ख
विदुर उवाच:
धूमाय़न्ते व्यपेतानि ज्वलन्ति सहितानि च |
५८ क
विदुर उवाच:
धृतराष्ट्रोल्मुकानीव ज्ञातय़ो भरतर्षभ ||
५८ ख
विदुर उवाच:
व्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च |
५९ क
विदुर उवाच:
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ||
५९ ख
विदुर उवाच:
महानप्येकजो वृक्षो वलवान्सुप्रतिष्ठितः |
६० क
विदुर उवाच:
प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् ||
६० ख
विदुर उवाच:
अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः |
६१ क
विदुर उवाच:
ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रय़ात् ||
६१ ख
विदुर उवाच:
एवं मनुष्यमप्येकं गुणैरपि समन्वितम् |
६२ क
विदुर उवाच:
शक्यं द्विषन्तो मन्यन्ते वाय़ुर्द्रुममिवैकजम् ||
६२ ख
विदुर उवाच:
अन्योन्यसमुपष्टम्भादन्योन्यापाश्रय़ेण च |
६३ क
विदुर उवाच:
ज्ञातय़ः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ||
६३ ख
विदुर उवाच:
अवध्या व्राह्मणा गावः स्त्रिय़ो वालाश्च ज्ञातय़ः |
६४ क
विदुर उवाच:
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ||
६४ ख
विदुर उवाच:
न मनुष्ये गुणः कश्चिदन्यो धनवतामपि |
६५ क
विदुर उवाच:
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ||
६५ ख
विदुर उवाच:
अव्याधिजं कटुकं शीर्षरोगं; पापानुवन्धं परुषं तीक्ष्णमुग्रम् |
६६ क
विदुर उवाच:
सतां पेय़ं यन्न पिवन्त्यसन्तो; मन्युं महाराज पिव प्रशाम्य ||
६६ ख
विदुर उवाच:
रोगार्दिता न फलान्याद्रिय़न्ते; न वै लभन्ते विषय़ेषु तत्त्वम् |
६७ क
विदुर उवाच:
दुःखोपेता रोगिणो नित्यमेव; न वुध्यन्ते धनभोगान्न सौख्यम् ||
६७ ख
विदुर उवाच:
पुरा ह्युक्तो नाकरोस्त्वं वचो मे; द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् |
६८ क
विदुर उवाच:
दुर्योधनं वारय़ेत्यक्षवत्यां; कितवत्वं पण्डिता वर्जय़न्ति ||
६८ ख
विदुर उवाच:
न तद्वलं यन्मृदुना विरुध्यते; मिश्रो धर्मस्तरसा सेवितव्यः |
६९ क
विदुर उवाच:
प्रध्वंसिनी क्रूरसमाहिता श्री; र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ||
६९ ख
विदुर उवाच:
धार्तराष्ट्राः पाण्डवान्पालय़न्तु; पाण्डोः सुतास्तव पुत्रांश्च पान्तु |
७० क
विदुर उवाच:
एकारिमित्राः कुरवो ह्येकमन्त्रा; जीवन्तु राजन्सुखिनः समृद्धाः ||
७० ख
विदुर उवाच:
मेढीभूतः कौरवाणां त्वमद्य; त्वय़्याधीनं कुरुकुलमाजमीढ |
७१ क
विदुर उवाच:
पार्थान्वालान्वनवासप्रतप्ता; न्गोपाय़स्व स्वं यशस्तात रक्षन् ||
७१ ख
विदुर उवाच:
सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रै; र्मा तेऽन्तरं रिपवः प्रार्थय़न्तु |
७२ क
विदुर उवाच:
सत्ये स्थितास्ते नरदेव सर्वे; दुर्योधनं स्थापय़ त्वं नरेन्द्र ||
७२ ख